ब्रह्मप्रकाशाख्यब्रह्मचारिप्रोक्तं बालकृष्णस्तोत्रम्
इत्युक्तो ब्राह्मणः प्राह गुरोर्योगादहं तव ।
प्रज्वाल्य सर्वपापानि करिष्ये मोक्षणं ध्रुवम् ॥ ८३॥
यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषूणादनु ।
व्रतानि वा सुचीर्णानि मोक्षो भवतु रक्षसः ॥ ८४॥
यद्यहं पितरं देवं गुरुं च मातरं हरिम् ।
गौरवेणाऽभिवन्दामि मोक्षो भवतु रक्षसः ॥ ८५॥
यद्यहं मनसा वाचा कर्मणा च गुरुं हरिम् ।
नाऽवमाने योजयामि मोक्षो भवतु रक्षसः ॥ ८६॥
जप राक्षस देवेशं श्रीकृष्णं पुरुषोत्तमम् ।
हरिकृष्णं हृषीकेशं वासुदेवं जनार्दनम् ॥ ८७॥
प्रणतोऽस्मि जगन्नाथं स च मोक्षं दधातु मे ।
चराचरगुरुं नाथं कृष्णनारायणं प्रभुम् ॥ ८८॥
शङ्खिनं चक्रिणं शार्ङ्गधारिणं ध्वजिनं हरिम् ।
प्रणतोऽस्मि पतिं लक्ष्म्याः स च मोक्षं दधातु मे ॥ ८९॥
दामोदरं पुण्डरीकनेत्रं च शेषशायिनम् ।
प्रणतोऽस्मि च गोविन्दं स च मोक्षं दधातु मे ॥ ९०॥
नारायणं नरं पृथ्वीधरं धामाधिवासिनम् ।
प्रणतोऽस्मि प्रभानाथं स च मोक्षं दधातु मे ॥ ९१॥
श्रीवत्सवक्षसं श्रीशं श्रीमत्पारवतीपतिम् ।
प्रणतोऽस्मि रमाकान्तं स च मोक्षं दधातु मे ॥ ९२॥
यतयो यं चिन्तयन्ति राधा रञ्जयति प्रभुम् ।
समस्तालम्बनमूर्तिं तमस्मि शरणं गतः ॥ ९३॥
परब्रह्माऽसङ्ख्यगोपीपतिं श्रीकम्भरासुतम् ।
सर्वाधारं सर्वगं च तमस्मि शरणं गतः ॥ ९४॥
परमात्मानमात्मस्थं कर्मक्षालनशक्तिकम् ।
पुनर्भवप्रभेत्तारं तमस्मि शरणं गतः ॥ ९५॥
ईशान् देवानृषीन् पितॄन् मानवाँश्च सरीसृपान् ।
पादपान् जलजान् स्वेदोद्भवान् सृजति रक्षति ॥ ९६॥
ब्रह्मरूपधरं जगद्योनिं त्रातारमच्युतम् ।
गोपालकृष्णबालं च तमस्मि शरणं गतः ॥ ९७॥
यज्ञेश चान्तकं सर्वान्तर्यामिणं परेश्वरम् ।
यस्मान्नान्यत्परं किञ्चित् तमस्मि शरणं गतः ॥ ९८॥
शुभाऽशुभानि कार्याणि जन्मान्तरकृतानि मे ।
अनादिश्रीकृष्णनारायणस्तानि व्यपोहतु ॥ ९९॥
यन्निशायां च यत्प्रातर्यन्मध्याह्नाऽपराह्णयोः ।
सन्ध्ययोश्च कृतं पापं तन्मे सर्वं प्रणश्यतु ॥ १००॥
यत्तिष्ठता यद्व्रजता यच्च शय्यागतेन वै ।
कृतं दुःखकरं कर्म कायेन मनसा गिरा ॥ १०१॥
अज्ञानतो ज्ञानतो वा मदाच्चलितचेतसा ।
तत्क्षिप्रं विलयं यातु बालकृष्णस्य कीर्तनात् ॥ १०२॥
परदारपरद्रव्यवाञ्च्छाद्रोहोद्भवं च यत् ।
महात्मनां प्रनिन्दां च कुर्वता परदुःखदाम् ॥ १०३॥
कृतं पापं मर्मभेदिवचसा तत्प्रणश्यतु ।
यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने ॥ १०४॥
यद्बाल्ये यच्च कौमार्ये यत्पापं यौवने मम ।
वयःपरिणतौ यच्च यच्च जन्मान्तरे कृतम् ॥ १०५॥
तदनादिकृष्णनारायणेति जपकीर्तनात् ।
प्रयातु विलयं सद्यो मोक्षदस्य प्रभावनात् ॥ १०६॥
अनादिश्रीकृष्णनारायणाय हरये नमः ।
कम्भराश्रीनन्दनाय बालकृष्णाय ते नमः ॥ १०७॥
श्रीमद्गोपालकृष्णस्य बालकाय नमो नमः ।
एतद्भद्र मयाऽऽख्यातं तव पातकनाशनम् ॥ १०८॥
स्वर्गदं मोक्षदं दिव्यं स्तोत्रं यद्गुरुणोदितम् ।
अनेन बालकृष्णं त्वं समाराधय राक्षस! ॥ १०९॥
प्रत्यहं त्वं स्तवेनाऽनेनाऽपि स्मृत्वा च लोमशम् ।
गुरुं तथा परब्रह्म श्रीकृष्णपुरुषोत्तमम् ॥ ११०॥
स्तुत्वा भक्तिं दृढां कृत्वा ततः पापात् प्रमोक्ष्यसे ।
स्तुतो भक्त्या भक्तवशः सर्वपापहरो हरिः ॥ १११॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ६१-अध्यायान्तर्गतं
ब्रह्मप्रकाशाख्यब्रह्मचारिप्रोक्तं बालकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ६१/८३-१११॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 61/83-111..
Proofread by PSA Easwaran