दासीभिः करणीया श्रीकृष्णस्तुतिः

दासीभिः करणीया श्रीकृष्णस्तुतिः

तण्डुलैर्विष्णुपादाब्जवारिमिश्रजलैः शुभैः । स्नायात्तथाऽर्चयेत् कामरूपं कृष्णनरायणम् ॥ ४१॥ रतिं कामं प्रतिष्ठाप्य राधां कृष्णं तु कानकम् । लक्ष्मीं नारायणं स्वर्णं संस्थाप्य पूजयेत्तु सा ॥ ४२॥ कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे । मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः ॥ ४३॥ नाभिं सौख्यसमुद्राय रामाय च तथोदरम् । हृदयं हृदयेशाय स्तनावाह्लादकारिणे ॥ ४४॥ उत्कण्ठायेति वैकुण्ठमास्यमानन्दकारिणे । वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥ ४५॥ मानसायेति वै मौलिं विलोलायेति मूर्धजम् । सर्वात्मने कृष्णनारायणात्मने प्रसेविने ॥ ४६॥ कान्तरूपाय चक्रादिधारिणे परमात्मने । नमो नारायणायेति कामदेवात्मने नमः ॥ ४७॥ कामपित्रे कामदेवनिवासाय च ते नमः । काममोक्षकरायाऽर्तिहराय हरये नमः ॥ ४८॥ कामबन्धनकाराय कामबन्धनहारिणे । कृष्ण कृष्ण काम कृष्ण मोक्षदाय च ते नमः ॥ ४९॥ अस्माकं त्वं पतिः कृष्ण नान्योऽस्ति त्वादृशः पतिः । अन्ये स्वार्थाः पतयस्ते वयं स्वार्थाश्च योषितः ॥ ५०॥ त्वं परार्थः परब्रह्म गृहाणाऽस्मान्निजे करे । पातिव्रत्यं त्वयि चास्तु नान्यत्र क्षणदेषु वै ॥ ५१॥ क्षणदेषु भवानास्ते भवानेव पतिः प्रभो! । तारयाऽस्मान् भववाहात् कृष्णवाहे नय प्रभो ॥ ५२॥ नार्यः कामकृते सृष्टाः भवान् कामरूपो हि नः । बीजरूपो हरिः कृष्णो बालरूपो भवान् मतः ॥ ५३॥ प्रेमरूपो लिङ्गरूपो भवानेव मतो हि नः । मा भक्तानां योषितां ते किङ्करीणां दुरीतकम् ॥ ५४॥ पण्यत्वे च कदाचिद्वै स्पृशत्वस्माँस्तव प्रियाः । यत्कुर्मो वामभागस्थाः शर्म कर्म सुखावहम् ॥ ५५॥ अर्पयामो भवत्येव निर्गुणं तन्निवर्तताम् । एवं कृष्णार्पणं लक्ष्मि! कार्यं वारस्य योषिता ॥ ५६॥ पण्यस्त्रीभिस्तथा दास्या कार्यं कृष्णार्पणं हि तत् । अथ लक्ष्मीं राधिकां च रतिं मत्वा समर्चयेत् ॥ ५७॥ नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे । अनङ्गजननीं वन्दे कामपत्न्यै नमो नमः ॥ ५८॥ कामात्मिकायै सुन्दर्यै कृष्णकान्त्यै च ते नमः । आनन्दात्मकरूपिण्यै तारिण्यै ते नमो नमः ॥ ५९॥ एवं प्रातः सदा पण्यप्रमदा श्रीहरिं पतिम् । श्रीपतिं पूजयेत् स्वामिभावेन मोक्षणं व्रजेत् ॥ ६०॥ गन्धैर्माल्यैस्तथा धूपैर्नैवैद्यैर्जलदीपनैः । कामिनी चाप्सरसश्च पूजयेच्छ्रीजनार्दनम् ॥ ६१॥ अन्नदानं वस्त्रदानं द्रव्यदानं द्विजातये । साधवे ब्रह्मशीलाय दद्याच्च ब्रह्मचारिणे ॥ ६२॥ तस्मै कृष्णायाऽर्पयामि श्रीकृष्णः प्रीयतां मम । इति पूजां कारयेद्वा कुर्यात् पुण्यप्रदां सती ॥ ६३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४१३-अध्यायान्तर्गतं दासीभिः करणीया श्रीकृष्णस्तुतिः । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४१३/४१-६३॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 413/41-63.. Proofread by PSA Easwaran
% Text title            : Dasibhih Karaniya Shri Krishna Stuti
% File name             : dAsIbhiHkaraNIyAshrIkRRiShNastutiH.itx
% itxtitle              : dAsIbhiHkaraNIyAshrIkRiShNastutiH (lakShmInArAyaNIyasaMhitAntargatA)
% engtitle              : dAsIbhiHkaraNIyAshrIkRRiShNastutiH
% Category              : vishhnu, vishnu, krishna, lakShmInArAyaNIyasaMhitA, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 413/41-63||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : January 13, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org