गोपालदिव्यसहस्रनामस्तोत्रम्
The puruShottamakavacham should be recited
before the sahasranAmastotram
अथ श्रीगोपालदिव्यसहस्रनामस्तोत्रमन्त्रस्य सविता ऋषिः,
श्रीराधिकाधिपतिर्गोपालो देवता, अनुष्टुप् छन्दः, भक्तिर्बीजं,
लीलाशक्तिर्लोकद्वयवासनानिरसनपूर्वकश्रीकृष्णशुद्धभक्तिलब्धये
विनियोगः ।
सवित्रे नमः शिरसि । श्रीराधिकेशाय नमो हृदि ।
अनुष्टुप्छन्दसे नमो मुखे । भक्तिप्रियाय नमो नाभौ ।
श्रीकृष्णभक्तये नमः सर्वाङ्गे ।
मूलेनापि गायत्र्या वा न्यासान् कुर्यात्त्रिधा पुनः ।
ततः स्वाभिमतो ध्यानं कुर्यात्कार्येषु दीक्षितो ॥ १॥
प्रोत्फुल्लेन्दीवराभः कमलदलसुदृग् दिव्यनीलेन्द्रकायः
बिभ्रत्समृल्लकच्छो वरपटयुगलं चारुमायूरपिच्छम् ।
मुक्तामाणिक्यहीराद्यतुलमणिकृतैर्मण्डनैर्मण्डिताङ्गो
भक्तान् वेणोर्निनादैः सुखयति जयताद् गोकुलेन्दुर्मुकुन्दः ॥ २॥
ॐ श्रीकृष्णः सच्चिदानन्दो गोविन्दो गोकुलेश्वरः ।
पूर्णानन्दो निजानन्दो निर्गुणो निरपाश्रयः ॥ ३॥
लीलाशक्तिः स्वतन्त्रात्मा सदानन्दोऽतिसुन्दरः ।
तेजोमयो द्युतिधरः लीलाशक्तिप्रवर्त्तकः ॥ ४॥
वामांशानन्दनो नन्दो गोविन्दो गोकुलेश्वरः ।
प्रेमरूपः प्रमेयात्मा प्रमाणं फलभृत् फलम् ॥ ५॥
रासलीलारसास्वादो नित्याखण्डमहोदयः ।
अचिन्त्यकार्यकरणो ह्यप्राकृतगुणालयः ॥ ६॥
ईश्वरो नित्यलीलश्च शुद्धाद्वैतो निराश्रयः ।
नित्यानन्दो महानन्दो सर्वानन्दो परात्परः ॥ ७॥
ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्तिः स्वयंप्रभुः ।
मायारूपः कालरूपः कर्मरूपः स्वभावकृत् ॥ ८॥
सत्त्वरजस्तमःसाम्यमूलप्रकृतिरव्ययः ।
गुणक्षोभो बाललीलो महत्तत्त्वं हिरण्मयः ॥ ९॥
विज्ञानं चित्तनिलयः सत्त्वमूर्त्तिरमूर्त्तिकः ।
हिरण्यगर्भो लोकेशो विश्वलोको विराट् प्रभुः ॥ १०॥
प्रद्युम्नः सृष्टिकर्त्ता च विकर्त्ता विकृतोऽकृतः ।
आविर्भूतस्तिरोभूतो नित्याखण्डसमाधिगः ॥ ११॥
अहङ्कारोऽप्यहम्भासस्तैजसस्त्रिगुणात्मकः ।
सङ्कर्षणस्तमोरूपो रुद्रोऽननुभूतिकृत् ॥ १२॥
भूतादिस्तामसः क्षुब्धो जडोऽव्यक्तः प्रपञ्चकृत् ।
शब्दैरबोधनिस्फोटो नादो बिन्दुः कला बली ॥ १३॥
कुण्डली प्रणवो व्यक्तो घण्टानादो महोदरः ।
स्वरः स्पर्शस्तथोष्मा च अन्तस्थो बिन्दुसर्गकः ॥ १४॥
उदात्तः प्रचयो दीर्घोऽनुदात्तः स्वरितः प्लुतः ।
विसर्गात्मा यमो नानावर्णरूपो विकारभृत् ॥ १५॥
धातुः प्रकृतिराद्यश्चारूढोऽर्थः प्रत्ययोऽत्ययः ।
यौगिकः शक्तिभृल्लक्ष्यो व्यञ्जकोऽर्थपदोऽपदः ॥ १६॥
समस्तवाक्यरूपश्च ऋग्यजुःसामगो लयः ।
रागश्च संहिता सन्धिर्ब्राह्मणोपनिषन्मयः ॥ १७॥
