चित्रकेतुकृतं अनन्तस्तोत्रम्
(शेषनाग)
चित्रकेतुरुवाच ।
अजित जितः सममतिभिः साधुभि-
र्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजतामकामात्मनां
य आत्मदोऽतिकरुणः ॥ ३४॥
तव विभवः खलु भगवन्
जगदुदयस्थितिलयादीनि ।
विश्वसृजस्तेंऽशांशास्तत्र
मृषा स्पर्धन्ते पृथगभिमत्या ॥ ३५॥
परमाणुपरममहतोस्त्व-
माद्यन्तान्तरवर्ती त्रयविधुरः ।
आदावन्तेऽपि च सत्त्वानां
यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६॥
क्षित्यादिभिरेष किलावृतः
सप्तभिर्दशगुणोत्तरैरण्डकोशः ।
यत्र पतत्यणुकल्पः
सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७॥
विषयतृषो नरपशवो
य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश तदनु
विनश्यन्ति यथा राजकुलम् ॥ ३८॥
कामधियस्त्वयि रचिता
न परम रोहन्ति यथा करम्भबीजानि ।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९॥
जितमजित तदा भवता
यदाह भागवतं धर्ममनवद्यम् ।
निष्किञ्चना ये मुनय आत्मारामा
यमुपासतेऽपवर्गाय ॥ ४०॥
विषममतिर्न यत्र नृणां
त्वमहमिति मम तवेति च यदन्यत्र ।
विषमधिया रचितो यः
स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१॥
कः क्षेमो निजपरयोः
कियानर्थः स्वपरद्रुहा धर्मेण ।
स्वद्रोहात्तव कोपः
परसम्पीडया च तथाधर्मः ॥ ४२॥
न व्यभिचरति तवेक्षा यया
ह्यभिहितो भागवतो धर्मः ।
स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो
यमुपासते त्वार्याः ॥ ४३॥
न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः ।
यन्नाम सकृच्छ्रवणात्पुल्कसकोऽपि
विमुच्यते संसारात् ॥ ४४॥
अथ भगवन् वयमधुना
त्वदवलोकपरिमृष्टाशयमलाः ।
सुरऋषिणा यदुदितं तावकेन
कथमन्यथा भवति ॥ ४५॥
विदितमनन्त समस्तं तव
जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरोः कियदिव
सवितुरिव खद्योतैः ॥ ४६॥
नमस्तुभ्यं भगवते सकलजग-
त्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये
कुयोगिनां भिदा परमहंसाय ॥ ४७॥
यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति
यं चेकितानमनु चित्तय उच्चकन्ति ।
भूमण्डलं सर्षपायति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८॥
इति श्रीमद्भागवतमहापुराणे षष्ठस्कन्धे षोडशाध्यायान्तर्गतं
चित्रकतुकृतं अनन्तस्तोत्रं समाप्तम् ।
भागवतपुराण । अध्याय ६/१६/३४-४८॥
bhAgavatapurANa . adhyAya 6/16/34-48..
Proofread by PSA Easwaran