घटिकाद्रिनाथशतकम्
श्रीवेङ्कटार्यचरणौ शिरसि करोमि स्मिताब्जसुहृदौ तौ ।
पृथुतरमपि भवजलधिं पिबतितरां यत्परागपरमाणुः ॥
व्यत्यस्तचरणकमलां विनिहितभुजयुगलमित्रजानुयुगाम् ।
विलसितरथाङ्गशङ्खां व्यक्तिमुपासे विरुद्धजातिमतीम् ॥ १॥
श्रितघटिकाचलशृङ्गं शीतलकरुणातरङ्गितापाङ्गम् ।
मनसि ममोल्लसदङ्गं वस्तु महः किमपि वाससा पिङ्गम् ॥ २॥
कलितदनुतनयभङ्गं करकमलाभरणवारिजरथाङ्गम् ।
कृतघटिकाचलसङ्गं किमपि महो जयति केतनविहङ्गम् ॥ ३॥
सर्वरसगन्धभरितं सङ्गतमेकमपि सकलशाखासु ।
अमृतफलमखिलपुंसामास्वाद्यं चित्रमस्ति घटिकाद्रौ ॥ ४॥
आरण्यकाप्तवाक्यैरवगम्यो ग्राम्यजनदृशामपदम् ।
स्फुरति घटिकाचलाग्रे पुरुषमृगः कोऽपि पुण्यकृदुपेयः ॥ ५॥
महति घटिकाद्रिविषये महता स्नेहेन निर्मलदशायाम् ।
देदीप्यते स्थिरोऽयं दिव्यैर्मुनिभिः प्रवर्तितो दीपः ॥ ६॥
मुष्णंस्तमो जनानां मूर्धनि घटिकाचलस्य सम्भूतः ।
आलोकतोऽखिलार्थानधिगमयति नित्यमच्युतो दीपः ॥ ७॥
रस्यं सकृदुपसेव्यं लभ्यमपथ्यसहमसहितममोघम् ।
त्वरितं हरति भवार्तिं शुद्धं घटिकाद्रिमौलिजं मूलम् ॥ ८॥
स्थिरशोकशल्यहरणं जगतां विच्छिन्नकुशलसन्धानम् ।
सञ्जीवनमपि घटिकाशैलजमूलं करोति सारूप्यम् ॥ ९॥
अतिबलभवाहिदष्टानमिलाषविषाग्निमूर्च्छनानष्टान् ।
घटिकाशिखरिनरेन्द्रो घटयत्यसुभिः कटाक्षमात्रेण ॥ १०॥
चोरं स्वतश्च्युतं मां स्वामी घटिकाद्रिपो विचिन्वानः ।
दृष्ट्वा कुतोऽप्युपायाद् दृप्तमबध्नाद् दयागुणेन दृढम् ॥ ११॥
विमलकविसेव्यमाना विलसति सन्निहितशङ्खचक्राब्जा ।
कापि घटिकाद्रिशिखरे करुणारसपूरनिर्भरा सरसी ॥ १२॥
निर्मुक्तभोगशुद्धान् नित्यमहीनान् वहन् निजासक्तान् ।
भाति घटिकाद्रिशिखरे भद्रश्रीः कोऽपि परिमलः शाखी ॥ १३॥
करुणामृतरसवर्षैर्घटिकाचलघटितकालमेघ निजैः ।
संसरणतरणितप्तं सञ्जीवय विनतसस्यजालमिदम् ॥ १४॥
विमलतरभक्तिपूरे व्यपगतपङ्के विकस्वराम्बुरुहे ।
मानससरसि मुनीनां रमते घटिकाद्विराजहंस भवान् ॥ १५॥
स्तम्भो हि विघ्नकारी सन्दृष्टो जगति सर्वकार्येषु ।
दानवविदारणे ते तस्यैव हरे कथं नु साचिव्यम् ॥ १६॥
देवत्वमागमान्ते सिद्धं तिर्यक्त्वमपि नरत्वेन ।
सह दृष्टमद्य घटिङ्कास्थावरसर्वात्मकस्य किमयुक्तम् ॥ १७॥