आकाशो निर्मलः शुद्धो ब्रह्मलिङ्गश्च जीवनः ।
स्पर्शो मृदुस्तथा तीक्ष्ण उष्णोऽनुष्णः सदागतिः ॥ १८॥
रूपं प्रकाशग्रहणस्तेजः परिणतिप्रियः ।
रसं रस्यं जनं तृप्तिर्महीयान् सुरभिः शुचिः ॥ १९॥
भूमिभूताश्रयः सर्वगुणाध्यक्षो महत्तरः ।
उद्भिज्जः स्वेदजश्चाण्डभवोऽपि च जरायुजः ॥ २०॥
द्वेषजः कालजो जोष्टा जन्यश्चापि मनोभवः ।
जीवश्चेतनयुग्व्यापी मनोबुद्धिरहं त्वसौ ॥ २१॥
परमात्मा हृषीकेशो योगगम्यः सनातनः ।
तैजसो विषयी वेत्ता करणं कारणः क्रमः ॥ २२॥
मुख्यो बाह्येन्द्रियाग्राह्यः क्रियाशक्तिः कृतक्रमः ।
दिग्वातोऽर्कः प्रचेतोऽश्वी वह्निरिन्द्रो हरिर्गुरुः ॥ २३॥
मित्रो निरृतिपो रुद्रो गिरीशो गिरिरीश्वरः ।
समुद्रश्चौषधीप्रीतिधरः सङ्कल्पजीवनः ॥ २४॥
देवोऽदेवश्च मनुजो मुनिर्मुक्तो महेश्वरः ।
क्षीराब्धिशयनो लक्ष्मीपतिः शेषकृताश्रयः ॥ २५॥
देवेशः सत्यसङ्कल्प आदिर्नारायणोऽपि च ।
ब्रह्मा रजोगुणाध्यक्षो लोकः पद्मसमुद्भवः ॥ २६॥
अज्ञो विज्ञोऽनुग्रहीता चतुर्वक्त्रो तथोर्जितः ।
योगीश्वरो विष्णुसखो वेदगर्भो विधानकृत् ॥ २७॥
अविद्या सृष्टिकृद्विद्या प्रभवः सनकः सनात् ।
सनन्दनः कुमारश्च प्रतिसर्गोपसर्गकृत् ॥ २८॥
विसर्गलीलः सङ्क्रुद्धो रुद्रो रुद्रकरः प्रभुः ।
एकादशात्मा कालेश उमेशो गिरिशो मृडः ॥ २९॥
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरूर्जितः ।
दक्षो वसिष्ठोऽपि भृगुरथर्वाङ्गिरसाम्पतिः ॥ ३०॥
गौतमो नारदोऽगस्त्यः कर्दमो लोमशोऽरुणः ।
ऋषिसर्गो विसर्गात्मा देवसर्गो सुरार्दनः ॥ ३१॥
जलजः स्थलजो व्योमभवः पुण्यविमिश्रजः ।
स्वायम्भुवो मनुर्धीमान् शतरूपापतिः शुचिः ॥ ३२॥
आदिराजो महाराजो जगत्त्राणपरायणः ।
मनुष्यसृष्टिकृत् कर्त्ता कृतकृत्यः कृतात्मभूः ॥ ३३॥
आकूतिदेवसंहूतिप्रसूतिजठरोद्भवः ।
प्रियव्रतः सत्यव्रतो लोकातीतो महोदयः ॥ ३४॥
सीमाविभागकृत्सप्तसिन्धुनेमी महाबली ।
मर्यादासृष्टिकृद्विश्वजनरक्षापरायणः ॥ ३५॥
पुरुषो विश्वरूपश्च सहस्रास्यः सहस्रपात् ।
सहस्रबाहुः सर्वत्र सर्वं सर्वादिरच्युतः ॥ ३६॥
सर्वेन्द्रियगुणाभासः सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमल्लोके सर्वसाक्षी जनार्दनः ॥ ३७॥
सूर्यकोटिप्रतीकाशो वायुकोटिमहाबलः ।
समुद्रकोटिगम्भीरो मेरुकोटिमहाचलः ॥ ३८॥
कल्पद्रुकोटिफलदः कामधुक्कोटिपूजितः ।
कोटिचिन्तामणिस्थानश्चन्द्रकोटिसुरञ्जनः ॥ ३९॥
सुधाकोटिमहानन्दः कोटिमन्मथसुन्दरः ।
कोटीन्दिरासेविताङ्घ्रिः कोटिब्रह्माण्डविग्रहः ॥ ४०॥
वेदकोटिप्रगीतश्रीर्योगकोटिधृताशयः ।
