ब्रह्मकृतं १ श्रीकृष्णस्तोत्रम्

ब्रह्मकृतं १ श्रीकृष्णस्तोत्रम्

ब्रह्मोवाच । सर्वस्वरूपं सर्वेशं सर्वकारणकारणम् । सर्वानिर्वचनीयं तं नमामि शिवरूपिणम् ॥ ३७॥ नवीनजलदाकारं श्यामसुन्दरविग्रहम् । स्थितं जन्तुषु सर्वेषु निर्लिप्तं साक्षिरूपिणम् ॥ ३८॥ स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम् । सर्वस्वरूपं सर्वेषां बीजरूपं सनातनम् ॥ ३९॥ सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् । सर्वाराध्यं सर्वगुरुं सर्वमङ्गलकारणम् ॥ ४०॥ सर्वमन्त्रस्वरूपं च सर्वसम्पत्करं वरम् । शक्तियुक्तमयुक्तं च स्तौमि स्वेच्छामयं विभुम् ॥ ४१॥ शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम् । संसारसागरे घोरे शक्तिनौकासमन्वितम् ॥ ४२॥ कृपालुं कर्णधारं च नमामि भक्तवत्सलम् । आत्मस्वरूपमेकान्तं लिप्तं निर्लिप्तमेव च ॥ ४३॥ सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम् । सर्वेन्द्रियादिदेवं तमिन्द्रियालयमेव च ॥ ४४॥ सर्वेन्द्रियस्वरूपं च विराड्रूपं नमाम्यहम् । वेदं च वेदजनकं सर्ववेदाङ्गरूपिणम् ॥ ४५॥ सर्वमन्तस्वरूपं च नमामि परमेश्वरम् । सारात्सारतरं द्रव्यमपूर्वमनिरूपिणम् ॥ ४६॥ स्वतन्त्रमस्वतन्त्रं च यशोदानन्दनं भजे । सन्तं सर्वशरीरेषु तमदृष्टमनूहकम् ॥ ४७॥ ध्यानासाध्यं विद्यमानं योगीन्द्राणां गुरुं भजे । रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ॥ ४८॥ गोपीभिः सेव्यमानं च तं धरेशं नमाम्यहम् । सतां सदैव सन्तं तमसन्तमसतामपि ॥ ४९॥ योगीशं योगसाध्यं च नमामि शिवसेवितम् । मन्त्रबीजं मन्त्रराजं मन्त्रदं फलदं फलम् ॥ ५०॥ मन्त्रसिद्धिस्वरूपं तं नमामि च परात्परम् । सुखं दुःखं च सुखदं दुःखदं पुण्यमेव च ॥ ५१॥ पुण्यप्रदं च शुभदं शुभबीजं नमाम्यहम् । इत्येवं स्तवनं कृत्वा दत्त्वा गाश्च स बालकान् ॥ ९२॥ निपत्य दण्डवद्भूमौ रुरोद प्रणनाम च । ददर्श चक्षुरुन्मील्य विधाता जगतां मुने ॥ ५३॥ ब्रह्मणा च कृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् । इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ॥ ५४॥ लभते दास्यमतुलं स्थानमीश्वरसन्निधौ । लब्ध्वा च कृष्णसान्निध्यं पार्षदप्रवरो भवेत् ॥ ५५॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे विंशाध्यायान्तर्गतं ब्रह्मकृतं श्रीकृष्णस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय २०/३७-५१॥ brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 20/37-51.. Proofread by PSA Easwaran
% Text title            : Brahmakritam 1 Shri Krishna Stotram
% File name             : brahmakRRitaM1shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (brahmakRitaM 1 brahmavaivartapurANAntargatam sarvasvarUpaM sarveshaM sarvakAraNakAraNam)
% engtitle              : brahmakRRitaM 1 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, brahmavaivartapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, pUrvabhAga | adhyAya 20/37-51||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 22, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org