ध्रुवकृतं विष्णुस्तोत्रम्
ध्रुव उवाच ।
नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने ।
हिरण्यरेतसे तुभ्यं सुहिरण्यप्रदायिने ॥ १॥
नमो हरस्वरूपाय भूतसंहारकारिणे ।
महाभूतात्मभूताय भूतानां पतये नमः ॥ २॥
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ।
तृष्णाहराय कृष्णाय महाभारसहिष्णवे ॥ ३॥
नमो दैत्यमहारण्यदाववह्निस्वरूपिणे ।
दैत्यद्रुमकुठाराय नमस्ते शार्ङ्गपाणये ॥ ४॥
नमः कौमोदकीव्यग्रकराग्राय गदाधर ।
महादनुजनाशाय नमो नन्दकधारिणे ॥ ५॥
नमः श्रीपतये तुभ्यं नमश्चक्रधराय च ।
धराधराय वाराहरूपिणे परमात्मने ॥ ६॥
नमः कमलहस्ताय कमलावल्लभाय ते ।
नमो मत्स्यादिरूपाय नमः कौस्तुभवक्षसे ॥ ७॥
नमो वेदान्तवेद्याय नमः श्रीवत्सधारिणे ।
नमो गुणस्वरूपाय गुणिने गुणवर्जित ॥ ८॥
नमस्ते पद्मनाभाय पाञ्चजन्यधराय च ।
वासुदेव नमस्तुभ्यं देवकीनन्दनाय च ॥ ९॥
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ।
नमः कंसविनाशाय नमश्चाणूरमर्दिने ॥ १.२१.१०॥
दामोदर हृषीकेश गोविन्दाच्युत माधव ।
उपेन्द्र कैटभाऽराते मधुहन्तरधोक्षज ॥ ११॥
नारायणाय नरकहारिणे पापहारिणे ।
वामनाय नमस्तुभ्यं हरये शौरये नमः ॥ १२॥
अनन्ताय नमस्तुभ्यमनन्तशयनाय च ।
रुक्मिणीपतये तुभ्यं रुक्मिप्रमथनाय च ॥ १३॥
चैद्यहन्त्रे नमस्तुभ्यं दानवारेऽसुरारये ।
मुकुन्द परमानन्द नन्दगोपप्रियाय च ॥ १४॥
नमस्ते पुण्डरीकाक्ष दनुजेन्द्रनिषूदिने ।
नमो गोपालरूपाय वेणुवादनकारिणे ॥ १५॥
गोपीप्रियाय केशिघ्ने गोवर्धनधराय च ।
रामाय रघुनाथाय राघवाय नमो नमः ॥ १६॥
रावणारे नमस्तुभ्यं विभीषणशरण्यद ।
अजाय जयरूपाय रणाङ्गणविचक्षण ॥ १७॥
क्षणादि कालरूपाय नानारूपाय शार्ङ्गिणे ।
गदिने चक्रिणे तुभ्यं दैत्यचक्रविमर्दिने ॥ १८॥
बलाय बलभद्राय बलारातिप्रियाय च ।
बलियज्ञप्रमथन नमो भक्तवरप्रद ॥ १९॥
हिरण्यकशिपोर्वक्षोविदारण रणप्रिय ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥ १.२१.२०॥
नमस्ते धर्मरूपाय नमः सत्त्वगुणाय च ।
नमः सहस्रशिरसे पुरुषाय पराय च ॥ २१॥
सहस्राक्ष सहस्राङ्घ्रे सहस्रकिरणाय च ।
सहस्रमूर्ते श्रीकान्त नमस्ते यज्ञपूरुष ॥ २२॥
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ।
वेदाय वेदगदिने सदाचाराध्वगामिने ॥ २३॥
वैकुण्ठाय नमस्तुभ्यं नमो वैकुण्ठवासिने ।
विष्टरश्रवसे तुभ्यं नमो गरुडगामिने ॥ २४॥
विष्वक्सेन नमस्तुभ्यं जगन्मय जनार्दन ।
त्रिविक्रमाय सत्याय नमः सत्यप्रियाय च ॥ २५॥
केशवाय नमस्तुभ्यं मायिने ब्रह्मागायिने ।
तपोरूपाय तपसां नमस्ते फलदायिने ॥ २६॥
स्तुत्याय स्तुतिरूपाय भक्तस्तुतिरताय च ।
नमस्ते श्रुतिरूपाय श्रुत्याचारप्रियाय च ॥ २७॥
अण्डजाय नमस्तुभ्यं स्वेदजाय नमोऽस्तु ते ।
जरायुजस्वरूपाय नम उद्भिज्जरूपिणे ॥ २८॥
देवानामिन्द्ररूपोऽसि ग्रहाणामसि भानुमान् ।
