देवादिभिः कृतं विष्णुस्तोत्रम्
तुष्टुवुस्ते हरिं लक्ष्मीनारायणं प्रजेश्वराः ।
सुररक्षक शान्तात्मन् दैत्यनाशक ते नमः ॥ ७३॥
मत्स्यात्मने च ते विष्णो वेदान्नीतवते नमः ।
अमृतमन्थनेऽद्रिं बिभ्रते कूर्माय ते नमः ॥ ७४॥
पृथ्वीं दन्ते बिभ्रते ते वराहाय नमो नमः ।
बलिं छलायते विप्रवामनाय च ते नमः ॥ ७५॥
नमः परशुरामाय कापथक्षत्रनाशिने ।
रावणान्तकरायाऽऽशु रामचन्द्राय ते नमः ॥ ७६॥
कृष्णनारायणराधारमाश्रीपतये नमः ।
नमो बुद्धस्वरूपाय दैत्यमोहकराय ते ॥ ७७॥
नमः कपिलरूपाय तत्त्वज्ञानप्रदाय ते ।
नमो हंसस्वरूपाय विधात्रे ज्ञानदाय ते ॥ ७८॥
वेदव्यासस्वरूपाय विद्याश्रवाय ते नमः ।
कलिदोषविनाशकृत्कल्किरूपाय ते नमः ॥ ७९॥
पार्वत्याश्च प्रभायाश्च माणिक्याः पतये नमः ।
कम्भरायाः सुपुत्राय गोपालसूनवे नमः ॥ ८०॥
शरण्याय सुररक्षाकर्त्रे विद्यावते नमः ।
साधुरूपाय कृष्णाय वल्लभाय च ते नमः ॥ ८१॥
ज्ञानाचार्याय दैवाय दासत्रात्रे च ते नमः ।
दैत्यदुःखितभक्तादिरक्षकाय नमो नमः ॥ ८२॥
सर्वनेत्राय हृत्स्थाय रमानाथाय ते नमः ।
ध्वजपद्माङ्कुशवज्रयवचिह्नवते नमः ॥ ८३॥
स्वस्तिकजाम्ब्वष्टकोणोर्ध्वरेखाधारिणे नमः ।
धनुस्त्रिकोणकलशाऽर्धचन्द्रधारिणे नमः ॥ ८४॥
गोष्पदव्योममत्स्यादिधारिणे पत्तले नमः ।
दक्षपाणौ ध्वजचक्रधनुस्त्रिशूलस्वस्तिकाः ॥ ८५॥
मीनदण्डयवरेखा यस्य तस्मै नमो नमः ।
बाहू नेत्रे जानुनी च नासिका च स्तनान्तरम् ॥ ८६॥
दीर्घाणि सन्ति ते पञ्च तस्मै कृष्णाय ते नमः ।
सुहृस्वजघनपृष्ठग्रीवाजङ्घावते नमः ॥ ८७॥
सूक्ष्मकेशाऽङ्गुलिपर्वरदाऽस्थिधारिणे नमः ।
कक्षा कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटकम् ॥ ८८॥
यस्योन्नतानि षट् सन्ति तस्मै श्रीहरये नमः ।
नेत्रप्रान्तौ नखास्तालु जिह्वोष्ठौ पादयोस्तले ॥ ८९॥
पाणितले च रक्तानि यस्य सन्ति च ते नमः ।
उरः शिरो ललाटं च यस्य ततानि ते नमः ॥ ९०॥
स्वरः सत्त्वं च नाभिश्च गम्भीरं यस्य ते नमः ।
वामसक्थ्नि रमाचिह्नं यस्यास्ति ते नमो नमः ॥ ९१॥
हृदये दक्षिणावर्तवते कृष्णाय ते नमः ।
सत्रिवलयशोभाढ्यनाभियुक्ताय ते नमः ॥ ९२॥
शीतभास्वररूपायाऽमृतप्रदाय ते नमः ।
अक्षरायाऽव्याकृतनाम्ने गोलोकाय ते नमः ॥ ९३॥
वैकुण्ठाय बद्रीशाय श्वेतद्वीपाय ते नमः ।
क्षीरस्थानाय जीवाय जीवातवे च ते नमः ॥ ९४॥
आत्मने च तदात्मने सर्वात्मने नमो नमः ।
वह्निस्थाय रविस्थाय हिरण्यस्थाय ते नमः ॥ ९५॥
सुराऽसुरनिवासाय भक्तार्तिहारिणे नमः ।
अपक्षाय विपक्षाय भक्तपक्षाय ते नमः ॥ ९६॥
भगवँस्ते कथाधाम्ने वार्ताधाम्ने च ते नमः ।
सर्वविद्यानिवासाय ब्रह्मणे ते नमो नमः ॥ ९७॥
भगवन् देवदेवेश पाहि नः शरणागतान् ।
जलन्धरेण वै स्वर्गं निराकृत्य सुराँस्ततः ॥ ९८॥
स्वायत्तीकृतमेवेति कथं त्वं सहसे प्रभो ।
सूर्यश्चन्द्रश्च वह्निश्च शेषो धर्मो निराकृताः ॥ ९९॥
शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ।
वयं क्षुद्रा इव नाथ विचरामोऽटवीस्थलम् ॥ १००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३२५-अध्यायान्तर्गतं
देवादिभिः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३२५/७३-१००॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 325/73-100..
Proofread by PSA Easwaran