विष्णुधर्मपुराणे गजेन्द्रमोक्षणः
(एकोनसप्ततितमोऽध्यायः)
गजेन्द्रमोक्षणस्तवः ।
शतानीक उवाच ।
मया हि देवदेवस्य विष्णोरमिततेजसः ।
श्रुताः सम्भूतयः सर्वा गदतस्तव सुव्रत ॥ १॥
यदि प्रसन्नो भगवान् अनुग्राह्योऽस्मि वा यदि ।
तदहं श्रोतुमिच्छामि नॄणां दुःस्वप्ननाशनम् ॥ २॥
स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः ।
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ॥ ३॥
यद्यत्पुण्यं पवित्रं च नॄणामतिशुभप्रदम् ।
दुःस्वप्नोपशमायालं तन्मे विस्तरतो वद ॥ ४॥
शौनक उवाच ।
इदमेव महाराज पृष्टवाम्स्ते पितामहः ।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ॥ ५॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावना ।
नमस्तेस्तु ऋषीकेश महापुरुषपूर्वीज ॥ ६॥
आद्यं पुरुषं ईशानं पुरुहूतं प्ररुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ ७॥
असच्वच्वैव च यद्विश्वं सदसत् ततः परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ ८॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यं अनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चरचरगुरं हरिम् ॥ ९॥
नास्ति नारायणसमं नभूतं न भविष्यति ।
पितेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥ १०॥
किमन्यैर्बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्त्रुतैः ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ११॥
पद्मासनं पद्मसमाननश्च पद्मस्वयोनिं चतुराननं च ।
षङ्गवैदैश्च विभूषिताङ्गं पितामहं तं प्रणतोऽस्मि नित्यम् ॥ १२॥
मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् ।
सरस्त्वत्यावासं वेदव्यासं नमाम्यहम् ॥ १३॥
महर्षेस्सर्वलोकेषु पूजितस्य महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ १४॥
जज्ञे महायज्ञ परं ह्युदारं यद्वीपमध्ये सुवमात्मवत्तः ।
पराशरात्गन्धवती महर्षीं तस्मै नमोऽज्ञानतमौनुदाय ॥ १५॥
नमो भगवते तस्मै व्यासायाऽमिततेजसे ।
यस्यप्रसादात् वक्ष्यामि नारायणकथामिमाम् ॥ १६॥
जनमेजय उवाच ।
किं जपन् मुच्यते ब्रह्मन् किं जपन् सुखमश्रुते ।
दुस्वप्रनाशनं पुण्यं श्रोतुमिच्छामि मानद ॥ १७॥
वैशम्पायन उवाच ।
देवव्रतं महाप्राज्ञं सर्वशास्त्रविशारदम् ।
विनयेनोपसङ्गम्य पर्यपृच्छद्युधिष्ठिरः ॥ १८॥
युधिष्ठिर उवाच ।
दुःस्वप्नदर्शनं घोरमवेक्ष्य भरतर्षभ ।
प्रयतः किं जपेज्जप्यं विबुद्धः किमनुस्मरेत् ॥ १९॥
पितामह महाबुद्धे बुद्धेर्भेदो महान् अयम् ।
पितामह प्रसादेन यज्ज्ञातं नृपसत्तम
तदहं श्रोतुमिच्छामि ब्रूहि मे वदतां वर ॥ २०॥
भीष्म उवाच ।
शृणु राजन् महाबाहो वर्तयिष्यामि तेऽखिलम् ।
दुःस्वप्नदर्शने जप्यं यद्वै नित्यं समाहितैः ॥ २१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गजेन्द्रमोक्षणं पुण्यं कृष्णस्याक्लिष्टकर्मणः ॥ २२॥
सर्वरत्नमयः श्रीमाम्स्त्रिकूटो नाम पर्वतः ।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ २३॥
क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ २४॥
अप्सरोभिः समाकीर्णः श्रीमान् प्रस्रवणाकुलः ।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ।
विद्याधरैः सपत्नीकैः सम्यतैश्च तपस्विभिः ।
मृगैर्द्वीपैर्द्विजैश्चैव वृतः सौवर्णराजतैः ।
