ब्रह्मेशधर्मकृतं श्रीकृष्णस्तोत्रराजपठनम्
ब्रह्मोवाच ।
वरं वरेण्यं वरदं वरदानां च कारणम् ।
कारणं सर्वभूतानां तेजोरूपं नमाम्यहम् ॥ ९३॥
मङ्गलं मङ्गलानां च मङ्गलं मङ्गलप्रदम् ।
समस्तमङ्गलाधारं तेजोरूपं नमाम्यहम् ॥ ९४॥
स्थितं सर्वत्र निर्लिप्तमात्मरूपं परात्परम् ।
निरीहमवितर्क्यं च तेजोरूपं नमाम्यहम् ॥ ९५॥
सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम् ।
साकारं च निराकारं तेजोरूपं नमाम्यहम् ॥ ९६॥
तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम् ।
स्वेच्छामयं सर्वरूपं तेजोरूपं नमाम्यहम् ॥ ९७॥
गुणत्रयविभागाय रूपत्रयधरं परम् ।
कलया ते कृताः सर्वे किं जानन्ति श्रुतेः परम् ॥ ९८॥
सर्वाधारं सर्वरूपं सर्वबीजमबीजकम् ।
सर्वान्तकमनन्तं च तेजोरूपं नमाम्यहम् ॥ ९९॥
लक्ष्यं षड्गुणरूपं च वर्णनीयं विचक्षणैः ।
किं वर्णयामि लक्ष्यं च तेजोरूपं नमाम्यहम् ॥ ५.१००॥
अशरीरं विग्रहवदिन्द्रियं यदतीन्द्रियम् ।
यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम् ॥ १०१॥
गमनार्हमपादं यदचक्षुः सर्वदर्शनम् ।
हस्तास्यहीनं यद्भोक्तृ तेजोरूपं नमाम्यहम् ॥ १०२॥
वेदे निरूपितं वस्तु सन्तः शक्ताश्च वर्णितुम् ।
वेदेऽनिरूपितं यत्तत्तेजोरूपं नमाम्यहम् ॥ १०३॥
सर्वेशं यदनीशं यत्सर्वादि यदनादि यत् ।
सर्वात्मकमनात्मं यत्तेजोरूपं नमाम्यहम् ॥ १०४॥
अहं विधाता जगतो वेदानां जनकः स्वयम् ।
पाता धर्मो हरो हर्ता स्तोतुं शक्ता न केऽपि यत् ॥ १०५॥
सेवया तव धर्मोऽयं पालने च निरूपितः ।
तवाज्ञया च संहर्ता त्वया काले निरूपिते ॥ १०६॥
निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादाम्भोजसेवया ।
कर्मिणां फलदाता च त्वं भक्तानां च नः प्रभुः ॥ १०७॥
ब्रह्माण्डे बिम्बसदृशे भूत्वा विषयिणो वयम् ।
एवं कतिविधाः सन्ति तेष्वनन्तेषु सेवकाः ॥ १०८॥
यथा न सङ्ख्या रेणूनां तथा तेषामणीयसाम् ।
सर्वेषां जनकश्चेशो यस्तं स्तोतुं च के क्षमाः ॥ १०९॥
एकैकलोमविवरे ब्रह्माण्डमेकमेककम् ।
यस्यैव महतो विष्णोः षोडशांशस्तवैव सः ॥ ५.११०॥
ध्यायन्ते योगिनः सर्वे तवैतद्रूपमीप्सितम् ।
त्वद्भक्तदास्यनिरताः सेवन्ते चरणाम्बुजम् ॥ १११॥
किशोरं सुन्दरतरं यद्रूपं कमनीयकम् ।
मन्त्रध्यानानुरूपं च दर्शयास्माकमीश्वर ॥ ११२॥
नवीनजलदश्यामपीताम्बरधरं वरम् ।
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ॥ ११३॥
मयूरपिच्छचूडं च मालतीजालमण्डितम् ।
चन्दनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥ ११४॥
अमूल्यरत्नसाराणां सारभूषणभूषितम् ।
अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलम् ॥ ११५॥
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचन्द्रकम् ।
पक्वबिम्बसमानेन ह्यधरोष्ठेन राजितम् ॥ ११६॥
पक्वदाडिमबीजाभदन्तपङ्क्तिमनोहरम् ।
केलीकदम्बमूले च स्थितं रासरसोन्मुखम् ॥ ११७॥
गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम् ।
एवं वाञ्छितरूपं ते द्रष्टुं को वा न चोत्सुकः ॥ ११८॥
इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः ।
एवं स्तोत्रेण तुष्टाव धर्मोऽपि शङ्करः स्वयम् ॥ ११९॥
ननाम भूयो भूयश्च साश्रुपूर्णविलोचनः ।
तिष्ठतोऽपि पुनः स्तोत्रं प्रचक्रुस्त्रिदशेश्वराः ॥ ५.१२०॥
व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने ।
स्तवराजमिमं नित्यं ब्रह्मेशधर्मभिः कृतम् ॥ १२१॥
पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत् ।
सुदुर्लभां दृढां भक्तिं निश्चलां लभते हरेः ॥ १२२॥
सुरासुरमुनीन्द्राणां दुर्लभं दास्यमेव च ।
अणिमादिकसिद्धिं च सालोक्यादि चतुष्टयम् ॥ १२३॥
इहैव विष्णुतुल्यश्च विख्यातः पूजितो ध्रुवम् ।
वाक्सिद्धिर्मन्त्रसिद्धिश्च भवेत्तस्य सुनिश्चितम् ॥ १२४॥
सर्वसौभाम्यसंयुक्तं यशसा पूरितं जगत् ।
पुत्रश्च विद्या कविता निश्चला कमला तथा ॥ १२५॥
पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः ।
कीर्तिश्च चिरकालीना त्वन्ते कृष्णान्तिके गतिः ॥ १२६॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे ।
गोलोकवर्णने श्रीकृष्णस्तोत्रराजपठनं नाम पञ्चमोऽध्यायः ॥ ५॥
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय ५/९४-११९॥
brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 5/94-119..
Proofread by PSA Easwaran