$1
श्रीधन्वन्तरि ध्यानम्
$1

श्रीधन्वन्तरि ध्यानम्

शङ्खं चक्रमुपर्यधश्च करयोर्दिव्यौषधं दक्षिणे वामेनान्यकरेण सम्भृतसुधाकुम्भं जलौकावलिम् । बिभ्राणः करुणाकरः शुभकरः सर्वामयध्वंसकः क्षिप्रं नो दुरितं छिनत्तु भगवान्धन्वन्तरिः पातु नः ॥ श्रीमान् कलयतु शश्वत्क्षेमं धन्वन्तरिः सतां देवः । कामं सुरवरतत्यै कामितदानाय दुग्धवार्धिभवः ॥ १॥ करधृतदिव्यसुधावरकलशः परिपूर्णषड्गुणः श्रीशः । परिहृतभक्तक्लेशः सुरुचिरतरकान्तवरवेषः ॥ २॥ हृतवति करधृतकलशे दितिसुतमुख्यैः प्रतिक्रियां तेषाम् । व्यतनुत निर्जरतत्यै योषिद्रूपो विभज्य पीयूषम् ॥ ३॥ विश्रुतविलसत्कीर्तिः भक्तानन्दप्रदानवरमूर्तिः । निस्तुलकरुणाशक्तिः भात्येष श्रीहरिः स्वयं जगति ॥ ४॥ आनतसज्जनपाता मौनिप्रवरार्तिजातसंहर्ता । ज्ञानिप्रवरनिरन्तरगानार्हात्मीयनित्यसद्वृत्तः ॥ ५॥ आयुर्वेदाब्धिसारं निखिलमुनिजनस्तोमभूत्यै विवृण्वन् भूयः पद्मासनाद्यैरुरुतरवचसा संस्तुतस्सोऽवतान्नः । प्रेयान्क्षीराब्धिजायाः सुतरुमणिसुधेन्द्वात्मनैकोऽखिलेभ्यः भक्तेभ्यो दातुमीष्टे भुवि शमिह गदापायदः संस्मृतो यः ॥ ६॥ क्षीराब्धेर्मथ्यमानादमृतमभिलषद्बुद्धिभिर्वै बुधौघैः उत्तीर्णः पीतवासा घनरुचिररुचिर्विश्वसन्त्राणहेतोः । दोर्भिर्बिभ्रच्चतुर्भिर्जलभवमभयं चामृतं शस्त्रयन्त्रं योऽसौ धन्वन्तरिर्नः सकलगदभयादादिदेवः सदाऽव्यात् ॥ ७॥ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश ॥ ८॥ पृष्ठे कूर्मतया चतुर्भुजतया दोर्मण्डले मन्दरं रुध्वा क्षीरसमुद्रमोषधिभृतं निर्मथ्य निष्पादितैः । आनीतैरमृतैर्भिषक्तमतया योषित्तया पायितैः देवानामजरामरत्वमकरोत्तस्मै नमो विष्णवे ॥ ९॥ क्षीराब्धेरुदगाः - धृतवानमृतघटं आयुष्यं जगते वितरीतुं श्रीसहज धन्वन्तरिरूप - जय जगदीश हरे ॥ १०॥ इति श्रीधन्वन्तरिध्यानं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : dhanvantaridhyAnam
% File name             : dhanvantaridhyAnam.itx
% itxtitle              : dhanvantaridhyAnam
% engtitle              : dhanvantaridhyAnam
% Category              : vishhnu, dhyAnam
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org