(मृगैर्द्विजैर्गजेन्द्रैश्च वृतगात्रो विराजते)
पुन्नागैः कर्णिकारैश्च पुष्पितैरुपशोभितः ॥
चूतनीपकदम्बैश्च चन्दनागरुचम्पकैः ।
शालैस्तालैस्तमालैश्च कुटजैश चार्जुनैस्तथा ॥ २५॥
वकुलैः पाटलैश्चैव सरलैर्देवदारुभिः
मन्दारकुरुवैश्वापि पारिजातैश्च सर्वशः
एवं बहुविधैर्वृक्षैः सर्वतः समलङ्कृतः ।
नानाधातूज्ज्वलैः शृङ्गैः प्रस्रवद्भिः समन्ततः ॥ २६॥
मृगैः शाखामृगैः सिम्हैर्मातङ्गैश्च सदामदैः ।
जीवज्जीवकसन्घुष्टं चकोरशिखिनादितम् ॥ २७॥
तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिशाकरः ।
नानापुष्पसमाकीर्णं नानागन्धसमाकुलम् ॥ २८॥
द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः ।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् ॥ २९॥
वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन्नभः ।
ऋतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥ ३०॥
न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
नातप्ततपसः शैलं तं वै पश्यन्ति मानवाः ॥ ३१॥
तपसो लोके ये वै पापकृता जनाः
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ ३२॥
मत्तभ्रमरसन्घुष्टं फुल्लपङ्कजशोभितम् ।
कुमुदोत्पलकल्हारपुण्डरीकोपशोभितम् ॥ ३३॥
उत्पलैः शतपत्त्रैश्च काञ्चनैः समलङ्कृतम् ।
पत्त्रैर्मणिदलप्रख्यैः पुष्पैः काञ्चनसन्निभैः ।
गुल्मैः कीचकवेणूनां समन्तात् परिवारितम् ॥ ३४॥
दशयोजन विस्तीर्णं शतयोजनमायतं
तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः ।
आसीद् ग्राहो गजेन्द्राणां दुराधर्षो महाबलः ॥ ३५॥
अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः ।
आजगामासिताभ्राभः करेणुपरिवारितः ॥ ३६॥
मदस्रावी महारौद्रः पादचारीव पर्वतः ।
वासयन् मदगन्धेन गिरिमैरावतोपमः ॥ ३७॥
स गजोऽञ्जनसङ्काशो मदाच्चलितमानसः ।
गन्धहस्तीति विख्यातः सरः समभिगम्य तत् ॥ ३८॥
तृषितः स जलं प्राप्य कुसुमाकरशीतलम् ।
अपिबत्सहसा राजन्करेणुपरिवारितः ।
सलीलं पङ्कजवने यूथमध्यगतोऽव्रजत् ॥ ३९॥
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥ ४०॥
क्रियते पङ्कजवने ग्राहेणातिबलीयसा ।
वारुणैः सम्यतः पाशैर्निःप्रयत्नगतिः कृतः ।
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ॥ ४१॥
विस्फुर्ज्य च यथाशक्ति विक्रुश्य च महारवान् ।
व्यथितः सन्निरुत्साहो गृहीतो घोरकर्मणा ॥ ४२॥
(गजश्चाकर्षते तीरं ग्राहश्चाकर्षते जलम् ।
द्वन्द्व महायुद्धं दिव्यवर्षसहस्रिकम् ।)
परमापदमापन्नो मनसाचिन्तयद्धरितम् ।
स तु नागवरः श्रीमान्नारायणपरायणः ॥ ४३॥
तमेव परमं देवं गतः सर्वात्मना तदा ।
एकाग्रं चिन्तयामास विशुद्धेनान्तरात्मना ॥ ४४॥
एकात्मा त्रिविधेनापि एकात्मा निग्रहीतात्मा
जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे ।
आद्यं देवं महात्मानं पूजयामास केशवम् ॥ ४५॥
नवमेघप्रतीकाशं शङ्खचक्रगदाधरम् ।
अमृतात्मक मेधाभं अमृतात्मा तमेवाङ्गं
सहस्रशुभनामानमादिदेवमजं परम् ॥ ४६॥
(दिग्बाहुं सर्वमूर्धानं भूपादं गगनोदरम् ।
आदित्यचन्द्रनयनं समग्रं लोकसाक्षिणम् ।
भगवन्तं प्रसन्नोऽहं विष्णुमप्रतिमौजसम् ।)
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् ।
आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदैरयत् ॥ ४७॥
