दशावतारस्तोत्रम् १४
ऋषयः ऊचुः- ।
गुरवो ब्रुवते गुह्यमपि शिष्यजनाय हि ॥ ५२॥
सूत उवाच-
स्तोत्रं तदुपदेक्ष्यामि शृणुतावहितात्मना ।
सार्वकामिकमेतत्तु पठतां शृण्वतामपि ॥ ५३॥
हयग्रीवं निहत्याशु वेदान् संरक्षितुं पुरा ।
धृतमत्स्यस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ५४॥
तदा क्षीरोदधौ मग्नमुद्धर्तुं मन्दराचलं ।
गृहीतकूर्मरूपाय श्रीकृष्णाय नमो नमः ॥ ५५॥
हिरण्याक्षहतां भूमिमुद्धर्तुं प्रळयार्णवात् । ।
धृतपोत्रिस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ५६॥
हिरण्यकशिपुं हत्वा जगतीमवितुं पुरा ।
नृसिंहगात्रस्वीकर्त्रे श्रीकृष्णाय नमो नमः ॥ ५७॥
बलेर्दिवं समादाय देवेभ्योर्प्पयितुं पुरा ।
धृतवामनरूपाय श्रीकृष्णाय नमो नमः ॥ ५८॥
निहत्य दुष्टराजन्यान् धर्मं संरक्षितुं पुरा ।
गृहीतरामरूपाय श्रीकृष्णाय नमो नमः ॥ ५९॥
रावणाद्यसतो हत्वा त्रिलोकीं रक्षितुं पुरा ।
धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ६०॥
धेनुकादीन् निहत्याशु सतः संरक्षितुं पुरा ।
धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ६१॥
भूभारमुपसंहर्तुं वसुदेवस्य वेश्मनि ।
गृहीतात्भुतरूपाय श्रीकृष्णाय नमो नमः ॥ ६२॥
कलेरन्ते खलान् हत्वा सत्यं स्थापयितुं सदा ।
कल्किरूपमुपादात्रे श्रीकृष्णाय नमो नमः ॥ ६३॥
अथ प्रीतैर्मुनिश्रेष्ठैः पूजितो रौमहर्षणिः ।
पुनः सत्सङ्गलाभाय तीर्थातीर्थं चचार ह ॥ ६४॥
इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये
दशावतारस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Mohan Chettoor