लोकानां सत्यलोकोऽसि सिन्धूनां क्षीरसागरः ॥ २९॥
सुरापगाऽसि सरितां सरसां मानसं सरः ।
हिमवानसि शैलानां धेनूनां कामधुग्भवान् ॥ १.२१.३०॥
धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि ।
नीलोत्पलं प्रसूनेषु वृक्षेषु तुलसी भवान् ॥ ३१॥
सर्वपूज्यशिलानां वै शालग्रामशिला भवान् ।
मुक्तिक्षेत्रेषु काशी त्वं प्रयागस्तीर्थपङ्क्तिषु ॥ ३२॥
वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान् ।
गरुडोऽस्यण्डजेष्वीश व्यवहारेषु वाग्भवान् ॥ ३३॥
वेदेषूपनिषद्रूपो मन्त्राणां प्रणवोह्यसि ।
अक्षराणामकारोऽसि यज्वनां सोमरूपधृक् ॥ ३४॥
प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम् ।
दातॄणामसि पर्जन्यः पवित्राणां परोह्यसि ॥ ३५॥
चापोऽसि सर्वशस्त्राणां वातो वेगवतामसि ।
मनोऽसीन्द्रियवर्गेषु निर्भयाणां करोह्यसि ॥ ३६॥
व्योम व्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम् ।
सन्ध्योपास्तिर्भवान्देव सर्वनित्येषु कर्मसु ॥ ३७॥
क्रतूनामश्वमेधोऽसि दानानामभयं भवान् ।
लाभानां पुत्रलाभोऽसि वसन्तस्त्वमृतुष्वहो ॥ ३८॥
युगानां प्रथमोऽसि त्वं तिथीनां त्वं कुहूर्ह्यसि ।
पुष्योऽसि नक्षत्रगणे सङ्क्रमः सर्वपर्वसु ॥ ३९॥
योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् ।
उद्यमानां हि सर्वेषां निर्वाणं त्वमसि प्रभो ॥ १.२१.४०॥
सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज ।
अश्वत्थः सर्ववृक्षेषु सोमवल्ली लतासु च ॥ ४१॥
प्राणायामोऽसि सर्वेपु साधनेषु शुचिष्वहो ।
सर्वदः सर्वलिङ्गेषु श्रीमान्विश्वेश्वरो भवान् ॥ ४२॥
मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबन्धुषु ।
त्वत्तो नान्यज्जगत्यस्मिन्नारायण चराचरे ॥ ४३॥
त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम् ।
त्वमेव सौख्यसम्पत्तिस्त्वमायुर्जीवनेश्वरः ॥ ४४॥
सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम् ।
तत्कर्म यत्त्वदर्थं वै तत्तपो यद्भवत्स्मृतिः ॥ ४५॥
तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम् ।
स एव सकलः कालो यस्मिञ्जिष्णो त्वमर्च्यसे ॥ ४६॥
तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे ।
रोगाः प्रशममायान्ति त्वत्पादोदकसेवनात् ॥ ४७॥
महापापानि गोविन्द बहुजन्मार्जितान्यपि ।
सद्यो विलयमायान्ति वासुदेवेति कीर्तनात् ॥ ४८॥
अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता ।
वासुदेवमनादृत्य यदन्यत्र कृतश्रमाः ॥ ४९॥
इदमेव हि माङ्गल्यमिदमेव धनार्जनम् ।
जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ॥ १.२१.५०॥
अधोक्षजात्परोधर्मो नार्थो नारायणात्परः ।
न कामः केशवादन्यो नापवर्गो हरिं विना ॥ ५१॥
इयमेव परा हानिरुपसर्गो यमेवहि ।
अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत् ॥ ५२॥