भक्तकोटिव्रतः श्रीमान् कोटिधैश्वर्यमङ्गलः ॥ ४१॥
अनन्तोऽनन्तशीर्षेशो नागराजसमर्चितः ।
नीलाम्बरो हलधरः शोणाक्षश्चैककुण्डली ॥ ४२॥
नागकन्याकृताभ्यर्च्यः सनकादिसमर्चितः ।
विद्याप्रवर्तको भक्तनन्दनोऽसुरनन्दनः ॥ ४३॥
श्रीशङ्करार्चितो भव्य इलावृतकृतालयः ।
जम्बुद्वीपपतिः पूज्यो जगदीशो जगत्पतिः ॥ ४४॥
विष्णुर्वृषाकपिर्मेरुशैलाधीशो गुहाशयः ।
रम्यकेशो हिरण्येशः कुरुनाथो धरापतिः ॥ ४५॥
हरिवर्षपती रामः किन्नराधीश्वरोऽपि च ।
केतुमालविहारी च भद्राश्वकृतकेतनः ॥ ४६॥
भारताधिपतिः कृष्णो नरो नारायणो गुरुः ।
वद्रीभक्तात्मको भव्यो लोकानां हितकारकः ॥ ४७॥
जगन्नाथो जगज्जीवः पावनः पुरुषोत्तमः ।
श्रीरङ्गनायकः पद्मनाभोऽनन्तो जनार्दनः ॥ ४८॥
दक्षिणाशाप्रियकरो धनुस्तीर्थो रघुप्रियः ।
धवः कान्तः पतिर्भर्ता स्वामीशो डाकुराऽधिपः ॥ ४९॥
भीमापतिर्भीमसुतानाथः श्रीविठ्ठलेश्वरः ।
दीनोद्धारी कृपाकारी वेङ्कटेशो हिमप्रियः ॥ ५०॥
चतुर्भद्राप्रियस्तुङ्गो भद्रेशः कृष्णभूपतिः ।
शृगालहा शृङ्गधरो शृङ्गाधीशश्च मङ्गलः ॥ ५१॥
विष्णुर्विष्णुप्रियाचार्यो चम्पारण्यकृतोदयः ।
दुर्वादखण्डनो रुद्रः समुद्रः सर्वविज्जयी ॥ ५२॥
लोकाज्ञानहरो दक्षः शिखी मुण्डी च दण्डभृत् ।
शेषोऽशेषधरो विद्याधरः शोकहरः परः ॥ ५३॥
माधवो मापतिर्जीवो जीवनोऽमृतदोऽमरः ।
वैश्वानरो ब्रह्मवेत्ता सुधानाथो हरिप्रियः ॥ ५४॥
कुमारो मुक्तिदो मुक्तो जनेशो विश्ववन्दितः ।
द्वारापतिः शङ्खधरः कुशेशः श्रीत्रिविक्रमः ॥ ५५॥
रणत्यागी रणहरो ऋणहा सिद्धसेवितः ।
सोमनाथः प्रभासेशः ज्वालामाली दिगम्बरः ॥ ५६॥
हिमालयः पशुपतिः केदारो दारवल्लभः ।
भूपतिर्भूधरः सिन्धुः सरिद्रूपो वनोऽवनिः ॥ ५७॥
जम्बूनारायणो मेरुशिखरानन्दवर्ध नः ।
रत्नाकरो रत्नभोक्ता प्लक्षो प्लक्षाधिपो रविः ॥ ५८॥
जगदात्मा जगच्चक्षुस्तपनः सविता घृणिः ।
इक्षुसिन्धुः शाल्मलीशश्चन्द्रः सुरपितृप्रियः ॥ ५९॥
विश्वानन्दकरः कालः सुरासम्मोहितोऽसुरः ।
कुशप्रियः कुशाध्यक्षो हुतभुग् घृतभोजनः ॥ ६०॥
क्रौञ्चप्रियो भक्तमयो क्षीरसागरवल्लभः ।
शाकः शाकप्रियः प्राणो दधिभुक् देवसंयुतः ॥ ६१॥
पुष्करः पुष्करपतिर्विरिञ्चिर्मधुरो मधुः ।
मानसो मानसगतिः काञ्चनी मुकुरप्रियः ॥ ६२॥
लोकालोको महास्थानो गोप्ता दिग्गजनायकः ।
स्वर्गो महर्जनो दिव्यस्तपः सत्यं ध्रुवो व्रतम् ॥ ६३॥
वैकुण्ठो देवलोकश्च गोलोको ब्रह्मभू रसः ।
अतलो मयपुत्रेष्टः छलोऽथ वितलो हरः ॥ ६४॥
सुतलो भक्तवश्यश्च विक्रमी बलिपूजितः ।
महातलो महामायी काद्रवेयाशनासनः ॥ ६५॥
रसातलो दानवान्तकरणः सुरवल्लभः ।