पञ्चास्य एव हि त्वं प्रथितो भगवन् कथं सहस्रास्यः ।
घटिकाद्रिपक्षपातिन् ख्यातोऽसि कथं नु विश्वसाक्षीति ॥ १८॥
बहुदेशमल्पदेशादपि सिंहत्वादधःस्थितं पुंस्त्वम् ।
मूर्तौ तवात्र नृहरे मुख्यः को वावमन्यतेऽन्येन ॥ १९॥
पुंसूक्तपूर्वकैस्तैः पुरुषत्वं मुख्यमेव ते विदितम् ।
कथमियममुख्यतास्मिन् घटते घटिकाद्रिमनुजमृगराज ॥ २०॥
विदधति न भाग्यलक्ष्मीविरहविलासात्तविकृतयो मनुजाः ।
श्रवणामृतेषु घटिकाशैलवनप्रिय वचःसु ते श्रद्धाम् ॥ २१॥
कार्यं हिरण्यहरणं घटिकाचललुब्ध कंसमुख्यहरणं वा ।
अहरस्त्वमाश्रितानां हन्त किमखिलान्यनर्थजातानि ॥ २२॥
दोषा ममान्तरहिताः स्वामिन् घटिकेन्द्र तावकाश्च गुणाः ।
तदपि गुणैस्त्वदुपघ्नैः स्थाने हीनाश्रिता जिता दोषाः ॥ २३॥
पादाम्बुजेन लसता प्रसृमरमधुना परार्ध्यगन्धेन ।
श्रयतां शमयसि घटिकाशैलप विपरीतवासनाः सकलाः ॥ २४॥
प्रगुणा परं प्रसादं प्राप्ता निपुणेन पदविदा ग्रथिता ।
सुतरां त्वयैव घटिकानायक शोभेत सूक्तिहारलता ॥ २५॥
सरससुमनोऽभिरामा साधु च संस्कारसम्भृतोल्लासा ।
समुपैति सूक्तिलतिका सङ्गादमृतफल तव हि साफल्यम् ॥ २६॥
सत्पक्षपातसुभगं सन्मानसरसिकमम्बुजासक्तम् ।
भुवनाश्रयं विशुद्धं बुध्ये घटिकावनौकसं हंसम् ॥ २७॥
सुमनोरसकृतसङ्गं (स्व) स्मरणविशेषेण तोषितानङ्गम् ।
कमलालयान्तरङ्गं कलये घटिकाद्रिकल्पतरुभृङ्गम् ॥ २८॥
दुर्गतिदुःखितचित्तान् दुष्करयोगान् विमुच्य सुखसेव्याम् ।
प्राज्ञाः प्रयान्ति नित्यां निभृतिं घठिकाद्रिभूपमालम्ब्य ॥ २९॥
कलयन्ति नैव सन्तः कापुरुषद्वारि वारणाकदनम् ।
घटिकाशिखरिमुकुन्दं कमपि निधिं सुलभमनवधिं लब्ध्वा ॥ ३०॥
मकरमयकूर्मरूपं वरशङ्खं पद्ममपि महापद्मम् ।
कुन्दमसितं मुकुन्दं को वा घटिकाद्रिनवनिधिं न भजेत् ॥ ३१॥
काञ्चनमये स्फुरन्तं कञ्चन घटिकामहीभृतः कटके ।
कृष्णमणिमर्घरहितं के वा न विदन्ति कृत्स्नतः श्लाघ्यम् ॥ ३२॥
संसरणसरणिपान्थास्तापत्रयतरणिकिरणसन्तप्ताः ।
आश्वसिता घटिकाद्रौ हरिचन्दनमेत्य शीतलच्छायम् ॥ ३३॥
मुक्तं निरञ्जनबद्धं मूलं जगतां फलं च घटिकाद्रौ ।
आकलयताद्भुतं महदाकण्ठं मनुजमानने सिंहम् ॥ ३४॥
पश्यन्ति नयनहरिणाः स्पष्टं घटिकाद्रिलुब्धकं यावत् ।