अथ स्तुतिः ।
गजेन्द्र उवाच ।
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥ १॥
अनाश्रिताय देवाय निःस्पृहाय नमो नमः ॥ २॥
नम आद्याय बीजाय शिवाय च प्रशान्ताय ॥ ३॥
आर्षेयाय प्रवर्तिने निश्चलाय यशस्विने ॥ ४॥
अनन्तराय चैकाय सनातनाय पूर्वाय ॥ ५॥
अव्यक्ताय नमो नमः पुराणाय नमो नमः ॥ ६॥
नमो गुह्याय गूढाय ॥ ७॥
गुणायागुणवर्तिने ॥ ८॥
अतर्क्यायाप्रमेयाय ॥ ९॥
अनन्ताय नमो नमः ॥ १०॥
नमो देवातिदेवाय ॥ ११॥
अप्रभाय नमो नमः ॥ १२॥
नमो जगत्प्रस्थिताय गोविन्दाय नमो नमः ॥ १३॥
नमोऽस्तु पद्मनाभाय साङ्ख्ययोगोद्भवाय च ॥ १४॥
विश्वेश्वराय देवाय शिवाय हरये नमः ॥ १५॥
नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ॥ १६॥
नारायणाय विश्वाय देवानां परमात्मने ॥ १७॥
नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ४८॥
आद्याय वेदनिलयाय महोदराय
सिंहाय दैत्यनिधनाय चतुर्भुजाय ।
गुह्याय वेदनिकयाय महोदराय
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय
देवोत्तमाय वरदाय नमोऽच्युताय ॥ ४९॥
नागेन्द्रभोगशयनासनसुप्रियाय ।
गोक्षीरहेमशुकनीलघनोपमाय ।
पीताम्बराय मधुकैटभनाशनाय ।
विश्वाय चारुमुकुटाय नमोऽक्षराय
भक्तिप्रियाय वरदीप्तसुदर्शनाय ॥ ५०॥
नाभिप्रजातकमलस्थचतुर्मुखाय
क्षीरोदकार्णवनिकेतयशोधनाय ।
नानाविचित्रमुकुटाङ्गदभूषणाय
सर्वेश्वराय वरदाय नमो वराय ॥ ५१॥
विश्वात्मने परमकारणकारणाय
फुल्लारविन्दविमलायतलोचनाय ।
देवेन्द्रदानवपरीक्षितपौरुषाय
योगेश्वराय विजयाय नमो वराय ॥ ५२॥
लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय ।
धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि ॥ ५३॥
नारायणायात्महितायनाय महावराहाय नमस्करोमि ।
अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् ।
कूटस्थम्मव्यक्तमचिन्त्यशक्तिं रूपं
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥ ५४॥
योगेश्वरं चारुविचित्रमौलि-
माज्ञेयमौख्यं प्रकृतेः परस्थम् ।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं
तं वासुदेवं शरणं प्रपद्ये ।
अदृश्यमच्छेद्यमनादिमध्यं
महर्षयो ब्रह्मविदः सुरेशम् ।
अनन्तमव्ययं मयं सनातनं
वदन्ति यं वै पुरुषं सनातनं
तं वासुदेवं शरणं प्रपद्ये ॥ ५५॥
यदक्षरं ब्रह्म वदन्ति सर्वगं
निशाम्य यं मृत्युमुखात् प्रमुच्यते ।
तमीश्वरं तृप्तमनोपमैर्गुणैः
परायणं विष्णुमुपैमि शाश्वतम् ॥ ५६॥
कार्यं क्रियाकारणमप्रमेयं
हिरण्यनाभं वरपद्मनाभम् ।
महाबलं वेदनिधिं सुरोत्तमं
व्रजामि विष्णुं शरणं जनार्दनम् ॥ ५७॥
विचित्रकेयूरमहार्हनिष्कं
रत्नोत्तमालङ्कृतसर्वगात्रम् ।
पीताम्बरं काञ्चनभक्तिचित्रं
मालाधरं केशवमभ्युपैमि ॥ ५८॥
भवोद्भवं वेदविदां वरिष्ठं
योगात्मानं साङ्ख्यविदां वरिष्ठम् ।
आदित्यचन्द्राश्विवसुप्रभावं
प्रभुं प्रपद्येऽच्युतमात्मभूतम् ॥ ५९॥
श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम् ।
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ॥ ६०॥
प्रभवं सर्वलोकानां निर्गुणं परमेश्वरम् ।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ ६१॥
भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम् ।
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥ ६२॥
