देवैः कृतं २ विष्णुस्तोत्रम्
देवा ऊचुः ।
आराधनाय लोकानां विष्णोरीशस्य यां गिरम् ।
वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु ॥ ११॥
यतो भूतान्यश्षानि प्रसूतानि महात्मनः ।
यस्मिंश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥ १२॥
तथाप्यरातिविध्वंसध्वस्तवीर्या भयार्थिनः ।
त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे ॥ १३॥
त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च ।
समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥ १४॥
एकं तवैतद्भूतात्मन्मूर्त्तमूर्त्तमयं वपुः ।
आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत् ॥ १५॥
तत्रेश तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् ।
रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥ १६॥
शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् ।
वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥ १७॥
दम्भप्रायमसम्बोधि तितिक्षादमवर्जितम् ।
यद्रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥ १८॥
नातिज्ञानवहा यस्मिन्नाड्यः स्तिमिततेजसि ।
शब्दादिलोभि यत्तस्मै तुभ्यं यक्षात्मने नमः ॥ १९॥
क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् ।
निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥ २०॥
स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव ।
धर्माख्यं च तथा रूपं नमस्तस्मै जनार्द्दन ॥ २१॥
हर्षप्रायमसंसर्गि गतिमद्गमनादिषु ।
सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ॥ २२॥
अतितिक्षायनं क्रूरमुपभोगसहं हरे ।
द्विजिह्वं तव यद्रूपं तस्मै नागात्मने नमः ॥ २३॥
अवबोधि च यच्छान्तमदोषमपकल्मषम् ।
ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः ॥ २४॥
भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् ।
त्वद्रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः ॥ २५॥
सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः ।
नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ॥ २६॥
प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् ।
जनार्दन नमस्तस्मै त्वद्रूपाय नरात्मने ॥ २७॥
अष्टाविंशद्वधोपेतं यद्रूपं तामसं तव ।
उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥ २८॥
यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् ।
वृक्षादिभेदैष्षड्भेदि तस्मै मुख्यात्मने नमः ॥ २९॥
तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् ।
रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥ ३०॥
प्रधानबुद्ध्यादिमयादश्षाद्यदन्यदस्मात्परमं परात्मन् ।
रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥ ३१॥
शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् ।
शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥ ३२॥
यन्नः शरीरेषु यदन्यदेहेष्वश्षवस्तुष्वजमक्षयं यत् ।
तस्माच्च नान्यद्व्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥ ३३॥
सकलमिदमजस्य यस्य रूपं परमपदात्मवतस्सनातनस्य ।
तमनिधनमशेषबीजभूतं प्रभुममलं प्रणतास्स्म वासुदेवम् ॥ ३४॥
इति विष्णुपुराणे तृतीयभागे सप्तदशाध्यायान्तर्गतं
देवैः कृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ३/१७/११-३४॥
viShNupurANa . adhyAya 3/17/11-34..
Proofread by PSA Easwaran