परिसरचरैस्तु तावत् पातकपतगैः पलायितं क्वापि ॥ ३५॥
विमलमणिहेमकटकं विकसितवनमालमुल्लसन्मौलिम् ।
घटिकाद्रिसुहृदमीडे काञ्चनपीतांशुकावृतं प्रांशुम् ॥ ३६॥
सद्भिः परिगतममलैः संश्रितसर्वसहं हिरण्यकृतम् ।
घटिकाद्रिपं सुमेरुं कलये सर्वोत्तरं सुरैः सेव्यम् ॥ ३७॥
सरसमविप्लुतवेलं सम्भृतमणिराजसरसिजाशङ्खम् ।
गम्भीरममितममलं गाहे घटिकाचलेशकलशाब्धिम् ॥ ३८॥
विगतत्तमोग्रहमचलं वृद्धिक्षयरहितमनुदयास्तमयम् ।
विकसितमानसकमलं वीक्षे घटिकाद्रिविधुमहो विमलम् ॥ ३९॥
निरवधिकनित्यमहसा निर्मलमुक्तानुबन्धसुभगेन ।
घटिकाद्रिमकुटभाजा मणिना मम मनसि वारितं तिमिरम् ॥ ४०॥
अविरलविसृमरसृणिना हरिमणिना सततमाहितौज्ज्वल्यः ।
घनकनककल्पितोऽयं कटको घटिकामहीभृतो भाति ॥ ४१॥
सुमनोभृतेन मधुना सुतरां मधुरेण शुद्धिगुणभाजा ।
मम घटिकाचलजनुषा मानसनामा समुत्सुको भृङ्गः ॥ ४२॥
अणुतरमपि स्वमन्यानर्पयतः सततमाप्तुकामेन ।
घटिकाचलप्रणयिना विपुलं विहितं हिरण्यदानमहो ॥ ४३॥
अननुगुणविषयवीक्षामनिदम्प्रथमां सरस्वतीं मुक्त्वा ।
घटिकाचलप्रणयिना घटयति दृष्टिं घनानुरागमयीम् ॥ ४४॥
दृश्येन दैवयोगाद् दीव्यन्महसाञ्जनाद्यतीतेन ।
साधयति सिद्धिमखिलां सङ्गो घटिकाद्रियोगिपुरुषेण ॥ ४५॥
प्रबलैर्ममेन्द्रियाश्चैः परितुष्टो विषमविषयकान्तारे ।
पदवीं मनोरथाग्र्यां प्राप्तो घटिकाद्रिपार्थसारथिना ॥ ४६॥
अतिवेलविलसिन्तोर्मेरवगाहवतामधोगमनहेतोः ।
प्राप्तोऽस्मि भवपयोधेः पारं घटिकानियामकेनाहम् ॥ ४७॥
घटिका यदि गुणघटिता घटिकाचलचक्रिकल्पिता न स्युः ।
भवकूपतो जलानां भव्यः को वा समुद्धरणहेतुः ॥ ४८॥
कलयन्ति ये स्वयात्रां घटिकाचलवैद्यकल्पितेन पथा ।
भवरोगतोऽचिरात् ते मुक्ताः स्नानं चरन्ति विरजायाम् ॥ ४९॥
ददतो जगत्युदारान् स्वापेक्षितमर्थमर्थिनः प्राहुः ।
आददतः पुनरर्थानुक्ता घटिकाचलार्थिनोदाराः ॥ ५०॥
दाता हि लौकिकोऽर्थान् स्वव्यतिरिक्तान् ददाति नात्मानम् ।
स्वोऽपि स्वसंश्रितेभ्यो दत्तो घटिकाद्रिनृहरिणा दात्रा ॥ ५१॥
हिंसितदानवकरिणे हृदयगुहाविहितबहुविहाराय ।
विक्रमवते सपर्यां विदधे घटिकाद्रिवीरसिंहाय ॥ ५२॥
श्रुतिपारगाय विद्यासूतिगृहाय स्वधर्मनिरताय ।
