गौरमुखकृतं विष्णुस्तोत्रम्
गौरमुख उवाच ।
स्तोष्ये महेन्द्रं रिपुदर्पहं शिवं नारायणं ब्रह्मविदां प्रतिष्ठितम् ।
आदित्यचन्द्राश्वियुगस्थमाद्यं पुरातनं दैत्यहरं सदा हरिम् ॥ ९॥
चकार मात्स्यं वपुरात्मनो यः पुराकृतं वेदविनाशकाले ।
महामहीधृग्वपुरग्रपुच्छच्छटाहवार्च्चिः सुरशत्रुहाऽऽद्यः ॥ १०॥
तथाब्धिमन्थानकृते गिरीन्द्रं दधार यः कौर्म्मवपुः पुराणम् ।
हितेच्छया यः पुरुषः पुराणः प्रपातु मां दैत्यहरः सुरेशः ॥ ११॥
महावराहः सततं पृथिव्यास्तलात्तलं प्राविशद्यो महात्मा ।
यज्ञाङ्गसंज्ञः सुरसिद्धवन्द्यः स पातु मां दैत्यहरः पुराणः ॥ १२॥
नृसिंहरूपी च भवत्यजस्रं युगे युगे योगिवरोग्रभीमः ।
करालवक्त्रः कनकाग्रवर्चा रत्नाशयोऽस्मानसुरान्तकोऽव्यात् ॥ १३॥
बलेर्मखध्वंसकृते महात्मा स्वां गूढतां योगवपुःस्वरूपः ।
स दण्डकाष्ठाजिनलक्षणः पुनः क्षितिं पदाऽऽक्रान्तवान् यः स पातु ॥ १४॥
त्रिःसप्तकृत्वो जगतीं जिगाय जित्वा ददौ कश्यपाय प्रचण्डः ।
स जामदग्न्योऽभिजनस्य गोप्ता हिरण्यगर्भोऽसुरहा प्रपातु ॥ १५॥
चतुःप्रकारं च वपुर्य आद्यं हैरण्यगर्भप्रतिमानलक्ष्यम् ।
रामादिरूपैर्बहुरूपभेदश्चकार सोऽस्मानसुरान्तकोऽव्यात् ॥ १६॥
चाणूरकंसासुरदर्पभीतेर्भीतामराणामभयाय देवः ।
युगे युगे वासुदेवो बभूव कल्पे भवत्यद्भुतरूपकारी ।
युगे युगे कल्किनाम्ना महात्मा वर्णस्थितिं कर्त्तुमनेकमूर्त्तिः ॥ १७॥
सनातनो ब्रह्ममयः पुराणो न यस्य रूपं सुरसिद्धदैत्याः ।
पश्यन्ति विज्ञानगतिं विहाय अथोऽप्यनेकानि समर्च्वयन्ति ।
मत्स्यादिरूपाणि चराणि सोऽव्यात् ॥ १८॥
नमो नमस्ते पुरुषोत्तमाय पुनश्च भूयोऽपि नमो नमस्ते ।
नमः पुरस्तादथ पृष्ठतस्ते नयस्व मां मुक्तिपदं नमस्ते ॥ १९॥
एवं नमस्यतस्तस्य महर्षेर्भावितात्मनः ।
प्रत्यक्षतां गतो देवः स्वयं चक्रगदाधरः ॥ २०॥
तं दृष्ट्वा तस्य विज्ञानं निस्तरङ्गं स्वदेहतः ।
उत्तस्थौ सोऽपि तं लब्ध्वा तस्मिन् ब्रह्मणि शाश्वते ।
लयं जगाम देवात्मा त्वपुनर्भवसंज्ञिते ॥ २१॥
इति श्रीवराहपुराणे पञ्चदशाध्यायान्तर्गतं
गौरमुखकृतं विष्णुस्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय १५/९-१९॥
varAhapurANa . adhyAya 15/9-19..
Proofread by PSA Easwaran