त्रिविक्रमं त्रिलोकेशमाद्यमेकमनामयम् ।
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥ ६३॥
(आदिदेवमजं शम्भुं व्यक्ताव्यक्तं जनार्दनम् ।
क्षेत्रज्ञं पुरुषं यज्ञं त्रिगुणातीतमव्ययम् ।)
नारायणमणीयाम्सं प्रपद्ये परमेश्वरम् ॥ ६४॥
अकूपाराय देवाय नमस्सर्वमहाद्युते
प्रपद्ये देवदेवेशं अणीयाम्सं अणोस्सदा
एकाय लोकत्रयाय परतः परमात्मने ।
नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ६५॥
वरेण्यमनघं देवमृषयो वेदपारगाः ।
कीर्तयन्ति च यं सर्वे तं प्रपद्ये सनातनम् ॥ ६६॥
नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ।
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ६७॥
भीष्म उवाच ।
भक्तिं तस्यानुसञ्चिन्त्य नागस्यामोघसंस्तवम् ।
प्रीतिमान् अभवद्राजञ्शङ्खचक्रगदाधरः ।
सान्निध्यं कल्पयामास तस्मिन् सरसि माधवः ॥ ६८॥
ग्राहग्रस्तं गजं तं च सङ्गृह्य सलिलाशयात् ।
उज्जहाराप्रमेयात्मा तरसैवारिसूदनः ॥ ६९॥
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।
मोक्षयामास च गजं पाशेभ्यः शरणागतम् ॥ ७०॥
स हि देवलशापेन हूहू गन्धर्वसत्तमः ।
गजत्वमगमत् कृष्णान्मोक्षं प्राप्य दिवं गतः ।
शापाद्विमुक्तः सद्यश्च गजो गन्धर्वतां गतः ॥ ७१॥
आपद्विमुक्तो युगपत् गजो गन्धर्व एव च
ग्राहोऽपि यक्षतां यातो यः कृष्णेन निपातितः ।
तस्यापि शापमोक्षोऽसौ जैगीषव्यकृतोऽभवत् ॥ ७२॥
प्रीतिमाम्स्त्राति गोविन्दः सद्यः संसारसागरात् ।
प्रीतिमान् पुण्डरीकाक्षश्शरगतवत्सलः
अभवत्तत्रदेवेशस्ताभ्यां चैव प्रपूजितः
क्रुद्धोऽपि निघ्नन् देवत्वमरातीनां प्रयच्छति ॥ ७३॥
(तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ।
गन्धर्वराट् तथा यक्षः परां निर्वृतिमागतौ ॥ ७४॥
इदं चैव महाबाहो देवदेवोऽभ्यभाषत ।
दृष्ट्वा मुक्तौ गजग्रहौ भगवान् मधुसूदनः ॥ ७५॥
भजन्तं गजराजानं मधुरं मधुसूदनः
भगवान् उवाच ।
यो ग्राहं नागराजं च मां चैव प्रणिधानवान् ।
स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ॥ ७६॥
येमान्म्मां च सरश्चैव ग्राह्यश्च विदारणम् ।
गुल्मान् चक्रवेणून्नां रूपं मधवत्तदा ।
गुल्मं कीचकवेणूनां तं च शैलवरं तथा ।
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥ ७७॥
प्रयोगं ब्रह्मदुर्गांश्च दण्डकारण्यमेव च
संस्मरिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति वापि ये ।
(न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥ ७८॥
सर्वपापैः प्रमोक्ष्यन्ते कल्याणानां च भागिनः ।
भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ।
दुःस्वप्नं च नृणां तेषां सुस्वप्नं च भविष्यति ॥ ७९॥)
कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ।
नारसिम्हं तथा रूपं सृष्टिसंहारकारकम् ॥ ८०॥
एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ॥ ८१॥
भीष्म उवाच ।
एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः ।
अस्पृशद्गजगन्धर्वं ग्राहयक्षं च तं तदा ॥ ८२॥
त्वा नरश्रेष्ठः नागेन्द्रं मधुसूधनः
स्पर्शयामास हस्तेन गजं गन्धर्वमेव च
तेन स्पृष्टावुभौ सद्यो दिव्यमाल्याम्बरान्वितौ ।
विमानेऽभिमते प्राप्य जग्मतुस्त्रिदशालयम् ॥ ८३॥
ततो दिव्यवपुर्भूत्वा हस्तिराट् परमं पदं
गच्छति स्म महाबाहो नारायणपरायणः
