अङ्गिरोमुनिप्रणीतं श्रीमन्नारायणीयमाहात्म्यम्

अङ्गिरोमुनिप्रणीतं श्रीमन्नारायणीयमाहात्म्यम्

ध्यानं- (१) श्रीमन्नारायणीये निहितनिजतनुं नित्यमार्त्तिं हरन्तं बालानानन्दयन्तं गुरुपवनपुराधीशमार्द्रान्तरङ्गम् । बाहुभ्यां धारयन्तं प्रियतर नवनीतामृतं चात्मलिला- पूर्णं ग्रन्थं च भान्तं जनहृदयनभश्चन्द्रमेकं भजेहं ! ध्यानं- (२) श्रीकृष्णकमलाकान्त करुणावरुणालय । वयं त्वां शरणं यामो हर नो निखिलामयान् ॥ गुरुरूपमहाभाग कथाकथनकोविद । कर्तव्यं बोधयित्वा नो जीवितं सफलं कुरु ॥

प्रथमोऽध्यायः

व्यास उवाच- उल्प्पत्तिस्थितिनाशेषु रजस्सत्वतमोजुषे । अगुणाय महातापनाशनायात्मने नमः ॥ १॥ ऋषिमङ्गिरसं कौत्सः कदाचित् साधु पृष्टवान् । कलिं दुर्विषहं लोकः कथं लघु तरिष्यति ॥ २॥ तदा खलु पुराणानां प्रचारो वा भवेदपि । तांस्तांश्च महतो ग्रन्थान् श्रोतुं कश्शक्नुयाज्जनः ॥ ३॥ अङ्गिर उवाच- ज्ञानेनात्मनि पश्यामि तव प्रश्नस्य निर्णयं । व्यासवाक्येन तल्सर्वं वक्ष्यामि श्रुणु साम्प्रतम् ॥ ४॥ व्यास उवाच- पावनीमिलिता यत्र गङ्गा यमुनया सह । तत्र पुण्यतमे देशे कदाचिदृषिसत्तमाः ॥ ५॥ तपोनिरस्तदुरिता दयावन्तस्सुनिर्मलाः । जगतां हितमिच्छन्तस्सततं व्रतशालिनः ॥ ६॥ कलिदोषप्रशमनं निःश्रेयसकरं परं । बहुवत्सरनिर्वर्त्यं महासत्रं वितेनिरे ॥ ७॥ समस्तदुरितच्छेदि भवामयमहौषधं । सर्वलोकहितं बुद्ध्वा वर्तमानं तदद्भुतम् ॥ ८॥ शिष्यो महर्षेर्व्यासस्य सूतः सर्वपुराणवित् । कौतुकादागतस्तत्र दिद्यक्षुर्मुनिमण्डलम् ॥ ९॥ ते च तत्र समायान्तं मुनयो हर्षतुन्दिलाः । निरीक्ष्य सत्वरतराः सदकुर्वत साधु तम् ॥ १०॥ प्रगृह्य च समासीनं सपर्यां प्रीतमानसं । प्रोचुश्च मुनिवर्यास्ते वचनं विनयान्विताः ॥ ११॥ ऋषयः ऊचुः- हे सूत स्वागतं तेस्तु सुदिनं जातमद्य नः । धन्याश्च वयमेते त्वं सहसा यदिहागतः ॥ १२॥ व्यासस्य प्रियशिष्यत्वाद्विचित्राणां त्वमाकरः । कथानां चारुमहसां मणीनामिव सागरः ॥ १३॥ यच्च भूतं यच्च भावि वर्तमानं च भाति यत् । त्वया नाविदितं किञ्चिदस्ति लोकेषु साम्प्रतम् ॥ १४॥ अस्मद् भाग्यमहिम्नैव सम्प्रत्यागतवानसि । शुभाशुभेद्य लोकानां श्रोतव्यं किञ्चिदस्ति नः ॥ १५॥ कलाविह युगे घोरे सम्प्राप्ते दुरिताकरे । वर्णाश्रमाचाररिपौ विष्णुभक्तिविघातिनि ॥ १६॥ कुकर्मनिरतो नित्यं स्वार्थपूरणतल्परः । निपतेन्निरये लोको नैति जातु परां गतिम् ॥ १७॥ न कोऽपि सुकृतं कर्तुं शक्नोति कलिवैभवात् । अतः किमत्र नः कार्यं वक्तव्यं तदिदं त्वया ॥ १८॥ श्री सूत उवाच- सदृशं भवतामेतत् जगतां हितमिच्छतां । कदाचित् ज्ञातमप्यर्थं परं पृच्छन्ति पण्डिताः ॥ १९॥ यदर्थमनुयुक्तोऽहमिदं साधु वदामि वः । श्यणुतावहितास्सन्तस्संशयानां निरस्तये ॥ २०॥ अस्ति भागवतं नाम पुराणं गुरुणा कृतं । निःश्रेयसकरं सन्तः कलौ कलुषचेतसाम् ॥ २१॥ समेऽपि यान्ति तच्छ्रुत्वा सप्ताहेन परां गतिं । तन्नान्वेष्टव्यमपरं सत्यस्मिन् सर्वसिद्धिदे ॥ २२॥ सहस्रब्रह्महा वापि यच्छ्रुत्वा याति सद्गतिं । तन्नान्वेष्टव्यमपरं सत्यस्मिन् सर्वसिद्धिदे ॥ २३॥ ऋषयः ऊचुः- यदभ्यधायि भवता सत्यमेतन्न संशयः । इदमेवात्र पर्याप्तं लोकानां शिवसिद्धये ॥ २४॥ किन्तु कालेन कियता कलौ प्रबलतां गते । भविष्यन्ति जनास्सर्वे ललनामद्यतत्पराः ॥ २५॥ परापकारनिरताः परदारापहारिणः । विमुक्तस्वकुलाचारा नास्तिकाः पण्डितब्रुवाः ॥ २६॥ अनधीतागमा व्यग्राश्चपला मारकिङ्कराः । सत्कर्मविमुखाः पापा विष्णुभक्तिविवर्जिताः ॥ २७॥ पुरातनं कविकुलं हसन्तो मन्दबुद्धयः । श्रुतिस्मृतिपुराणानि निन्दन्तो निरपत्रपाः ॥ २८॥ कुकर्मनिरतास्सन्तो नरकादपि निर्भयाः । भूमेर्भारायमाणाश्च भ्रमिष्यन्ति ततस्ततः ॥ २९॥ विस्तीर्णमर्थबहुळमिदं भागवतं तदा । श्रोतुं जना न शक्ष्यन्ति निखिलेनाकुलाशयाः ॥ ३०॥ अतः किमत्र कर्तव्यं तदा श्रेयस्करं नृणां । लघु चान्यदशक्यं वा विधातुं सर्वमुच्यताम् ॥ ३१॥ सूत उवाच- इदमेव भृशं नास्ति परं परमपावनं । विधातुं किञ्चिदन्यतु गुरुणापि न शक्यते ॥ ३२॥ तथापि मुनयश्चित्ते चिन्तां कुरुत मा चिरं । यतस्स भगवानेव पातीदं सचराचरम् ॥ ३३॥ इदमेव सुसङ्क्षिप्तं व्यासः काले करिष्यति । एकाहेनैव सकलं श्रोतुं शक्यं यथा जनैः ॥ ३४॥ नारायणेन विभुना तथाज्ञप्तस्स मद्गुरुः । अतो भवत्भिरधुना विचारो न विधीयताम् ॥ ३५॥ यदा धर्मः क्षयं याति वृद्धिमेति तथेतरः । तदा तु भगवानत्र किं न तं पाति शाश्वतम् ॥ ३६॥ ऋषयः ऊचुः- सूत सूत महाभाग व्यासशिष्य दयानिधे । न यामस्तृप्तिमधुना ततस्सर्वं वदस्व नः ॥ ३७॥ मन्दा नयन्ति तं कालं चिन्तयैव दुरन्तया । अमन्दा हि कथां साधु श‍ृण्वन्तस्सज्जनोदिताम् ॥ ३८॥ नारायणस्स भगवान् मुनिं सत्यवतीसुतं । आदिष्टवान् यथा तच्च श्रोतुं कौतुकमस्ति नः ॥ ३९॥ सूत उवाच- भवद्भिः साधु पृष्टं तत् कार्त्स्न्येनैव वदामि वः । पृच्छतामेव वक्तव्यमिति मे गुरुणोदितम् ॥ ४०॥ वन्दमानं दयामूर्त्तिं व्यासमाहूय जातुचित् । नारायणस्स भगवानुवाच प्राञ्जलिं वचः ॥ ४१॥ नारायण उवाच- मुने भागवतं नाम पुराणं यत्त्वया कृतं । मद्भक्तिजनकं पुण्यं मत्प्रीतिकरमुत्तमम् ॥ ४२॥ कलौ सत्कर्महीनानां सर्वसिद्धिकरं नृणां । सप्ताहेन श्रुतमिदं भविता नात्र संशयः ॥ ४३॥ उपबर्हणगन्धर्वः शापग्रस्तोभवत् पुरा । पश्चादिदं तु श्रुत्वैव सद्भ्यो मज्जनतां गतः ॥ ४४॥ कलौ पापमये चात्र भूयो मूर्च्छति विस्तृतं । श्रोतुं न निखिलेनेदं शक्ष्यन्ति हतबुद्धयः ॥ ४५॥ अतो भवानेतदेव सङ्क्षिप्तं तन्तुमर्हति । विवशैरपि सम्पूर्णं श्रुयेतैकाहतो यथा ॥ ४६॥ सहस्रोत्तरपद्याढ्यं नानावृत्तविराजितं । प्रसादगुणसम्पन्नं यमकाद्यैरलङ्कृतम् ॥ ४७॥ मनःप्रह्लादनं सद्यः सरसं काव्यसमितम् । लळितैर्ल्लौकिकैश्शब्दैः कर्तव्यं भवताखिलम् ॥ ४८॥ पुराणसंज्ञमेतत्तु स्तोत्रसंज्ञं तदा भवेत् । कदा विधीयतामेतत् बाहुल्येन तदुच्यते ॥ ४९॥ चतुस्सहस्रे शरदां व्यतीते त्रिशताधिके । कलौ मत्कलया युक्तो निळातीरे द्विजान्वये ॥ ५०॥ ममैव नाम्ना विख्यातो भविष्यति भवान् पुनः । तदा मयोक्तं कर्तव्यं वच्मि किञ्चिदपि स्फुटम् ॥ ५१॥ भुवमेत्य भवान्नूनं मम मायाविमोहितः । विज्ञोऽपि विषयी तत्र कालं कञ्चन नेष्यति ॥ ५२॥ तथापि सुबहून् ग्रन्थान् विद्वत्सूतमनःप्रियान् । रचयन् पवनव्याधिपीडितोथ भविष्यति ॥ ५३॥ ततो रामानुजाख्येन केरळेषु यशोवता । मद्भक्तेनोपदिष्ट्टस्त्वं मद्वाक्यं संस्मरिष्यसि ॥ ५४॥ ततो विना विळम्बेन पूते गुरुमरुत्पुरे । वसतो मेग्रतः स्थित्वा कुरु कार्यमिदं शुभम् ॥ ५५॥ नारायणाभिसम्बन्धाद् द्वेधा स्तोत्रमिदं महत् । नारायणीयमित्येव सर्वत्र विदितं भवेत् ॥ ५६॥ सर्वपापहरं पुण्यं कलौ कलुषितात्मनां । निःश्रेयसकरं चापि भविष्यति न संशयः ॥ ५७॥ सूत उवाच- इति श्रुत्वा मम गुरुः साक्षान्नारायणोदितं । श्रोतुं च किञ्चित्तस्यैव तस्थौ प्राञ्जलिरग्रतः ॥ ५८॥ पृष्टं भवद्भिरधुना ननु सावधानै- र्यत्तन्मया गुरुमुखश्रुतमीरितं वः ॥ ५९॥ एतावता तु भवतां यदि नाप्यलन्ता । पृच्छन्तु साधु मुनयः कथयामि सर्वम् ॥ ६०॥ इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये नारायणीयोल्पत्तिकथनं नाम प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः

व्यास उवाच- इति सूतवचः श्रुत्वा मुनयो हृष्टचेतसः । तं पुनः परिपप्रच्छुर्ल्लोकानुग्रहतत्पराः ॥ १॥ ऋषयः ऊचुः- सूत सूत महाभाग सर्वज्ञ विदुषां वर । न तृप्यामो वयं सर्वे त्वद्वाक्यामृतपानतः ॥ २॥ ननु सूत भवद्वाक्यादशक्यं मन्तुमन्यथा । सुज्ञातमधुनास्माभिः कृतार्थाश्च वयं मुने ॥ ३॥ तदप्युदेति श्रोतव्यमपरं किञ्चिदस्ति नः । विदुषामपि नापैति विवित्सा जातु चेतसः ॥ ४॥ श्रोतव्यं केन विधिना पठितव्यं च तत्तदा । इदं च सकलं साधु भवानेव ब्रवीतु नः ॥ ५॥ अद्यावधि न चास्माकं त्वदुक्तं श्रुतिगोचरं । इतिहासपुराणेषु कुत्र कृष्णेन कीर्तितम् ॥ ६॥ त्रिकालज्ञेन नियतं सदा लोकहितैषिणा । प्रियशिष्याय भवते कथितं गुरुणाखिलम् ॥ ७॥ सूत उवाच- ऋषयः साधु पृष्टोऽहं प्रष्टव्यं यन्मनीषिभिः । श्रोतव्यं च समैरेव कलौ मर्त्यैर्विशेषतः ॥ ८॥ प्रष्टव्यं नैव पृच्छन्ति श्रोतव्यं नैव श‍ृण्वते । कर्तव्यं नैव कुर्वन्ति कलौ मुह्यन्ति मानवाः ॥ ९॥ सन्तस्तदभिधास्यामि यन्मे गुरुमुखाच्छ्रुतं । स्वयं नारायणेनैव गुरवे समुदीरितम् ॥ १०॥ नारायणीयरचना कीदृशी स्यात् कदेति च । श्रुत्वाथ मद्गुरुः कृष्णः कृष्णं पप्रच्छ साञ्जलिः ॥ ११॥ कृष्ण उवाच- नारायण महादेव देवदेव जगत् प्रभो । त्वदाज्ञां पालयिष्यामि सन्देहोस्ति तथापि मे ॥ १२॥ को वक्ता कीदृशः श्रोता कालः कश्च फलप्रदः । अस्यारम्भे विरामे च किं किं कर्तव्यमस्ति च ॥ १३॥ इत्याद्यशेषमद्यैव मह्यं शुश्रूषवे वद । यतो विफलतामेति यज्ञो विधिविवर्जितः ॥ १४॥ सूत उवाच- श्रुत्वैतन्मद्गुरोर्वाक्यं भगवान् भक्तवत्सलः । प्रहस्य प्रोक्तवानस्य यज्ञस्य विधिमादितः ॥ १५॥ श्री भगवानुवाच- मुने लोकहितं कर्तुमद्यापि त्वं समीहसे । कः करोत्येवमन्यस्तु तेन तुष्टोस्म्यहं त्वयि ॥ १६॥ यादृगस्य पुराणस्य श्रुतिपाठविधौ विधिः । स्तोत्रस्यापि सदा तस्य स एव क्रम उत्तमः ॥ १७॥ निरस्तसुकृतस्य स्यात् कलेः प्रगुणितैनसः । समुल्लसति साम्राज्ये न शक्यं कर्तुमेष तु ॥ १८॥ वर्णाश्रमाचारमुचो नास्तिका दम्भचारिणः । यया कयापि विधया यतमाना धनायितुम् ॥ १९॥ निन्दन्तः स्वकुलाचारं समुन्नद्धास्सनातनं । विडम्बयन्तः कर्माणि वैदिकानि यथा तथा ॥ २०॥ जघन्यजाचारपरा निस्त्रपा मन्दबुद्धयः । आडम्बरप्रधानाश्च भविष्यन्ति ध्रुवं जनाः ॥ २१॥ किञ्च वर्षसहस्रेषु व्यतीतेष्वथ पञ्चसु । अराजका च जगती सकलेयं भविष्यति ॥ २२॥ अतो विधिं प्रवक्ष्यामि शक्यं कर्तुं तदा जनैः । पुनरेतत् स्वशिष्याय वक्तव्यं भवताखिलम् ॥ २३॥ आदौ दैवज्ञमाहूय शुभकालस्य निर्णयः । कर्तव्यश्चाथ यज्ञार्थं सम्भारानाहरेत् सुधीः ॥ २४॥ मण्डपं कारयेत् पश्चात् नानाशिल्पविराजितं । शैत्यस्य च तथोष्णस्य बाधात्र न भवेद्यथा ॥ २५॥ अथ भागवतेभ्यश्च पत्रं प्रेष्यं विशेषतः । प्रायस्तत्र विलेख्यं तु श्रूयतां मुनिसत्तम! ॥ २६॥ अद्यारभ्य महात्मानो ज्ञानयज्ञो भविष्यति । अत्र नारायणीयस्य वाचनं सर्वथा भवेत् ॥ २७॥ यथावकाशमत्रैत्य भवन्तः श्रद्धयान्विताः । भागं कुर्वन्तु सन्तापत्रयनाशो यतो भवेत् ॥ २८॥ यदि स्यादवकाशो वः कार्त्स्न्येन श्रोतुमत्र यत् । पूर्वपुण्येन लभ्यं तन्मा मुञ्चत कदाचन ॥ २९॥ आचार्यः संस्कृताभिज्ञो भक्तिमान् काव्यमर्मवित् । वित्तलोभविहीनश्च वरणीयः सुधीमता ॥ ३०॥ वस्त्रमाल्यादिदानेन तोषयेत्तं प्रयत्नतः । अन्यथा तु विधिर्न्यूनो मन्यते साधुभिस्तदा ॥ ३१॥ अत्र पूजाविधानार्थं भक्तिमन्तं च कञ्चन । वरयेच्च यथाचार्यं पूर्वं माहात्म्यवाचनात् ॥ ३२॥ सर्वविघ्नविघातार्थं गणनाथं प्रसादयेत् । यज्ञारम्भे पठेन्नित्यं विष्णोर्न्नामसहस्रकम् ॥ ३३॥ कथारम्भे तु कर्तव्या भगवत्पुरतोर्थना । अथ वक्तुश्च सा कार्या क्रमेणोभयमुच्यते ॥ ३४॥ श्रीकृष्ण कमलाकान्त करुणावरुणालय । वयं त्वां शरणं यामो हर नो निखिलामयान् ॥ ३५॥ गुरुरूप महाभाग कथाकथनकोविद । कर्तव्यं बोधयित्वा नो जीवितं सफलं कुरु ॥ ३६॥ श्रोतारः श्रद्धया भक्त्या श‍ृणुयुः स्तोत्रमुत्तमं । उपक्रमेवसाने च नमस्कुर्युर्यथाविधि ॥ ३७॥ एकैकदशकस्यान्ते नीराजनमुपाचरेत् । अन्यत्रापि क्वचित् कार्यं कर्मिणा तु यथोचितम् ॥ ३८॥ दिने दिने विरामे तु वक्ता श्रोतजनैस्सह । अष्टोत्तरशतं शौरेर्न्नाम्नां जप्यं यथायथम् ॥ ३९॥ त्रिमधुर पायस लड्डुकमोदकशष्कुल्यपूपपक्वादीन् । तत्तद्दिनानुयोज्यं निवेद्य दद्यात् समस्तभक्तेभ्यः ॥ ४०॥ जन्माष्टम्यामिदं श्रुत्वा सर्वान् कामानवाप्नुयात् । सप्ताहेन श्रावणेऽस्य श्रवणं मुक्तिदायकम् ॥ ४१॥ चैत्रे तथा च वैशाखे श्रवणं वरमुच्यते । श्रुत्वैतत् बहवः सिद्धिं गमिष्यन्ति तदा जनाः ॥ ४२॥ दिनेनाथ यथाशक्ति निर्वर्त्यं यदिदं नृभिः । कृतं श्रद्धालुभिर्भक्तैः सर्वं प्रियकरं हरेः ॥ ४३॥ द्रविडे बहवो भक्ताः पठिष्यन्ते तदादरात् । महाराष्ट्रे विशेषेण प्रचारोस्य भविष्यति ॥ ४४॥ कलौ मन्नित्यसान्निद्ध्यपूते गुरुमरुत्पुरे । अद्ध्येष्यन्ति परं भक्ता बालकाः कवयोप्यदः ॥ ४५॥ आवभृथ्यं च तत् स्नानं कर्मयज्ञे मयोदितं । ज्ञानयज्ञेत्र भक्तानां कार्यमिच्छानुसारतः ॥ ४६॥ वक्तारं तोषयेत् साधु भूषावस्त्रधनादिभिः । यज्ञान्ते तत्र तुषटे तु प्रसीदेयुश्च देवताः ॥ ४७॥ अथ तत्रागतान् भक्तान् तन्माल्यतुळसीदळैः । तोषयेदन्नदानैश्च वचोभिर्मधुरैरपि ॥ ४८॥ सदा पेया कथा चेयं श्रीमन्नारायणाश्रया । यथाशक्ति यथाबुद्धि यथारुचि यथाविधि ॥ ४९॥ कृत्यान्तरेण बद्धो वा तापत्रयहतोऽपि वा । एकाहेनापि संश्रुत्य सुखमेति न संशयः ॥ ५०॥ सूत उवाच- नारायणोक्तं श्रुत्वास्य विधिं विस्तरतो गुरुः । तुष्ट्ट्या तुष्टाव तं देवमवतारान् दश स्मरन् ॥ ५१॥ ऋषयः ऊचुः- दशावतारस्तोत्रं तत् सूत नो वक्तुमर्हसि । गुरवो ब्रुवते गुह्यमपि शिष्यजनाय हि ॥ ५२॥ सूत उवाच- स्तोत्रं तदुपदेक्ष्यामि श‍ृणुतावहितात्मना । सार्वकामिकमेततु पठतां श‍ृण्वतामपि ॥ ५३॥ दशावतारस्तोत्रं-१॥ हयग्रीवं निहत्याशु वेदान् संरक्षितुं पुरा । धृतमत्स्यस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ५४॥ दशावतारस्तोत्रं-२॥ तदा क्षीरोदधौ मग्नमुद्धर्तुं मन्दराचलं । गृहीतकूर्मरूपाय श्रीकृष्णाय नमो नमः ॥ ५५॥ दशावतारस्तोत्रं-३॥ हिरण्याक्षहतां भूमिमुद्धर्तुं प्रळयार्णवात् । धृतपोत्रिस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ५६॥ दशावतारस्तोत्रं-४॥ हिरण्यकशिपुं हत्वा जगतीमवितुं पुरा । नृसिंहगात्रस्वीकर्त्रे श्रीकृष्णाय नमो नमः ॥ ५७॥ दशावतारस्तोत्रं-५॥ बलेर्द्दिवं समादाय देवेभ्योर्प्पयितुं पुरा । धृतवामनरूपाय श्रीकृष्णाय नमो नमः ॥ ५८॥ दशावतारस्तोत्रं-६॥ निहत्य दुष्टराजन्यान् धर्मं संरक्षितुं पुरा । गृहीतरामरूपाय श्रीकृष्णाय नमो नमः ॥ ५९॥ दशावतारस्तोत्रं-७॥ रावणाद्यसतो हत्वा त्रिलोकीं रक्षितुं पुरा । धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ६०॥ दशावतारस्तोत्रं-८॥ धेनुकादीन् निहत्याशु सतः संरक्षितुं पुरा । धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ॥ ६१॥ दशावतारस्तोत्रं-९॥ भूभारमुपसंहर्तुं वसुदेवस्य वेश्मनि । गृहीतात्भुतरूपाय श्रीकृष्णाय नमो नमः ॥ ६२॥ दशावतारस्तोत्रं-१०॥ कलेरन्ते खलान् हत्वा सत्यं स्थापयितुं सदा । कल्किरूपमुपादात्रे श्रीकृष्णाय नमो नमः ॥ ६३॥ अथ प्रीतैर्मुनिश्रेष्ठैः पूजितो रौमहर्षणिः । पुनः सत्सङ्गलाभाय तीर्थातीर्थं चचार ह ॥ ६४॥ अङ्गिर उवाच- पुराणेषु न कुत्रापि कृष्णेनापि प्रकाशितं । नारायणीयमाहात्म्यं कौत्स तुभ्यं मयोदितम् ॥ ६५॥ रहस्यातिरहस्यं यदिदं नूनमितः परं । कर्णाकर्णिकया श्रुत्या सर्वत्र प्रचरिष्यति ॥ ६६॥ नारायणीयस्तोत्रस्य पारायणपरायणाः । इदं पीत्वा पाययन्तु यथेष्टमपरानपि ॥ ६७॥ नारायणीयमहिमामतुलप्रभावा- मापीय सूतवदनादमितादरेण । मोक्षार्थिनोऽपि मुनयस्त्वदसीयपान- लोलायमानमनसोथ हरिं प्रणेमुः ॥ ६८॥ दशावतारान् संस्मृत्य स्तोत्रं तत्तु पठन्नरः । इह च प्रेत्यभावे चभुङ् क्ते कामान्न संशयः ॥ ६९॥ मया तु पृष्टो जनिता कदाचि- दुपादिशन्मामितिवृत्तमेतत् पुरोदितं यद्धरिणैव तस्मै । मया तवोक्तं जगतां हिताय ॥ ७०॥ इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये श्रवणविधिकथनं नाम द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः

कौत्स उवाच- भगवन् संसारसागरसङ्क्रामक सार्वकामिकाणि ब्राह्म वैष्णवशाङ्करशाक्तगाणपत्यस्कान्दवैवस्वतचान्द्रनावग्रहरौद्राणि त्रिंशदष्टोत्तरशतस्तोत्राणि अद्यावधि मयाधिगतानि यानि नारदानकुशलमुखभागवतर्षीणां मुखारविन्दात् तापत्रयसन्तप्तानामनुग्रहार्थं तदा तदा विनिस्सृतानि ॥ १॥ अथ किमेतस्मात् भगवन् ब्रह्मानुत्तमस्तुतिनिकुरुम्ब मकरन्दबिन्दुसन्दोहात् विचित्य विनियोज्यमिति नितान्तमन्दं मम स्वान्तं । हन्त दोळायते ॥ २॥ अतस्तत्तु स्तोत्रवरिष्ठं ऋषिच्छन्दोदेवतादि विधानुविधया सह । कार्त्सनेनाचष्टुमर्हति नमो नमस्ते ॥ ३॥ अङ्गिर उवाच- भोस्तात! त्वया साध्वेव ममाभिपृष्टम् ॥ ४॥ शुश्रूषुभिरन्तेवासिभिः सदैवमेव नितरां भाव्यम् ॥ ५॥ त्वन्मुखादेवमेव वत्स मनस्तु मम शुश्रूषते ॥ ६॥ अथ कथयामि ते तत् स्तोत्रोद्घं यत्तु रहस्यातिरहस्यम् ॥ ७॥ अत एवाधिकारिणापि गुरुमुखादेवावगन्तव्य-मिति वैदिक मार्ग्गप्रदीपकेषु नानार्ग्गळकवचसहस्रनामादि मन्त्राकरेषु पुराणेतिहासेषु कुत्राप्यनाविष्कृतं अकृतकवचसामादिविधातुर्विधातुमम पितुर्मुख चतुष्टयाः कदाचिदेकान्ते पूर्वमुखात् सावधानस्यास्य । श्रोत्राञ्जलिपुटे वामेतर एवामीलिताक्षं त्रिरभिवृष्टम् ॥ ८-९॥ तथाहि पिता मे मामेकान्ते कदाचिदाहूयाह ॥ १०॥ वत्स, किञ्चित् कथयामि श‍ृणुष्वावहितात्मा ॥ ११॥ त्वया लोकसङ्ग्रहार्थं मर्त्यलोके तत्र तत्र काले प्रव्रजनीयम् ॥ १२॥ अलङ्घ्यवेगेन भगवता कालाख्येन परिवर्तमानयुगयुगळयोः चरमेण । कलिना कलुषमतीनां यदेतदुपदेष्टव्यम् ॥ १३॥ मयैवैतत् सर्ग्गकर्मणि विनियोज्यमानाय स्वप्रवृत्तसर्ग्गकर्मनिर्विघ्नसम्पादनार्थं मम पौत्राय मारीचाय सकलकारणकारणाभाव-प्रतियोगिनो मज्जनकान्नारायणमूर्त्ते यथावगतमुपदिष्टचरमस्ति ॥ १४॥ यत् किञ्चिदपिलिप्सुः आदौ मन्त्राप्लवनपूतः विहितं सान्ध्यादिकं यथाविधि विधाय मन्त्रमूर्त्तिं गोलोकनाथं- गोलोकनाथं नतपारिजातं । गोगोपगोपीनयनाब्जसूरं नानाविभूषापरिभूषिताङ्गं नमामि कृष्णं करुणापयोधिम् ॥ १५॥ इति सन्ध्याय पूज्यत्वादृषिं नारायणं शिरसि अक्षरत्वाच्छन्द आनुष्टुभमधिनासोत्तरोष्ठं, ध्येयत्वाद्देवतां गोलोकनाथं श्रीकृष्णपरमात्मानं हृदि च मार्ग्गशीर्षेण हस्तेन न्यस्यैवं । सञ्जपेत् ॥ १६॥

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

श्रीनारायणः ऋषिः - अनुष्टुप् छन्दः - गोलोकनाथः कृष्णपरमात्मा देवता । गोलोकनाथो (१) गोविन्दो (२) गोपिकाजनवल्लभः (३) । राधिकारमणो (४) रम्यो (५) राजीवदळलोचनः (६) ॥ १७॥ करुणासागरः (७) कृष्णः (८) कामकोटिमनोहरः (९) । सर्वकर्ता (१०) सर्वहर्ता (११) सच्चिदानन्दविग्रहः (१२) ॥ १८॥ वेदवेद्यो (१३) विराड्रूपो (१४) विरिञ्चिहरवन्दितः (१५) । वैकुण्ठनिलयो (१६) विष्णुर् (१७) वासुदेवो (१८) विराट्ध्वजः (१९) ॥ १९॥ पयःपयोधिमद्ध्यस्थः (२०) पन्नगाधिपतल्पगः (२१) । सर्वभूतगुहावासः (२२) सूर्येन्दुनयनः (२३) स्वराट् (२४) ॥ २०॥ शार्ङ्गधन्वा (२५) शङ्खचक्रगदाम्बुजलसद्भुजः (२६) । श्रिताभीष्टदमन्दारः (२७) शरण्यः (२८) श्रीधराधवः (२९) ॥ २१॥ नवनीलघनच्छायो (३०) नरनारायणात्मकः (३१) । मुमुक्षुसेव्यो (३२) मायेशो (३३) मुकुन्दो (३४) मधुसूदनः (३५) ॥ २२॥ मत्स्यरूपधरो (३६) मायी (३७) मनुरूपो (३८) मनुस्तुतः (३९) । कठोरपृष्ठविधृतमन्दरः (४०) कमठाकृतिः (४१) ॥ २३॥ हेलाधृतक्रोडतनु (४२) र्हिरण्याक्षनिहा (४३) हरिः (४४) । अद्ध्वरात्मा (४५) चलोद्धर्ता (४६)ऽच्युतो (४७)ऽनुपमवैभवः (४८) ॥ २४॥ नरसिंहाकृति (४९) र्न्नादनिराकृतमहासुरः ॥ ५०॥ भक्तप्रह्लादवरदो (५१) भवसागरतारकः (५२) ॥ २५॥ वलभित्सहजो (५३) वन्द्यो (५४) वामनो (५५) बलिदर्प्पहा (५६) । त्रिक्रमाक्रान्तभुवन (५७) स्त्रिदिवेड्य (५८) स्त्रिविक्रमः (५९) ॥ २६॥ भगवान् (६०) भार्ग्गवो रामो (६१) भीमकर्मा (६२) भवप्रियः (६३) । दशास्यहन्ता (६४) दुर्द्धर्षो (६५) रामो दशरथात्मजः (६६) ॥ २७॥ भव्यो (६७) भरतशत्रुघ्नलक्ष्मणाग्रिमसोदरः (६८) । वसिष्ठविश्वामित्रादिगुर्वाज्ञापरिपालकः (६९) ॥ २८॥ जानकीमानसोल्लासी (७०) जटायुस्वर्ग्गदायकः (७१) । वैवस्वतसखो (७२) बालिहन्ता (७३) वायुसुतप्रियः (७४) ॥ २९॥ शबरीसल्कृतिप्रीतः (७५) शाखामृगसहायवान् (७६) । रोहिणीनन्दनो रामो (७७) रेवतीप्राणवल्लभः (७८) ॥ ३०॥ सूरजाभेदनः (७९) सीरमुसलाद्युद्यदायुधः ॥ ८०॥ देवकीनन्दनो (८१) दामोदरो (८२) दरविनाशनः (८३) ॥ ३१॥ वृन्दावनचरो (८४) वत्सबकाघाद्यसुरान्तकः (८५) । योगेशो (८६) यादवाधीशो (८७) यशोदानन्दनन्दनः (८८) ॥ ३२॥ गोप्ता (८९) गोवर्द्धनोद्धर्ता (९०) गुर्वभीष्टप्रदायकः (९१) । काळियाहीन्द्रदर्प्पघ्नः (९२) कलेशः (९३) कालनेमिहा (९४) ॥ ३३॥ विदुरोद्धवभीष्मादिवन्द्यो (९५) बाणमदापहः (९६) । पाकारिनन्दनसखः (९७) पाकशासनशासकः (९८) ॥ ३४॥ सुदामसब्रह्मचारी (९९) सीरपाणिसहोदरः (१००) । भैष्म्याद्यष्टाधिकद्व्यष्टसहस्रस्त्रीवरेश्वरः (१०१) ॥ ३५॥ सद्गीयमानसत्कीर्तिः (१०२) सत्यकामः (१०३) सताङ्गतिः (१०४) । पुराणपुरुषः (१०५) पूर्णः (१०६) पावनः (१०७) परमेश्वरः (१०८) ॥ ३६॥ फलश्रुतिः- एवं गोलोकनाथस्य श्रीकृष्णस्य महाप्रभोः । अष्टोत्तरशतं नाम्नां दिव्यं सर्वार्थसिद्धिदम् ॥ ३७॥ गुह्याद्गुह्यमिदं स्तोत्रं प्रयतो यः पठेन्नरः । श‍ृणुयाद्वा शुचिर्न्नित्यं स कृष्णपदवीमियात् ॥ ३८॥ इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये श्रीकृष्णाष्टोत्तरशतकथनं नाम तृतीयोऽध्यायः । Encoded and proofread by Mohan Chettoor mohanchettoor at gmail.com     999545896
% Text title            : Narayaniya Mahatmyam
% File name             : nArAyaNIyamAhAtmyam.itx
% itxtitle              : nArAyaNIyamAhAtmyam (aNgiromunipraNItaM)
% engtitle              : nArAyaNIyamAhAtmyam
% Category              : vishhnu, mAhAtmya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Angirasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Indexextra            : (mUlam)
% Latest update         : February 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org