धेनुकासुरकृतं श्रीकृष्णस्तोत्रम्
दानव उवाच ।
वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः ।
राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ॥ ३७॥
बलिर्भक्तिवशो वीरः सर्वेशो भक्तवत्सलः ।
शीघ्रं त्वं हिन्धि मां पापं शापाद्गर्दभरूपिणम् ॥ ३८॥
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् ।
मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ॥ ३९॥
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा ।
जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ॥ ४०॥
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् ।
वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ॥ ४१॥
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे ।
प्रह्लादानुग्रहार्थाय देवानां रक्षणाय च ॥ ४२॥
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे ।
नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ॥ ४३॥
शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे ।
विश्वाधारश्च विश्वस्त्वमंशेनापि सहस्रधृक् ॥ ४४॥
रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे ।
दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ॥ ४५॥
कलया परशुरामश्च जमदग्निसुतो महान् ।
त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ॥ ४६॥
अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः ।
मातृज्ञानप्रदाता च योगशास्त्रविधायकः ॥ ४७॥
अंशेन ज्ञानिनां श्रेष्ठो नरनारायणावृषी ।
त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ॥ ४८॥
अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।
सर्वेषामवताराणां बीजरूपः सनातनः ॥ ४९॥
यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः ।
प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ॥ ५०॥
वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः ।
अयोनिसम्भवः श्रीमान्पृथिवीभारहारकः ॥ ५१॥
पूतनायै मातृगतिं प्रदाता च कृपानिधिः ।
बककेशिप्रलम्बानां ममापि मोक्षकारकः ॥ ५२॥
स्वेच्छामय गुणातीत भक्तानां भयभञ्जन ।
प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ ५३॥
हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात् ।
मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ॥ ५४॥
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः ।
किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ॥ ५५॥
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः ।
दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ॥ ५६॥
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि ।
सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥ ५७॥
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः ।
प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ॥ ५८॥
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।
सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः ॥ ५९॥
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम् ।
विद्यां श्रियं सुकवितां पुत्रपौत्रान्यशो लभेत् ॥ ६०॥
इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे द्वाविंशाध्यायान्तर्गतं
धानुकासुरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय २२/३७-५७॥
brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 22/37-57..
Proofread by PSA Easwaran