देवादिभिः कृतं नारायणस्तोत्रम्
ब्रह्मोवाच ।
विचार्य्याऽहं वेदान्मुहुरुपगतो निश्चयमिमं
रमारामे भक्तिस्त्वयि दृढतरा यर्ह्यसुभृताम् ।
भवेत्तर्ह्येवैषां क्षयविरहिता भोगनिकरा-
स्तथा स्युर्लोका वै परमपुरुषात्यन्तिकगतिः ॥ १॥
अजानन्तस्त्वित्थं भृतरजतमस्कानपि हरे
भजन्त्यस्मान्देवान्बहुविधतपोऽर्च्चासरणिभिः ।
त एवोक्ता मूढाः क्षयरहितसौख्यं न कुहचि-
ल्लभन्तेऽतस्त्वां वै निजहृदि दधे केशवमहम् ॥ २॥
शङ्कर उवाच ।
त्रयी साङ्ख्यवेदान्तयोगाः पुराणं तथा पञ्चरात्रं प्रभो धर्मशास्त्रम् ।
तवैवातिमाहात्म्यमेकस्य नित्यं प्रकारैरनेकैर्हि गायन्ति भक्त्या ॥ ३॥
त्वदेवेश शास्त्राणि चैतानि भूम्नो बभूवुस्त्वदेकाश्रयाण्यादिकल्पे ।
रमासेव्यपादाम्बुजं शास्त्रयोनिं तमाद्यं भवन्तं भजे वासुदेवम् ॥ ४॥
धर्म उवाच ।
कथा त्वदीया भवपाशमोचनी सुधैव तापत्रयतप्तदेहिनाम् ।
अनेकजन्माघचयापहारिणी तनोति भक्तिं वयुनं तवाञ्जसा ॥ ५॥
सदैव सा कर्णपथेन हृद्दरीं विशत्वनन्ताभिध सम्मुखोद्गता ।
मम त्वदन्या हरताच्च वासना दयाब्धये ते प्रभविष्णवे नमः ॥ ६॥
प्रजापतय ऊचुः ।
धन्या एते कल्पवृक्षा यदीयां छायामेतामाश्रितस्त्वं सहश्रीः ।
धन्यः कर्ता मण्डपस्यास्य ते वै धन्यैषा भूर्यत्र पीठं तवेश ॥ ७॥
धन्यो लोके नूनमेषोऽम्बुराशिः साक्षात्तुभ्यं येन दत्ता स्वकन्या ।
धन्याश्चैते त्वां वयं वीक्षमाणा धन्येशानं श्रीपतिं त्वां नताः स्मः ॥ ८॥
मनव ऊचुः ।
धर्मः खलु स हि परमो धर्मेभ्यो माधव सकलेभ्योऽपि ।
भक्तिर्भवति यतो वै धर्मभुवि त्वयि हि निरवद्या ॥ ९॥
धर्मात्मानं भगवन्धर्मधुरीणं च धर्मपातारम् ।
सर्वातिप्रियधर्मं नुमस्त्वां धर्मसम्भूतिम् ॥ ९.१५.१०॥
ऋषय ऊचुः ।
भक्त्या हीनस्त्वद्विमुखो वयुनार्थी
श्राम्यन्भूयोप्यस्य न सिद्धिं समुपैति ।
तर्ह्यासक्तः कर्मणि काम्ये तु कुतोऽसौ
सौख्यं यायादक्षयमानन्दमहाब्धे ॥ ११॥
भक्त्या नित्यं त्वामत एव वयं वै श्रद्धायुक्ता धर्मतपोनिगमाद्यैः ।
मायातीतं कालनियन्तारमुदारं ध्यायामः श्रीकान्तपरात्परमेकम् ॥ १२॥
इन्द्र उवाच ।
भगवन्नुरुदुःखिता वयं ननु दुर्वासस एव हेलनात् ।
न भवन्तमृतेऽवितुं हि नो विधिरुद्रप्रमुखा इमेऽशकन् ॥ १३॥
विगताखिलसम्पदो निरन्नाः समभावं भुवि पामरैरुपेताः ।
