विष्णुधर्मोत्तरपुराणे गजेन्द्रमोक्षणः

विष्णुधर्मोत्तरपुराणे गजेन्द्रमोक्षणः

वज्र उवाच । भगवञ्छ्रोतुमिच्छामि गजेन्द्रस्य विमोक्षणम् । विस्तरेण महाभाग शापान्नक्रस्य चोभयोः ॥ १॥ मार्कण्डेय उवाच । अस्त्यस्मिञ्छृङ्गवान्नाम जम्बूद्वीपे कुलाचलः । महाधातुसमुन्नद्धैर्युतः श‍ृङ्गैर्नभङ्कषैः ॥ २॥ यस्य श‍ृङ्गत्रयं मध्यं भाति राजन्विशेषवत् । ब्रह्मार्कसोमनिलयं मनोहारि दिवं गतम् ॥ ३॥ तेषामथैकं सौवर्णमपरं राजतं महत् । सर्वरत्नमयं चैकं मध्यमं ब्रह्मणः क्षयम् ॥ ४॥ काञ्चनं सूर्यनिलयं राजतं शशिनः क्षयम् । त्रिकूटं शैलराजाभं रत्नपक्षद्रुमैर्युतम् ॥ ५॥ न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्ततपसः केचिन्नैव पापकृतो जनाः ॥ ६॥ तस्य सानुमतः पृष्ठे सरो व्याकोशपङ्कजम् । कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ ७॥ सच्चित्तमिव गम्भीरं सच्चित्तमिव निर्मलम् । बहूपयोग्यं च तथा सतान्निष्कृतिकृन्नृप ॥ ८॥ मीनच्छिन्नाभ्रशकलस्फुटकह्लारतारकम् । महाकुमुदरात्रीशं द्वितीयमिव चाम्बरम् ॥ ९॥ उत्फुल्लपद्मरजसा मधुपैः परि पिञ्जरैः । समन्ताद्व्याप्य सत्पद्मं तपनीयसमैरिव ॥ १०॥ च्युतेन पद्माद्रजसा हंसैः केशरमन्थनैः । वायुना भ्राम्यमाणेन दुर्विभाव्योदकोम्बुजम् ॥ ११॥ महान्तः पद्मिनीपत्रा वायुभ्रस्ताभ्रशीकरैः । युक्ता मुक्ताफलाकारैर्यत्र भान्ति सहस्रशः ॥ १२॥ नृत्यन्ति कमला यत्र शफरी स्फुरणाहताः । भ्रमरोद्गीतसङ्घोषै रसत्सारसनादिकम् ॥ १३॥ हसन्तमिव हंसौघैर्नृत्यन्तमिव चोर्मिभि । उद्गीथमिव कुर्वाणं कारण्डवरवैः शुभैः ॥ १४॥ मध्ये त्वगाधं चतुरः प्रतीहारैरिवोद्धतैः । उत्सारयन्तं कल्लोलैर्वायुक्षिप्तद्रुमोद्भवान् ॥ १५॥ भ्रमरान्तरसंलीनकह्लारकुसुमाक्षुभिः ॥ पश्यन्तमिव शैलस्य श‍ृङ्गाणां तन्महोच्छ्रयम् ॥ १६॥ यत्रातिशीतलं तोयं लघु स्वादु सुधानिभम् । अन्यच्छ्रङ्गं मनोहारि भृङ्गनाद निनादितम् ॥ १७॥ तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलेशयः । हूहूर्जगाम ग्राहत्वं शापाद्वै देवलस्य तु ॥ १८॥ तस्मिन्नेव तथा शैले हाहा गन्धर्वसत्तमः । बभूव यूथपो हस्ती चलत्पर्वतसन्निभः ॥ १९॥ अथ दन्तोज्ज्वलवपुः कदाचिद्गजयूथपः । आजगाम महीपाल चोत्फुल्ल कमलं सरः ॥ २०॥ वंशदण्डैः स कलभैर्वृतश्चैव कररेणुभिः । वासयन्मदगन्धेन तं त्रिकूटं महीधरम् ॥ २१॥ स गजोऽञ्जनसङ्काशो मदाकुञ्चितलोचनः । सलीलं पङ्कजवने यूथमध्यगतो व्रजम्। २२॥ गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना । पश्यतः सर्वयूथस्य क्रोशतश्चाति दारुणम् ॥ २३॥ स चकार महायत्नमात्मनः परिमोक्षणे । ग्राहोऽपि यत्नमातिष्ठत्कुञ्जराकर्षणे महान् ॥ २४॥ ग्राहोऽपि बलिनं नागं न शशाक महाम्भसि । आक्रष्टुं न च नागोऽपि तथात्मानं विमोक्षितुम् ॥ २५॥ विस्फूर्ज्य च यथाशक्ति विक्रुष्य च महारवान् । व्यथितः स निरुद्योगः पश्चिमामागतो दशाम् ॥ २६॥ स तु नागवरः श्रीमान्नारायणपरायणः । जगाम शरणं विष्णुं तुष्टाव च परन्तपः ॥ २७॥ गृहीत्वा स कराग्रेण सरसः कमलोत्तमम् । निवेद्य भक्त्या कृष्णाय गजः स्तोत्रमुदीरयत् ॥ २८॥ गज उवाच । नमोनमः कारणवामनाय नारायणायासुरदारणाय । श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २९॥ आद्याय वेदनिलयाय महोरगाय सिंहाय दैत्यनिलयाय चतुर्भुजाय । ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥ ३०॥ नागेन्द्रभोगशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय । पीताम्बराय मधुकैटभनाशनाय भक्तप्रियाय वरदीप्तसुदर्शनाय ॥ ३१॥ नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय । नानाविचित्र मुकुटाङ्गदभूषणाय सर्वेश्वराय विजयाय नमो वराय ॥ ३२॥ विश्वात्मने परमकारणकारणाय फुल्लारविन्दविपुलायतलोचनाय । देवेन्द्रभावन परीक्षितपौरुषाय योगीश्वराय विजयाय नमो वराय ॥ ३३॥ लोकायनाय त्रिदशायनाय ब्रह्मायणायात्मगुणायनाय । धर्मायणायैकजनायनाय महावराहाय सदा नतोऽस्मि ॥ ३४॥ अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् । युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥ ३५॥ अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मनिधिं सुरेशम् । वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ॥ ३६॥ यमक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते । तमीश्वरं दृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैति शाश्वतम् ॥ ३७॥ कार्यक्रियाकारणमप्रमेयं हिर ण्यनाभं कनकारविन्दम् । महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ॥ ३८॥ विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्व गात्रम् । पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ ३९॥ भवोद्भवं वेदविदां वरिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् । आदित्यचन्द्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मभूतम् ॥ ४०॥ श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम् । प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ॥ ४१॥ प्रभवं सर्वलोकानां निर्गुणं च गुणात्मनाम् । प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ ४२॥ भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम् । शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥ ४३॥ ब्रह्मादेशं त्रिलोकेशमाद्यमेकमनामयम् । भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥ ४४॥ क्षेत्रज्ञं पुरुषं विष्णुं त्रिगुणातीतमव्ययम् । नारायणमणीयांसं प्रपद्ये शरणं हरिम् ॥ ४५॥ एकाय लोकतन्त्राय परतः परमात्मने । नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ४६॥ वरेण्यमनघं देवमृषयो वेदपारगाः । कीर्तयन्त्यभवं सर्वे तं प्रपद्ये सनातनम् ॥ ४७॥ नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद । सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणाऽगतम् ॥ ४८॥ मार्कण्डेय उवाच । भक्तिं तस्य तु सञ्चिन्त्य नागस्याऽमोघसंस्तवः । प्रीतिमानभवद्राजन्सद्यश्चक्रगदाधरः ॥ ४९॥ सान्निध्यं कल्पयामास ग्राहं चक्रेण माधवः । मोक्षयामास च गजं पाशेभ्यः शरणागतम् ॥ ५०॥ स हि देवलशापेन हाहा गन्धर्वसत्तमः । गजत्वमभवत्त्यक्त्वा मोक्षं प्राप्य दिवं गतः ॥ ५१॥ ग्राहाद्विमुक्तः सद्यस्तु गजो गन्धर्वतां गतः । ग्राहो गन्धर्वतां प्राप्तो यः कृष्णेन निपातितः ॥ ५२॥ तस्यापि देवलकृतः शापदोषोऽभवत्पुरा । प्रीतिमांस्त्रायते विष्णुः सद्यः संसारसागरात् ॥ ५३॥ कुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति । तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ॥ ५४॥ गन्धर्वाधिपती शीघ्रं परां निर्वृतिमागतौ । इदं चैव महाबाहो पुरा देवोऽभ्यभाषत ॥ ५५॥ दृष्ट्वा मुक्तौ गजग्राहौ भगवान्मधुसूदनः । योऽग्रहीन्नागराजं च मां चैव प्रणिधानवान् ॥ ५६॥ स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा । गुल्मं कीचकवेणूनामिमं शैलवरं तथा ॥ ५७॥ अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च । प्रयागं ब्रह्मतीर्थं च दण्डकारण्यमेव च ॥ ५८॥ संस्मरिष्यन्ति ये मर्त्या सम्यक्छ्रोष्यन्ति चापि ये । न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥ ५९॥ सर्वपापैर्विमोक्ष्यन्ति कल्याणानां च भागिनः । भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ॥ ६०॥ दुःस्वप्नं च नृणां तेषां सुस्वप्नत्वं प्रयास्यति । कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ॥ ६१॥ नारसिंहं तथा रूपं सृष्टिप्रलयकारकम् । एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ॥ ६२॥ सर्वपापैर्विशुद्धास्ते यास्यन्ति परमां गतिम् । मार्कण्डेय उवाच । एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः ॥ ६३॥ अस्पृशद्गजगन्धर्वं ग्राहगन्धर्वमेव च । तेन स्पृष्टौ तु तौ सद्यो दिव्यमाल्याम्बरान्वितौ ॥ ६४॥ विमानेऽभिमते प्राप्ते जग्मतुस्त्रिदशालयम् । तत्र देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ॥ ६५॥ ऋषिभिस्तूयमानस्तु गुह्यैर्वेदपदाक्षरैः । गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिर्विभुः ॥ ६६॥ गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रपुरोगमाः । ब्राह्मणानग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन् ॥ ६७॥ गजेन्द्रमोक्षणं पुण्यं सर्वपापविमोचनम् । श्रावयन्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ६८॥ श्रद्धया हि यदुश्रेष्ठ स्मृतेन कथितेन च । गजेन्द्रमोक्षणेनैव दीर्घमायुरवाप्नुयात् ॥ ६९॥ मया ते कथितं दिव्यं पवित्रं पापनाशनम् । कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ॥ ७०॥ कीर्त्यमानं च विप्रेभ्यः श‍ृणु भक्त्या यथोदितम् ॥ ७१॥ वरं वरेण्यं वरपद्मनाभं नारायणं पद्मनिधिं सुरेशम् । तं देवगुह्यं पुरुषं पुराणं ववन्दिरे ब्रह्मविदां वरिष्ठाः ॥ ७२॥ एतत्पुण्यं यदुश्रेष्ठ नराणां पापकर्मिणाम् । दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते ॥ ७३॥ भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः । तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम् । विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥ ७४॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गजेन्द्रमोक्षणं नाम चतुर्नवत्यधिकशततमोऽध्यायः ॥ १.१९४॥
% Text title            : Gajendramokshanah from Vishnudharmottarapurana
% File name             : gajendramokShaNaH_viShNudharmottara.itx
% itxtitle              : gajendramokShaNaH (viShNudharmottarapurANAntargataH)
% engtitle              : gajendramokShaNaH from viShNudharmottarapurANa
% Category              : vishhnu, stotra, vishnu, viShNudharmottarapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : viShNudharmottarapurANa | adhyAya 194/1-74|| stuti 29-48
% Indexextra            : (Text, Scans 1, 2, Wiki 1, 2, Videos 1, 2, 3, 4, 5, 6)
% Latest update         : September 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org