देवादिभिः कृतं कृष्णनारायणस्तोत्रम्

देवादिभिः कृतं कृष्णनारायणस्तोत्रम्

सर्वानन्दा मुक्तयश्च यस्याऽक्षिकोणके स्थिताः । सर्वे देवाश्च ऋषय ईश्वरा यन्मनोभवाः ॥ ७२॥ तस्मायनादिश्रीकृष्णनारायणाय वै नमः । स्वामिने बालरूपाय वल्लभाय च ते नमः ॥ ७३॥ मुक्तानां पतये धाम्नां पतये ते नमो नमः । अवतारवृन्दधर्त्रे ईश्वरेशाय ते नमः ॥ ७४॥ राधालक्ष्मीस्वामिने ते जयायाः पतये नमः । ललितामाणिकीपद्मापार्वतीशाय ते नमः ॥ ७५॥ प्रभावृन्दातुलसीश्रीपद्मावतीश ते नमः । मञ्जुलाकान्त हंसेश योगीशेश च ते नमः ॥ ७६॥ कमलाकान्त सिद्धीश ते प्रत्यक्ष नमोनमः । नमो हृदयवासाथ सर्वान्तर्यामिणे नमः ॥ ७७॥ नमः मयूरपिच्छाढ्यमुकुटधारिणे नमः । नमः कौस्तुभसंशोभद्वक्षःस्थलाय ते नमः ॥ ७८॥ नमः कुण्डलकर्णाय स्वर्णहाराय ते नमः । सर्वशक्तिस्वरूपाय कामकामाय ते नमः ॥ ७९॥ नैकासुरविनाशाय भक्तत्राणाय ते नमः । भक्तवाञ्च्छितदात्रे ते श्रीकृष्णाय नमो नमः ॥ ८०॥ धन्येयं कुङ्कुमवापी धन्योऽयं लोमशो मुनिः । अश्वपट्टसरो धन्यं धन्यं व्याघ्रवनं शुभम् ॥ ८१॥ धन्या इमे च ऋषयो धन्या द्रुतृणभूरुहाः । धन्याः पक्षगमा जीवा धन्या भूवासकारिणः ॥ ८२॥ धन्या नरास्तथा नार्यो धन्यं चराचरं त्विदम् । यत्र वै बालरूपस्त्वं वर्तसे पुरुषोत्तमः ॥ ८३॥ दृश्यसे सर्वविषयो गम्यसे ज्ञानिभिः खलु । अद्य नः सफलं जन्म पुण्यं नः पारवर्जितम् ॥ ८४॥ सृष्टिसञ्चालकैर्यो न प्राप्यते दृश्यसेऽत्र नः । अनेकजन्मशुद्धानां दर्शनं तेऽत्र युज्यते ॥ ८५॥ अस्माकं चात्र सञ्जातं पुरुषार्थचतुष्टयम् । शरण्यं यत्पदं लब्धं प्रत्यक्षं सेवनोचितम् ॥ ८६॥ इत्येवं स्तवनं कृत्वा बालवेषं पुमुत्तमम् । पुपूजुः परया भक्त्या श‍ृङ्गारितं जगत्प्रभुम् ॥ ८७॥ उपदाः प्रददुः सर्वे चक्रुश्च तिलकं शुभम् । आरार्त्रिकं प्रचक्रुश्च नेमुस्तुष्टुवुरादरात् ॥ ८८॥ प्रदक्षिणं प्रचक्रुश्च नैवेद्यं विविधं ददुः । देवा देव्यः पुष्पवृष्टिं चक्रुः कृष्णस्य मूर्धनि ॥ ८९॥ महोत्सवे कोटिशो वै भुवनानां निवासिनः । समायाता जयन्त्यां श्रीकृष्णनारायणस्य ते ॥ ९०॥ दर्शनं च प्रसादं च चरणामृतमित्यपि । शुभाशिषश्च सङ्गृह्य ययुर्निजालयं मुदा ॥ ९१॥ अनादिश्रीकृष्णनारायणस्यैतत् स्तवं शुभम् । परमैश्वर्यजनकं सुखदं सम्पदाप्रदम् ॥ ९२॥ निर्वाणमोक्षदं लक्ष्मि! हरिभक्तिप्रदं परम् । अक्षरेशपददातृ सर्वसिद्धिप्रदं वरम् ॥ ९३॥ लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् । बलबुद्धिप्रदं चैव जन्ममृत्युविनाशनम् ॥ ९४॥ धनपुत्रप्रियाभूमिपतिसम्पत्प्रदं नृणाम् । शोकदुःखहरं यश्च पठेद्वा श‍ृणुयाच्च वा ॥ ९५॥ बन्धनान्मुच्यते दुःखी भीतो मुच्येत वै भयात् । रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेत् ॥ ९६॥ दस्युग्रस्तो रिपुग्रस्तो हिंस्रजन्तुसमावृतः । स्तोत्रेणाऽनेन वै लक्ष्मि! कल्याणं लभते जनः ॥ ९७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५३१-अध्यायान्तर्गतं देवादिभिः कृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५३१/७२-९७॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 531/72-97.. Proofread by PSA Easwaran
% Text title            : Devadibhih Kritam Krishnanarayana Stotram
% File name             : devAdibhiHkRRitaMkRRiShNanArAyaNastotram.itx
% itxtitle              : kRiShNanArAyaNastotram (devAdibhiHkRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : devAdibhiHkRRitaM kRRiShNanArAyaNastotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 531/72-97||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org