हरेराराधनं पुंसां किं किं न कुरुते बत ।
पुत्रमित्रकलत्रार्थं राज्यस्वर्गापवर्गदम् ॥ ५३॥
हरत्यघं ध्वंसयति व्याधीनाधीन्नियच्छति ।
धर्मं विवर्धयेत्क्षिप्रं प्रयच्छति मनोरथम् ॥ ५४॥
भगवच्चरणद्वन्द्वं निर्द्द्वन्द्वध्यानमुत्तमम् ।
पापिनापि प्रसङ्गेन विहितं स्वहितं परम् ॥ ५५॥
पापिनां यानि पापानि महोपपदभाञ्ज्यपि ।
सुलीनध्यानसम्पन्नो नामोच्चारो हरेर्हरेत् ॥ ५६॥
प्रमादादपि संस्पृष्टो यथाऽनलकणो दहेत् ।
तथौष्ठपुटसंस्पृष्ट हरिनाम हरेदघम् ॥ ५७॥
नितान्तं कमलाकान्ते शान्तचित्तं विधाय यः ।
संशीलयेत्क्षणं नूनं कमला तत्र निश्चला ॥ ५८॥
अयमेव परो धर्मस्त्विदमेव परं तपः ।
इदमेव परं तीर्थं विष्णुपादाम्बु यत्पिबेत् ॥ ५९॥
तवोपहारं भक्ताय सेवते यज्ञपूरुष ।
सेवितस्तेन नियतं पुरोडाशो महाधिया ॥ १.२१.६०॥
स चैवावभृथस्नातः स च गङ्गाजलाप्लुतः ।
विष्णुपादोदकं कृत्वा शङ्खे यः स्नाति मानवः ॥ ६१॥
शालग्रामशिला येन पूजिता तुलसीदलैः ।
स पारिजातमालाभिः पूज्यते सुरसद्मनि ॥ ६२॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।
विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमश्च सः ॥ ६३॥
शङ्खचक्राङ्किततनुः शिरसां मञ्जरीधरः ।
गोपीचन्दनलिप्ताङ्गो दृष्टश्चेत्तदघं कुतः ॥ ६४॥
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ।
द्वारवत्याः शिलायुक्तः स वैकुण्ठे महीयते ॥ ६५॥
तुलसी यस्य भवने प्रत्यहं परिपूज्यते ।
तद्गृहं नोपसर्पन्ति कदाचिद्यमकिङ्कराः ॥ ६६॥
हरिनामाक्षरमुखं भाले गोपीमृदाङ्कितम् ।
तुलसीमालितोरस्कं स्पृशेयुर्न यमानुगाः ॥ ६७॥
गोपीमृत्तुलसी शङ्खः शालग्रामः सचक्रकः ।
गृहेऽपि यस्य पञ्चैते तस्य पापभयं कुतः ॥ ६८॥
ये मुहूर्ताः क्षणा ये च या काष्ठा ये निमेषकाः ।
ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः ॥ ६९॥
क्व द्व्यक्षरं हरेर्नाम स्फुलिङ्गसदृशं ज्वलेत् ।
महती पातकानां च राशिस्तूलोपमा क्व च ॥ १.२१.७०॥
गोविन्दं परमानन्दं मुकुन्दं मधुसूदनम् ।
त्यक्त्वान्यं नैव जानामि न भजामि स्मरामि न ॥ ७१॥
न नमामि न च स्तौमि न पश्यामीह चक्षुषा ।
न स्पृशामि न वायामि गायामि न हरिं विना ॥ ७२॥
जले स्थले च पातालेऽप्यनिले चानलेऽचले ।
विद्याधरासुरसुरे किन्नरे वानरे नरे ॥ ७३॥
तृणे स्त्रैणे च पाषाणे तरुगुल्मलतासु च ।
सर्वत्र श्यामलतनुं वीक्षे श्रीवत्सवक्षसम् ॥ ७४॥
सर्वेषां हृदयावासः साक्षात्साक्षी त्वमेव हि ।
बहिरन्तर्विना त्वां तु नह्यन्यं वेद्मि सर्वगम् ॥ ७५॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे एकविंशाध्यायान्तर्गतं
ध्रुवकृतं विष्णुस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय २१/१-७५॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 21/1-75..
Proofread by PSA Easwaran