स्वस्वोचितं प्रदानं सुधियां घटिकाद्रिभूमिदेवाय ॥ ५३॥
महनीयवृत्तवर्णा महितान्वयवत्यलङ्कृता कृतिना ।
सूक्तिसुतनुः प्रदेया शुद्धा घटिकाद्रिसुरवराय शुभा ॥ ५४॥
गां यो ददाति सार्थां गलदमितप्रेमधारया सहिताम् ।
घटिकाचलप्रणयिने घटते किं तस्य काङ्क्षितं नालम् ॥ ५५॥
कलुषापि घटकवाक्यैः क्षालितवैमुख्यकल्मषा धिषणा ।
पृथुगुणभृते मदीया स्पृहयति घटिकाचलप्रियाय भृशम् ॥ ५६॥
अन्विच्छतान्यमथवा तृष्णीमाध्वं सुरर्षिपितृमुख्याः ।
तत्किङ्करोऽर्पितोऽहं तज्ज्ञैर्घटिकाद्रिभृभुजे सचिवैः ॥ ५७॥
क्रुध्यन्त्यनर्थकं ये गोप्त्रे घटिकामहीभृतो हरये ।
मन्ये मन्दधियस्तान् मातङ्गानेव मदजुषः कलुषान् ॥ ५८॥
दुष्टान् निगृह्य तरसा शिष्टानखिलांश्चिरेण पालयते ।
स्वस्ति सुहृदे गुणानां भूत्यै घटिकाद्रिभूभुजे भूयात् ॥ ५९॥
मृदुलं भवाग्निपाकाद् व्याप्तं गुणतो विशुद्धमहमन्नम् ।
भोज्यं समर्पये स्वं भोक्त्रे घटिङ्काचलस्य सुस्नेहम् ॥ ६०॥
नित्यश्रिये गुणानां निधये निष्ठ्यूतनिखिलदोषाय ।
प्रज्ञार्पिता मयैषा भर्त्रे घटिकाचलस्य भाग्यवशात् ॥ ६१॥
पात्रे समाश्रितानां शास्त्रे सत्पुरुप विद्विषां सततम् ।
दात्रे सकलफलानां नेत्रे जगतां नमो नृसिंहाय ॥ ६२॥
सुमनःसमूहभव्याच्छुकमुखसेव्यात् सुशीतलच्छायात् ।
घटिकाद्रितटविरूढात् कल्पतरोः कस्य काङ्क्षितं न फलम् ॥ ६३॥
अविरतहितप्रवृत्तेरापदि सहितादकृत्रिमस्नेहात् ।
मम घटिकाचलबन्धोर्मान्यादन्येन केन किं कार्यम् ॥ ६४॥
घनकरुणामृतपूरैर्घटिकाचलकृष्णमेघतो जनितैः ।
पापाटवी प्रदग्धा भजते चित्रं भवाम्बुधिः शोषम् ॥ ६५॥
गोभिः प्रकाशितार्थाद् गोप्तुर्घटिकाभिधानवाद्र्युदितात् ।
जागर्ति सततनिद्रं सवितुर्जगतां मनःसरोजं मे ॥ ६६॥
रुष्टेन येन रौद्रो रुग्णो धरणिं जगाम शरभोऽपि ।
स न दुरितदन्तिनोऽस्माद् घटिकाद्रिहरेः कथं न बिभ्यति मे ॥ ६७॥
अव्याहतप्रचारादवमतमन्त्रौषधात् सहस्रास्यात् ।
पातकमूषकनिवहात् पायात् घटिकाद्रिभोगिनः को वा ॥ ६८॥
कलितपुरुषार्थसार्थाद् घटिकाघटितात् सनातनाद् धर्मात् ।
किं वा प्रमाद्यतां स्यात् क्षेमं ह्यत्राप्यमुत्र वा पुंसाम् ॥ ६९॥
घनसमयनिर्व्यपेक्षाद् घटिकाचलभूमिभर्तुरुद्भ्रूता ।
क्षालयति कलुषमलिनं काचन करुणातरङ्गिणी भुवनम् ॥ ७०॥