भवतैव वयं हृतापदः स्मः सपदि श्रीहरये नमोऽस्तु तुभ्यम् ॥ १४॥
अग्निरुवाच ।
गीर्वाणदानवनराद्युपजीवनान्नं
यन्निर्मितं हि भवतैव ततो बुधास्तु ।
यज्ञेषु तेन यजनं तव कुर्वतेऽथो
त्वच्छेषमन्यदिविषद्भ्य उपानयन्ति ॥ १५॥
काम्येषु कर्मसु रता अपि याज्ञिकास्ते
तत्कर्मबन्धनत आशु विमुच्य यान्ति ।
ब्राह्मीं गतिं तदितरे तु भवन्ति चौराः
श्रीयज्ञपूरुषमहं प्रणमामि तं त्वाम् ॥ १६॥
मरुत ऊचुः ।
भक्ता एकान्तिकास्तेऽक्षरपरमपदे सेवया ते तु हीनं
वासैश्वर्यादि नेच्छन्त्यतिशयितसुखं नापि कैवल्यमोक्षम् ।
तद्युक्तं त्वात्मनोऽपि श्वपचकुलजनुर्मानयन्त्युत्तमं वै
तं त्वामेकान्तधर्माश्रयणमुपगताः श्रीमहापूरुषं स्मः ॥ १७॥
सिद्धा ऊचुः ।
नैकब्रह्माण्डसर्गादिकारणं त्वामकारणम् ।
तत्स्थं तद्व्यतिरिक्तं च नियन्तारं नमामहे ॥ १८॥
रुद्रा ऊचुः ।
मायायाः सर्वमोहिन्या मोहनं मोहवर्जितम् ।
महाकालस्यापि कालं त्वां नमः पुरुषोत्तमम् ॥ १९॥
आदित्या ऊचुः ।
प्रकाशिता येन वयं जगन्ति प्रकाशयामो भवता रमेश ।
स्वयम्प्रकाशं तमुरुप्रकाशं प्रकाशमूर्त्तिं प्रणता भवन्तम् ॥ ९.१५.२०॥
साध्या ऊचुः ।
शास्ता नृपाणां च महोरगाणां दैत्याधिपानां च सुराधिपानाम् ।
त्वं वै मनूनां च प्रजापतीनां राजाधिराजाय नमोऽस्तु तुभ्यम् ॥ २१॥
वसव ऊचुः ।
भवति भुवि यदा यदाऽसुरांशैः प्रथितसनातनधर्मधार्मिकाणाम् ।
कदनमुरु तदा तदा स्वयं ते ह्यवतरते प्रणमाम धर्मगोप्त्रे ॥ २२॥
चारणा ऊचुः ।
चरित्रं शुभं ते धृतानेकमूर्त्तेः प्रबन्धैरनेकैर्हि गायन्ति भक्ताः ।
यदु श्रोतृवक्तॄन्पुनात्येव सद्यो वयं तं नताः पुण्यकीर्त्तिं भवन्तम् ॥ २३॥
गन्धर्वाप्सरस ऊचुः ।
ये कथास्ते विहायान्यगाथाः प्रभो कीर्त्तयन्तेऽथ शृण्वन्ति वा ते जनाः ।
दुःखिताः स्युश्च संसारपाशैः सितास्तं नताः स्मः शरण्यं भवन्तं वयम् ॥ २४॥
समुद्र उवाच ।
अजित तवाऽथ तावकजनस्य मुदाऽल्पमपि
द्रविणजलान्नवस्त्रनमनान्यतमेन सकृत् ।
चरति ह सेवनं स पदवीं महतीं महतां
व्रजति जनोऽल्पकोऽपि तमहं प्रणतः करुणम् ॥ २५॥
पार्षदा ऊचुः ।
पितरौ त्वमसि स्वजनस्त्वमसि त्वमसीष्टगुरुः सुहृदात्मपतिः ।
त्वमसीश्वर एव च नः परमस्त्वमसि द्रविणं सकलं त्वमसि ॥ २६॥
