घटिकाद्रिनाथशतकम्

घटिकाद्रिनाथशतकम्

श्रीवेङ्कटार्यचरणौ शिरसि करोमि स्मिताब्जसुहृदौ तौ । पृथुतरमपि भवजलधिं पिबतितरां यत्परागपरमाणुः ॥ व्यत्यस्तचरणकमलां विनिहितभुजयुगलमित्रजानुयुगाम् । विलसितरथाङ्गशङ्खां व्यक्तिमुपासे विरुद्धजातिमतीम् ॥ १॥ श्रितघटिकाचलश‍ृङ्गं शीतलकरुणातरङ्गितापाङ्गम् । मनसि ममोल्लसदङ्गं वस्तु महः किमपि वाससा पिङ्गम् ॥ २॥ कलितदनुतनयभङ्गं करकमलाभरणवारिजरथाङ्गम् । कृतघटिकाचलसङ्गं किमपि महो जयति केतनविहङ्गम् ॥ ३॥ सर्वरसगन्धभरितं सङ्गतमेकमपि सकलशाखासु । अमृतफलमखिलपुंसामास्वाद्यं चित्रमस्ति घटिकाद्रौ ॥ ४॥ आरण्यकाप्तवाक्यैरवगम्यो ग्राम्यजनदृशामपदम् । स्फुरति घटिकाचलाग्रे पुरुषमृगः कोऽपि पुण्यकृदुपेयः ॥ ५॥ महति घटिकाद्रिविषये महता स्नेहेन निर्मलदशायाम् । देदीप्यते स्थिरोऽयं दिव्यैर्मुनिभिः प्रवर्तितो दीपः ॥ ६॥ मुष्णंस्तमो जनानां मूर्धनि घटिकाचलस्य सम्भूतः । आलोकतोऽखिलार्थानधिगमयति नित्यमच्युतो दीपः ॥ ७॥ रस्यं सकृदुपसेव्यं लभ्यमपथ्यसहमसहितममोघम् । त्वरितं हरति भवार्तिं शुद्धं घटिकाद्रिमौलिजं मूलम् ॥ ८॥ स्थिरशोकशल्यहरणं जगतां विच्छिन्नकुशलसन्धानम् । सञ्जीवनमपि घटिकाशैलजमूलं करोति सारूप्यम् ॥ ९॥ अतिबलभवाहिदष्टानमिलाषविषाग्निमूर्च्छनानष्टान् । घटिकाशिखरिनरेन्द्रो घटयत्यसुभिः कटाक्षमात्रेण ॥ १०॥ चोरं स्वतश्च्युतं मां स्वामी घटिकाद्रिपो विचिन्वानः । दृष्ट्वा कुतोऽप्युपायाद् दृप्तमबध्नाद् दयागुणेन दृढम् ॥ ११॥ विमलकविसेव्यमाना विलसति सन्निहितशङ्खचक्राब्जा । कापि घटिकाद्रिशिखरे करुणारसपूरनिर्भरा सरसी ॥ १२॥ निर्मुक्तभोगशुद्धान् नित्यमहीनान् वहन् निजासक्तान् । भाति घटिकाद्रिशिखरे भद्रश्रीः कोऽपि परिमलः शाखी ॥ १३॥ करुणामृतरसवर्षैर्घटिकाचलघटितकालमेघ निजैः । संसरणतरणितप्तं सञ्जीवय विनतसस्यजालमिदम् ॥ १४॥ विमलतरभक्तिपूरे व्यपगतपङ्के विकस्वराम्बुरुहे । मानससरसि मुनीनां रमते घटिकाद्विराजहंस भवान् ॥ १५॥ स्तम्भो हि विघ्नकारी सन्दृष्टो जगति सर्वकार्येषु । दानवविदारणे ते तस्यैव हरे कथं नु साचिव्यम् ॥ १६॥ देवत्वमागमान्ते सिद्धं तिर्यक्त्वमपि नरत्वेन । सह दृष्टमद्य घटिङ्कास्थावरसर्वात्मकस्य किमयुक्तम् ॥ १७॥ पञ्चास्य एव हि त्वं प्रथितो भगवन् कथं सहस्रास्यः । घटिकाद्रिपक्षपातिन् ख्यातोऽसि कथं नु विश्वसाक्षीति ॥ १८॥ बहुदेशमल्पदेशादपि सिंहत्वादधःस्थितं पुंस्त्वम् । मूर्तौ तवात्र नृहरे मुख्यः को वावमन्यतेऽन्येन ॥ १९॥ पुंसूक्तपूर्वकैस्तैः पुरुषत्वं मुख्यमेव ते विदितम् । कथमियममुख्यतास्मिन् घटते घटिकाद्रिमनुजमृगराज ॥ २०॥ विदधति न भाग्यलक्ष्मीविरहविलासात्तविकृतयो मनुजाः । श्रवणामृतेषु घटिकाशैलवनप्रिय वचःसु ते श्रद्धाम् ॥ २१॥ कार्यं हिरण्यहरणं घटिकाचललुब्ध कंसमुख्यहरणं वा । अहरस्त्वमाश्रितानां हन्त किमखिलान्यनर्थजातानि ॥ २२॥ दोषा ममान्तरहिताः स्वामिन् घटिकेन्द्र तावकाश्च गुणाः । तदपि गुणैस्त्वदुपघ्नैः स्थाने हीनाश्रिता जिता दोषाः ॥ २३॥ पादाम्बुजेन लसता प्रसृमरमधुना परार्ध्यगन्धेन । श्रयतां शमयसि घटिकाशैलप विपरीतवासनाः सकलाः ॥ २४॥ प्रगुणा परं प्रसादं प्राप्ता निपुणेन पदविदा ग्रथिता । सुतरां त्वयैव घटिकानायक शोभेत सूक्तिहारलता ॥ २५॥ सरससुमनोऽभिरामा साधु च संस्कारसम्भृतोल्लासा । समुपैति सूक्तिलतिका सङ्गादमृतफल तव हि साफल्यम् ॥ २६॥ सत्पक्षपातसुभगं सन्मानसरसिकमम्बुजासक्तम् । भुवनाश्रयं विशुद्धं बुध्ये घटिकावनौकसं हंसम् ॥ २७॥ सुमनोरसकृतसङ्गं (स्व) स्मरणविशेषेण तोषितानङ्गम् । कमलालयान्तरङ्गं कलये घटिकाद्रिकल्पतरुभृङ्गम् ॥ २८॥ दुर्गतिदुःखितचित्तान् दुष्करयोगान् विमुच्य सुखसेव्याम् । प्राज्ञाः प्रयान्ति नित्यां निभृतिं घठिकाद्रिभूपमालम्ब्य ॥ २९॥ कलयन्ति नैव सन्तः कापुरुषद्वारि वारणाकदनम् । घटिकाशिखरिमुकुन्दं कमपि निधिं सुलभमनवधिं लब्ध्वा ॥ ३०॥ मकरमयकूर्मरूपं वरशङ्खं पद्ममपि महापद्मम् । कुन्दमसितं मुकुन्दं को वा घटिकाद्रिनवनिधिं न भजेत् ॥ ३१॥ काञ्चनमये स्फुरन्तं कञ्चन घटिकामहीभृतः कटके । कृष्णमणिमर्घरहितं के वा न विदन्ति कृत्स्नतः श्लाघ्यम् ॥ ३२॥ संसरणसरणिपान्थास्तापत्रयतरणिकिरणसन्तप्ताः । आश्वसिता घटिकाद्रौ हरिचन्दनमेत्य शीतलच्छायम् ॥ ३३॥ मुक्तं निरञ्जनबद्धं मूलं जगतां फलं च घटिकाद्रौ । आकलयताद्भुतं महदाकण्ठं मनुजमानने सिंहम् ॥ ३४॥ पश्यन्ति नयनहरिणाः स्पष्टं घटिकाद्रिलुब्धकं यावत् । परिसरचरैस्तु तावत् पातकपतगैः पलायितं क्वापि ॥ ३५॥ विमलमणिहेमकटकं विकसितवनमालमुल्लसन्मौलिम् । घटिकाद्रिसुहृदमीडे काञ्चनपीतांशुकावृतं प्रांशुम् ॥ ३६॥ सद्भिः परिगतममलैः संश्रितसर्वसहं हिरण्यकृतम् । घटिकाद्रिपं सुमेरुं कलये सर्वोत्तरं सुरैः सेव्यम् ॥ ३७॥ सरसमविप्लुतवेलं सम्भृतमणिराजसरसिजाशङ्खम् । गम्भीरममितममलं गाहे घटिकाचलेशकलशाब्धिम् ॥ ३८॥ विगतत्तमोग्रहमचलं वृद्धिक्षयरहितमनुदयास्तमयम् । विकसितमानसकमलं वीक्षे घटिकाद्रिविधुमहो विमलम् ॥ ३९॥ निरवधिकनित्यमहसा निर्मलमुक्तानुबन्धसुभगेन । घटिकाद्रिमकुटभाजा मणिना मम मनसि वारितं तिमिरम् ॥ ४०॥ अविरलविसृमरसृणिना हरिमणिना सततमाहितौज्ज्वल्यः । घनकनककल्पितोऽयं कटको घटिकामहीभृतो भाति ॥ ४१॥ सुमनोभृतेन मधुना सुतरां मधुरेण शुद्धिगुणभाजा । मम घटिकाचलजनुषा मानसनामा समुत्सुको भृङ्गः ॥ ४२॥ अणुतरमपि स्वमन्यानर्पयतः सततमाप्तुकामेन । घटिकाचलप्रणयिना विपुलं विहितं हिरण्यदानमहो ॥ ४३॥ अननुगुणविषयवीक्षामनिदम्प्रथमां सरस्वतीं मुक्त्वा । घटिकाचलप्रणयिना घटयति दृष्टिं घनानुरागमयीम् ॥ ४४॥ दृश्येन दैवयोगाद् दीव्यन्महसाञ्जनाद्यतीतेन । साधयति सिद्धिमखिलां सङ्गो घटिकाद्रियोगिपुरुषेण ॥ ४५॥ प्रबलैर्ममेन्द्रियाश्चैः परितुष्टो विषमविषयकान्तारे । पदवीं मनोरथाग्र्यां प्राप्तो घटिकाद्रिपार्थसारथिना ॥ ४६॥ अतिवेलविलसिन्तोर्मेरवगाहवतामधोगमनहेतोः । प्राप्तोऽस्मि भवपयोधेः पारं घटिकानियामकेनाहम् ॥ ४७॥ घटिका यदि गुणघटिता घटिकाचलचक्रिकल्पिता न स्युः । भवकूपतो जलानां भव्यः को वा समुद्धरणहेतुः ॥ ४८॥ कलयन्ति ये स्वयात्रां घटिकाचलवैद्यकल्पितेन पथा । भवरोगतोऽचिरात् ते मुक्ताः स्नानं चरन्ति विरजायाम् ॥ ४९॥ ददतो जगत्युदारान् स्वापेक्षितमर्थमर्थिनः प्राहुः । आददतः पुनरर्थानुक्ता घटिकाचलार्थिनोदाराः ॥ ५०॥ दाता हि लौकिकोऽर्थान् स्वव्यतिरिक्तान् ददाति नात्मानम् । स्वोऽपि स्वसंश्रितेभ्यो दत्तो घटिकाद्रिनृहरिणा दात्रा ॥ ५१॥ हिंसितदानवकरिणे हृदयगुहाविहितबहुविहाराय । विक्रमवते सपर्यां विदधे घटिकाद्रिवीरसिंहाय ॥ ५२॥ श्रुतिपारगाय विद्यासूतिगृहाय स्वधर्मनिरताय । स्वस्वोचितं प्रदानं सुधियां घटिकाद्रिभूमिदेवाय ॥ ५३॥ महनीयवृत्तवर्णा महितान्वयवत्यलङ्कृता कृतिना । सूक्तिसुतनुः प्रदेया शुद्धा घटिकाद्रिसुरवराय शुभा ॥ ५४॥ गां यो ददाति सार्थां गलदमितप्रेमधारया सहिताम् । घटिकाचलप्रणयिने घटते किं तस्य काङ्क्षितं नालम् ॥ ५५॥ कलुषापि घटकवाक्यैः क्षालितवैमुख्यकल्मषा धिषणा । पृथुगुणभृते मदीया स्पृहयति घटिकाचलप्रियाय भृशम् ॥ ५६॥ अन्विच्छतान्यमथवा तृष्णीमाध्वं सुरर्षिपितृमुख्याः । तत्किङ्करोऽर्पितोऽहं तज्ज्ञैर्घटिकाद्रिभृभुजे सचिवैः ॥ ५७॥ क्रुध्यन्त्यनर्थकं ये गोप्त्रे घटिकामहीभृतो हरये । मन्ये मन्दधियस्तान् मातङ्गानेव मदजुषः कलुषान् ॥ ५८॥ दुष्टान् निगृह्य तरसा शिष्टानखिलांश्चिरेण पालयते । स्वस्ति सुहृदे गुणानां भूत्यै घटिकाद्रिभूभुजे भूयात् ॥ ५९॥ मृदुलं भवाग्निपाकाद् व्याप्तं गुणतो विशुद्धमहमन्नम् । भोज्यं समर्पये स्वं भोक्त्रे घटिङ्काचलस्य सुस्नेहम् ॥ ६०॥ नित्यश्रिये गुणानां निधये निष्ठ्यूतनिखिलदोषाय । प्रज्ञार्पिता मयैषा भर्त्रे घटिकाचलस्य भाग्यवशात् ॥ ६१॥ पात्रे समाश्रितानां शास्त्रे सत्पुरुप विद्विषां सततम् । दात्रे सकलफलानां नेत्रे जगतां नमो नृसिंहाय ॥ ६२॥ सुमनःसमूहभव्याच्छुकमुखसेव्यात् सुशीतलच्छायात् । घटिकाद्रितटविरूढात् कल्पतरोः कस्य काङ्क्षितं न फलम् ॥ ६३॥ अविरतहितप्रवृत्तेरापदि सहितादकृत्रिमस्नेहात् । मम घटिकाचलबन्धोर्मान्यादन्येन केन किं कार्यम् ॥ ६४॥ घनकरुणामृतपूरैर्घटिकाचलकृष्णमेघतो जनितैः । पापाटवी प्रदग्धा भजते चित्रं भवाम्बुधिः शोषम् ॥ ६५॥ गोभिः प्रकाशितार्थाद् गोप्तुर्घटिकाभिधानवाद्र्युदितात् । जागर्ति सततनिद्रं सवितुर्जगतां मनःसरोजं मे ॥ ६६॥ रुष्टेन येन रौद्रो रुग्णो धरणिं जगाम शरभोऽपि । स न दुरितदन्तिनोऽस्माद् घटिकाद्रिहरेः कथं न बिभ्यति मे ॥ ६७॥ अव्याहतप्रचारादवमतमन्त्रौषधात् सहस्रास्यात् । पातकमूषकनिवहात् पायात् घटिकाद्रिभोगिनः को वा ॥ ६८॥ कलितपुरुषार्थसार्थाद् घटिकाघटितात् सनातनाद् धर्मात् । किं वा प्रमाद्यतां स्यात् क्षेमं ह्यत्राप्यमुत्र वा पुंसाम् ॥ ६९॥ घनसमयनिर्व्यपेक्षाद् घटिकाचलभूमिभर्तुरुद्भ्रूता । क्षालयति कलुषमलिनं काचन करुणातरङ्गिणी भुवनम् ॥ ७०॥ सन्निहितशङ्खपद्मात् सर्वसखात् सकलपुण्यजनसेव्यात् । घटिकाद्रिराजराजात् का वा न स्यात् समाश्रिता सम्पत् ॥ ७१॥ वृजिनविषानलमूर्च्छाविमुषितचित्तान् भवोरगग्रस्तान् । कुर्वीत लब्धसत्तान् को वा घटिकाद्रिगारुडिकतोऽन्यः ॥ ७२॥ नित्यान्निरस्तदोषान्नियतपदात् पुण्यकीर्तनश्रवणात् । विनतोचित्ताभिधानाद् ब्रह्मण एवाधिगम्यते सकलम् ॥ ७३॥ शुद्धिमुपजनयतोऽग्र्यां स्वालोकेनैव चक्षुषो जगताम् । घटिकाद्रिमित्रतोऽन्यं कलयेऽखिललोकबान्धवं नाहम् ॥ ७४॥ अमृतप्रवाहसहजैरालोकैरमलशीतलैः स्नपिताः । विविधान् भवदवदाहान् विजहति घटिकाद्रिविलसितस्य विधोः ॥ ७५॥ धर्मोत्तरं द्विपाद्रेः शङ्के घटिकाद्रिमत्र न विवादः । केनाङ्ग्यकारि नास्मिन् कृष्णमृगस्यास्य नियतसंवासः ॥ ७६॥ अमृतार्पणं श्रितानामभिदुररसनत्वमार्जवं गमने । कथमिव च गरुडसख्यं घटिकाचलकृष्णभोगिनो घटते ॥ ७७॥ आगःसु संश्रितानामनभिज्ञस्यात्मसाम्यदस्याहम् । नियमेन सेवकः स्यां नित्यं घटिकाद्रिभूमिपालस्य ॥ ७८॥ सत्त्वोत्तरस्य दानं सद्भ्यो घटिकाद्रिभूभृतो युक्तम् । सुतरां पापरतानां युज्येत कथं सुरद्विषां दानम् ॥ ७९॥ घटिकाद्रिकामसुरभेः काङ्क्षापदसकलफलदुहो जगताम् । मातुर्गवां मयि स्याद् वत्से बहुलं कथं न वात्सल्यम् ॥ ८०॥ हन्त न जहत्यमोघामाशिषमायुः श्रियं प्रयुञ्जानाः । घटिकाचलहरिचन्दनपार्श्वमहीनाः सुपावनाहाराः ॥ ८१॥ सदमृतफलस्य घटिकाशैलगसालस्य सविधगस्यापि । शब्दादिनिम्बसेवां सन्त्यजतिं न हन्तु हृदयकामो ॥ ८२॥ अमलानुरागसलिलैरभिलाषमलान्यपोह्य सकलानि । कुसुमैरहिंसनाद्यैः कुर्यां घटिकाद्विदैवतस्यार्चाम् ॥ ८३॥ धनदाद्यैरपि न परैः साध्यं सुमहद्धिरण्यदानं तत् । सुकरेण कृतवतः स्यात् तुल्यो घटिकाद्रिभूभृतः को वा ॥ ८४॥ जनयत्यवति च सकलांज्ञापयति यो हिताहिते शास्त्रात् । साम्ये तु तस्य को वा ज्ञानी घटिकाद्रिसर्वजनकस्य ॥ ८५॥ दोषाकरे विरागं सूर्यालोके विकासमामोदम् । पद्माख्यामपि वहतो युक्तं घटिकाद्रिपस्य केसरिता ॥ ८६॥ तन्त्री मयाद्य लब्धा तपसा विपुलेन भक्तिकन्येयम् । भजतामव्यभिचारं भावं घटिकाद्रिमर्तरि प्रौढा ॥ ८७॥ भास्वति सुरासुरगुरौ भोगिनि व न्दारुसौम्यमन्दारे । घटताममायघटिते घटिकाद्विविधौ कथं ग्रहैः पीडा ॥ ८८॥ समवर्तिनि भुवनेशे पुण्यजने पावके जगत्प्राणे । श्रीदे शिवेऽपि घटिकाशैलहरौ सति किमन्यदिक्पालैः ॥ ८९॥ यस्योदयः परार्थो यस्यालोकेन यात्यघं विलयम् । काले च बोधयति यो घटिकामित्रेऽत्र को विरागी स्यात् ॥ ९०॥ सरसे जाग्रति घटिकाशैलगते सरसिजालये मोहात् । विरसेषु चित्तनामा विषयक्षरकेषु विभ्रमति भृङ्गः ॥ ९१॥ बिभ्रति सदैव लक्ष्मीं विभ्राम्यति मित्रमण्डले विदुषाम् । घटिकाद्विसार्वभौमे घटते किं वा न संश्रिताभिमतम् ॥ ९२॥ श्रितघटिकाचलशिखरे स्थिरकरुणापूरनिर्भरे शिशिरे । दीव्यन्ति विमलपक्षा दिव्ये कमलालये चिरं हंसाः ॥ ९३॥ विहरति बहुगुणजाले वीरे घटिकाद्रिकृष्णवर्त्मनिभे । विजहति समस्ततापान् विजयन्ते मृत्युमपि विमोहमहो ॥ ९४॥ कनकमयकटकशोभां कलयति घटिकामहीभृतो रुचिरे । दीप्तिमति कृष्णरत्ने दृष्टे त्रासलवमनुभवेत् को वा ॥ ९५॥ सप्तर्षिसेव्यमाने सन्ततसुमनस्कृते सहस्राक्षे । रमतां मनो हरौ मे राजति घटिकाद्रिरत्नसानुतटे ॥ ९६॥ पादस्पर्शनविभवात् पावितभुवने प्रबोधितात्मणे । भजति घटिकाद्रिमित्रे भगवति भावं मनःसरोजं मे ॥ ९७॥ तुष्टेऽल्पतः सुशीले सुगुणगृहीते सुलक्षणे सुदृढे । आरोपितो मदीयो भद्रे घटिकाद्रिघूर्वहे भारः ॥ ९८॥ अननुगुणामपि वाणीमागःसन्दोहमन्दमतिकलिताम् । अङ्गीकरोतु भगवानाश्रितदोषावलोकनाकल्यः ॥ ९९॥ स्वामिन एव कृतिर्मे सूक्तिस्तोषाय तदपि तस्यैषा । स्वोक्तमनुवदति बाले सुतरां तातो हि तोषमुपयाति ॥ १००॥ भक्तोचितोपयुक्तां भक्त्या सौम्यवरकिङ्करोपहृताम् । अमृतफलावलिमनघां मृदुलामास्वाद्य मृत्युमतियन्ति ॥ १०१॥ इति श्रीघटिकाद्रिनाथशतकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (५७) The Ghatikddrindihashataka (57) is a eulogy in Arya metre on God Nrsimha at Ghatikacala or Sholinghur (on the upper hill) in North Arcot District. The author must have been a Srivaisnava; he pays obeisance to one Venkatacarya in the opening verse and .calls himself a devotee of Saumyavara (Manavalamamuni) in the concluding verse of the Stotra. Proofread by Rajesh Thyagarajan
% Text title            : Ghatikadrinatha Shatakam
% File name             : ghaTikAdrinAthashatakam.itx
% itxtitle              : ghaTikAdrinAthashatakam
% engtitle              : ghaTikAdrinAthashatakam
% Category              : vishhnu, shataka, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org