सन्निहितशङ्खपद्मात् सर्वसखात् सकलपुण्यजनसेव्यात् ।
घटिकाद्रिराजराजात् का वा न स्यात् समाश्रिता सम्पत् ॥ ७१॥
वृजिनविषानलमूर्च्छाविमुषितचित्तान् भवोरगग्रस्तान् ।
कुर्वीत लब्धसत्तान् को वा घटिकाद्रिगारुडिकतोऽन्यः ॥ ७२॥
नित्यान्निरस्तदोषान्नियतपदात् पुण्यकीर्तनश्रवणात् ।
विनतोचित्ताभिधानाद् ब्रह्मण एवाधिगम्यते सकलम् ॥ ७३॥
शुद्धिमुपजनयतोऽग्र्यां स्वालोकेनैव चक्षुषो जगताम् ।
घटिकाद्रिमित्रतोऽन्यं कलयेऽखिललोकबान्धवं नाहम् ॥ ७४॥
अमृतप्रवाहसहजैरालोकैरमलशीतलैः स्नपिताः ।
विविधान् भवदवदाहान् विजहति घटिकाद्रिविलसितस्य विधोः ॥ ७५॥
धर्मोत्तरं द्विपाद्रेः शङ्के घटिकाद्रिमत्र न विवादः ।
केनाङ्ग्यकारि नास्मिन् कृष्णमृगस्यास्य नियतसंवासः ॥ ७६॥
अमृतार्पणं श्रितानामभिदुररसनत्वमार्जवं गमने ।
कथमिव च गरुडसख्यं घटिकाचलकृष्णभोगिनो घटते ॥ ७७॥
आगःसु संश्रितानामनभिज्ञस्यात्मसाम्यदस्याहम् ।
नियमेन सेवकः स्यां नित्यं घटिकाद्रिभूमिपालस्य ॥ ७८॥
सत्त्वोत्तरस्य दानं सद्भ्यो घटिकाद्रिभूभृतो युक्तम् ।
सुतरां पापरतानां युज्येत कथं सुरद्विषां दानम् ॥ ७९॥
घटिकाद्रिकामसुरभेः काङ्क्षापदसकलफलदुहो जगताम् ।
मातुर्गवां मयि स्याद् वत्से बहुलं कथं न वात्सल्यम् ॥ ८०॥
हन्त न जहत्यमोघामाशिषमायुः श्रियं प्रयुञ्जानाः ।
घटिकाचलहरिचन्दनपार्श्वमहीनाः सुपावनाहाराः ॥ ८१॥
सदमृतफलस्य घटिकाशैलगसालस्य सविधगस्यापि ।
शब्दादिनिम्बसेवां सन्त्यजतिं न हन्तु हृदयकामो ॥ ८२॥
अमलानुरागसलिलैरभिलाषमलान्यपोह्य सकलानि ।
कुसुमैरहिंसनाद्यैः कुर्यां घटिकाद्विदैवतस्यार्चाम् ॥ ८३॥
धनदाद्यैरपि न परैः साध्यं सुमहद्धिरण्यदानं तत् ।
सुकरेण कृतवतः स्यात् तुल्यो घटिकाद्रिभूभृतः को वा ॥ ८४॥
जनयत्यवति च सकलांज्ञापयति यो हिताहिते शास्त्रात् ।
साम्ये तु तस्य को वा ज्ञानी घटिकाद्रिसर्वजनकस्य ॥ ८५॥
दोषाकरे विरागं सूर्यालोके विकासमामोदम् ।
पद्माख्यामपि वहतो युक्तं घटिकाद्रिपस्य केसरिता ॥ ८६॥
तन्त्री मयाद्य लब्धा तपसा विपुलेन भक्तिकन्येयम् ।
भजतामव्यभिचारं भावं घटिकाद्रिमर्तरि प्रौढा ॥ ८७॥
भास्वति सुरासुरगुरौ भोगिनि व न्दारुसौम्यमन्दारे ।