मूर्त्तिरुवाच ।
यत्सम्बन्धत एव यान्ति पदवीमुच्चां महद्भिर्न्नुतां
स्त्रीशूद्रासुरनीचपक्षिपशवः पापात्मजीवा अपि ।
यद्धीना विबुधेश्वरा अपि भवन्त्यर्च्चोज्झितास्तत्क्षणं
गोलोकाधिपतिं तमेव हृदये नित्यं भजे त्वामहम् ॥ २७॥
सावित्र्युवाच ।
त्वं सर्गकाले प्रकृतिं च पूरुषं दृष्ट्या स्वयोत्थाप्य ततस्तदात्मना ।
तत्त्वानि सृष्ट्वा महदादिमानितैर्न्नैकान्विराजो बहुधा ससर्जिथ ॥ २८॥
वैराजरूपेण जगद्विधातृतां स्वीकृत्य देवासुरमानुषोरगान् ।
त्वं स्थावरं जङ्गममीश निर्ममे त्वामादिकर्तारमुपाश्रितोऽस्म्यहम् ॥ २९॥
दुर्गोवाच ।
प्रियतयाऽधिकया हृदि चिन्तनं विदधते तव ये भुवि ते विभो ।
न परमेष्ठिसुखं न दिवः सुखं न कमयन्ति धरैकनरेशताम् ॥ ९.१५.३०॥
प्रसभमर्पितमप्यतुलं त्वया सुखमिदं समवाप्य च तत्र ते ।
तदपहाय न शक्तिकृतः क्षणं तमु नमामि च सात्वतनायकम् ॥ ३१॥
नद्य ऊचुः ।
वरद नमनमात्रं नामसङ्कीर्तनं वा विदधति तव ये वै ज्ञानतोऽज्ञानतो वा ।
जनिमृतियमभीतेस्तानपि त्रायमाणं नरसखमुपयाताः स्मोऽद्य नारायणं त्वाम् ॥ ३२॥
देवपत्न्य ऊचुः ।
भुवि धृताकृतेर्जन्म मङ्गलं चरितमद्भुतं लोकपावनम् ।
भवति निर्गुणं सर्वमेव ते भवसि निर्गुणब्रह्म यत्परम् ॥ ३३॥
तव समाश्रयात्तामसा जना अपि च राजसाः सात्त्विकाश्च ये ।
ननु भवन्ति ते निर्गुणास्ततो वयमुपास्महे त्वां हि निर्गुणम् ॥ ३४॥
ऋषिपत्न्य ऊचुः ।
आर्तानामुरुवृजिनैस्त्रिधा च तापैः सर्वापत्प्रशमनमेकमेव विष्णोः ।
पादाब्जं तव भवतीति तद्वयं वै प्राप्ताः स्मः शरणमनन्त देवदेव ॥ ३५॥
पृथिव्युवाच ।
पूर्णशारदसुधाकराननं शारदाब्जदलदीर्घलोचनम् ।
श्रीवियोगबहुधाऽऽर्तिमोचनं वाऽसुदेवमहमेकमाश्रये ॥ ३६॥
सरस्वत्युवाच ।
नयने ममाच्युत तवातिसुन्दरे मुखशीतरोचिषि चकोरतां गते ।
न हि गच्छतोऽन्यत इतीयमेव मे हृदि मूर्तिरस्तु सततं न हीतरा ॥ ३७॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे वासुदेवमासमाहात्म्ये पञ्चदशाध्यायान्तर्गतं
देवादिभिः कृतं नारायणस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । वासुदेवखण्ड । अध्याय १५/१-३७॥
skandapurANa . vaiShNavakhaNDa . vAsudevakhaNDa . adhyAya 15/1-37..
Proofread by PSA Easwaran