ततो देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ।
ऋषिभिः स्तूयमानो हि गुह्यैर्वेदपदाक्षरैः ।
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥ ८४॥
गजेन्द्रमोक्षणं दृष्ट्वा सर्वे चेन्द्रपुरोगमाः ।
ब्रह्माणमग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन् ।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ।
विस्मयोत्फुल्लनयनाः प्रजापतिपुरःसराः ।
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः ।
प्राप्नुयात् परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति ।
गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रमोचनम् ।
श्रावयेत् प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ८५॥
श्रद्धया हि कुरुश्रेष्ठ स्मृतेन कथितेन च ।
गजेन्द्रमोक्षणेनेह दीर्घमायुरवाप्नुयात् ॥ ८६॥
मया ते कथितं दिव्यं पवित्रं पापनाशनम् ।
कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ॥ ८७॥
चरितं पुण्यफलदं पुष्कलं तव दर्धते
भक्तिमान् पुण्डरीकाक्षे नरो दुःखात् प्रमुच्यते
भ्रादभिस्सहितो राजन् ब्राह्मणैर्वेदपारगैः
पूजयामास देवां प्रार्श्वस्थं मधुसूधनं
शौनक उवाच ।
कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम् ।
गजेन्द्रमोक्षणं श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
भीष्माद्भगीरथीपुत्रात् पूजयामास केशवम् ॥ ८८॥
यदामहाग्राहगृहीतकातरं सुपुर्पितं पद्मवने महाद्विपं
विमोक्षयामास गजं जनार्दनः स्मरामि दुस्वप्नविनाशनं हरिं
परम्पराणां परमं पवित्रं पुराणमीशं सर्वलोकनाथं
सर्वामरैरर्चित पादपद्मं सनातनं भक्त....स्मरामि
वरगजचरणप्रमुक्तिहेतोः पुरुषवरस्य तदेव दिव्यगीतं
सततमपिपठन्ति ये तु तेषां भवमरणान्तर किल्बिषापहंसयात् ।
आकाशाप्तत्पतितं तोयं यथा गच्छति सागरं
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ।
पृथ्वीं प्रियदत्तेपि गाम्वै सर्वं सहेति च
विष्णुं ब्रह्मण्यदेवेति कीर्तयेन्नावसीदति
सर्व देवेषु यत्पुण्यं सर्व तीर्थेषुयत्फलं
तत्फलम्समवाप्नोति स्मृत्वा देवं जनार्दनं
ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूधनः
ब्रह्मण्यो पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः
मेरुमन्दरमात्रोऽपि राशिः पापस्यकर्मणः
केशवं वैद्यं आसाद्य दुर्व्याधिरिव नश्यति
नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः
ये चापि पाण्डुपुत्रस्य समीपस्था द्विजोत्तमाः ।
तेऽपि भीष्मस्य पार्श्वस्थं वासुदेवं प्रणेमिरे ॥ ८९॥
वरं वरेण्यं वरपद्मनाभं
नारायणं ब्रह्मनिधिं पुरेशम् ।
तं देवगुह्यं पुरुषं पुराणं
ववन्दिरे ब्रह्मविदां वरिष्ठम् ॥ ९०॥
एतत्पुण्यं महाराज नराणां पापकर्मणाम् ।
दुःस्वप्नदर्शने घोरे श्रुत्वा पापात् प्रमुच्यते ।
भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ॥ ९१॥
तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम् ।
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥ ९२॥
इति विष्णुधर्मे गजेन्द्रमोक्षणस्तवो नाम एकोनसप्ततितमोऽध्यायः ।
In some print, this adhyAya is numbered 67
and has 82 verses plus the stuti
after verse 47.
See also similar stuti from Vamanapurana.