घटताममायघटिते घटिकाद्विविधौ कथं ग्रहैः पीडा ॥ ८८॥
समवर्तिनि भुवनेशे पुण्यजने पावके जगत्प्राणे ।
श्रीदे शिवेऽपि घटिकाशैलहरौ सति किमन्यदिक्पालैः ॥ ८९॥
यस्योदयः परार्थो यस्यालोकेन यात्यघं विलयम् ।
काले च बोधयति यो घटिकामित्रेऽत्र को विरागी स्यात् ॥ ९०॥
सरसे जाग्रति घटिकाशैलगते सरसिजालये मोहात् ।
विरसेषु चित्तनामा विषयक्षरकेषु विभ्रमति भृङ्गः ॥ ९१॥
बिभ्रति सदैव लक्ष्मीं विभ्राम्यति मित्रमण्डले विदुषाम् ।
घटिकाद्विसार्वभौमे घटते किं वा न संश्रिताभिमतम् ॥ ९२॥
श्रितघटिकाचलशिखरे स्थिरकरुणापूरनिर्भरे शिशिरे ।
दीव्यन्ति विमलपक्षा दिव्ये कमलालये चिरं हंसाः ॥ ९३॥
विहरति बहुगुणजाले वीरे घटिकाद्रिकृष्णवर्त्मनिभे ।
विजहति समस्ततापान् विजयन्ते मृत्युमपि विमोहमहो ॥ ९४॥
कनकमयकटकशोभां कलयति घटिकामहीभृतो रुचिरे ।
दीप्तिमति कृष्णरत्ने दृष्टे त्रासलवमनुभवेत् को वा ॥ ९५॥
सप्तर्षिसेव्यमाने सन्ततसुमनस्कृते सहस्राक्षे ।
रमतां मनो हरौ मे राजति घटिकाद्रिरत्नसानुतटे ॥ ९६॥
पादस्पर्शनविभवात् पावितभुवने प्रबोधितात्मणे ।
भजति घटिकाद्रिमित्रे भगवति भावं मनःसरोजं मे ॥ ९७॥
तुष्टेऽल्पतः सुशीले सुगुणगृहीते सुलक्षणे सुदृढे ।
आरोपितो मदीयो भद्रे घटिकाद्रिघूर्वहे भारः ॥ ९८॥
अननुगुणामपि वाणीमागःसन्दोहमन्दमतिकलिताम् ।
अङ्गीकरोतु भगवानाश्रितदोषावलोकनाकल्यः ॥ ९९॥
स्वामिन एव कृतिर्मे सूक्तिस्तोषाय तदपि तस्यैषा ।
स्वोक्तमनुवदति बाले सुतरां तातो हि तोषमुपयाति ॥ १००॥
भक्तोचितोपयुक्तां भक्त्या सौम्यवरकिङ्करोपहृताम् ।
अमृतफलावलिमनघां मृदुलामास्वाद्य मृत्युमतियन्ति ॥ १०१॥
इति श्रीघटिकाद्रिनाथशतकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (५७)
The Ghatikddrindihashataka (57) is a eulogy in Arya
metre on God Nrsimha at Ghatikacala or Sholinghur
(on the upper hill) in North Arcot District. The
author must have been a Srivaisnava; he pays obeisance
to one Venkatacarya in the opening verse and .calls
himself a devotee of Saumyavara (Manavalamamuni)
in the concluding verse of the Stotra.
Proofread by Rajesh Thyagarajan