धर्मदेवकृता श्रीहरिस्तुतिः २

धर्मदेवकृता श्रीहरिस्तुतिः २

धाम्न्यक्षरे परतरे स्वतनुप्रकाशे सिंहासने वरतरे च विराजमानः । जुष्टोऽसि नाथ निजमुक्तवरैः सदैव तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ १॥ आत्यन्तिकीं भुवि विधातुमिहैव मुक्ति नैकात्मनां प्रकटितोऽस्यधुना कृपाब्धे । नानावतारनिकरैकनिदानमूर्ते तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ २॥ यस्माद् भवन्ति निखिलानि जगन्ति भूम्न- स्तिष्ठन्ति चैव परमात्मनि तानि यस्मिन् । लीनीभवन्ति प्रलयेऽपि च तानि यस्मिं- तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ३॥ मायापराय विभवे परतः पराय ब्रह्माक्षरादिपतयेऽखिलकारणाय । सर्वेश्वराय सुखदाय सुमङ्गलाय तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ४॥ हे भगवान, भायाथी पर, परथी पए पर, सर्वमां व्याप, ऐश्वर्यशक्तिसुखवैभवसौष्ठवाद्यै- रप्राकृतैर्गुणगणैरभिसेवितोऽसि । मुक्तीभिश्च नितरां परिसेवनार्ह- तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ५॥ धर्मस्य पोषणकृतेऽप्यवृषस्य नाशं कर्तुं स्वकीयमहसा धृतमर्त्यनाट्यः । वर्वर्त्सि साम्प्रतमिहेव निदाघसूर्य- स्तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ६॥ स्वीयाश्रयं कृतवतां भवरोगहर्ता त्वं प्राणिनां च निजमूर्तिसुखप्रदाता । स्वामिन् सदैव करुणैकमहाम्बुराशे तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ७॥ कल्याणवर्त्म भवतैव यथागमोक्तं यादृक् प्रवर्तितमिह क्वचिदेव नान्यैः । शुद्धस्वसिद्धसदगाधविबोधवार्द्धे तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ८॥ दैत्या हता ननु पुरावतरैः प्रभो ते तेभ्योऽपि भूरिबलवीर्ययुजः स्मराद्याः । ध्वस्तास्त्वया स्वमहसैव निजाश्रितानां तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ ९॥ इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे एकपञ्चाशत्तमे तरङ्गे धर्मदेवकृता श्रीहरिस्तुतिः सम्पूर्णा ।
% Text title            : Dharmadevakrita Shri Hari Stuti 2
% File name             : dharmadevakRRitAshrIharistutiH2.itx
% itxtitle              : shrIharistutiH dharmadevakRitA 2 (dhAmnyakShare paratare svatanuprakAshe)
% engtitle              : dharmadevakRRitA shrIharistutiH 2
% Category              : vishhnu, svAminArAyaNa, krishna, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org