त्रिलोकीधरणः शेषः नागेशो ज्ञानसागरः ॥ ६६॥
नानाकर्मगतिः पापगतिदुर्गतिदो यमः ।
अनन्तनरकच्छेदी पवित्रं वरसद्यशः ॥ ६७॥
कोट्यश्वमेधपापघ्नः कोटितीर्थातिपावनः ।
कोटिविश्वसमुद्धर्त्ता कोटिसाधनसाधनः ॥ ६८॥
निजाऽनुग्रहवल्लील ईश्वरोऽचिन्त्यकार्यकृत् ।
सत्प्रसादसमुद्धारः सतः सद्वासनाप्रदः ॥ ६९॥
असद्धीहरणः सर्वव्यापी सद्धर्मसद्गतिः ।
सद्धर्मपालकः सत्यमनुरूपी जनेश्वरः ॥ ७०॥
वराहो यज्ञरूपश्च धरोद्धारी धरास्तुतः ।
हयशीर्षो हयग्रीवः सर्वविद्याप्रवर्त्तकः ॥ ७१॥
दत्तात्रेयो महायोगी नारदो देवपूजितः ।
कुमारः कपिलाचार्यः साङ्ख्यवित्सागरो धृतिः ॥ ७२॥
धर्मसूनुर्धर्मरूपः स्वधर्मपरिपालकः ।
यज्ञः सुरगणाधीशो मेरुदेवीसुतस्त्रिवित् ॥ ७३॥
योगीश ऋषभः स्थाणुर्योगचर्याप्रवर्त्तकः ।
पृथुः पृथुमनाः पृथ्वीपालको जगतः पिता ॥ ७४॥
मत्स्यः सत्यव्रतानन्दः कच्छपो मेरुभृत्समः ।
धन्वन्तरिः सुधाहस्तो जनरोगापवर्गदः ॥ ७५॥
मोहिनी मोहनो मायी दनुजक्लेशदः पविः ।
नरसिंहो महासिंहो प्रह्लादो दितिजार्दनः ॥ ७६॥
उग्रो वीरो निजानन्दो भीषणार्त्तिहरः पविः ।
उरुक्रमः कर्मगत इन्द्रसेनाभयप्रदः ॥ ७७॥
रामः परशुभृद् दुष्टक्षत्रहारी द्विजार्त्तिहा ।
पाराशर्यो महाभागो ह्यनुकम्प्यनुभाववित् ॥ ७८॥
ज्ञानावतारो विज्ञाता वैष्णवोऽसुरमोहनः ।
श्रीरामचन्द्रो रघुजः साक्षाद्ब्रह्ममयो हरिः ॥ ७९॥
जगत्सन्तापहरणो ब्रह्मण्यः सत्यवत्सलः ।
सत्यसन्धः शरण्यश्च मर्यादापुरुषोत्तमः ॥ ८०॥
कौसल्यानन्दनो देवदत्तो भरतवल्लभः ।
लक्ष्मणप्राणदः प्राणः शत्रुघ्नः शत्रुतापनः ॥ ८१॥
विश्वामित्रप्रियो दान्तः शान्तो दशरथात्मजः ।
सीतापतिः पुण्यकीर्त्तिर्हरकोदण्डभञ्जनः ॥ ८२॥
सत्यवाक् पितृसद्भक्तिर्मार्गनेता नरोत्तमः ।
निःस्पृहो निर्ममो नित्यो निर्मोहश्च निरञ्जनः ॥ ८३॥
चित्राद्रिरमणः काकभिद् आदिमुनिप्रियः ।
गुहस्वामी गुहानन्दी दण्डकारण्यपावनः ॥ ८४॥
दुष्टादानवहन्ता च स्वजनानन्दनक्रियः ।
शबरीशुद्धिदः सीतावियोगगतिनाट्यकृत् ॥ ८५॥
जटायुमुक्तिदो वायुसुतादिकपिवल्लभः ।
सेतुबन्धनकृन्नामशक्तिसम्भृतभूधरः ॥ ८६॥
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ।
अयोध्यानायकश्चैकक्रियारमणसद्व्रतः ॥ ८७॥
यज्ञकृदृषिसम्मान्यो राजर्षिः सर्ववल्लभः ।
शिवादिवन्दितपदो नटनाट्यो नराकृतिः ॥ ८८॥
अयोध्यातारकस्तारः पुण्यश्लोकशिखामणिः ।
वासुदेवो महादेवो बलभद्रोऽसुरौघहा ॥ ८९॥
भूभारहरणो हारी त्रिलोकपरिपालकः ।
वृन्दारकानुगो विज्ञोऽसुरमोहनतत्परः ॥ ९०॥
बुद्धो बुद्धिप्रदोऽशुद्धमार्गकृद्वेदधर्महा ।
अहिंसाव्याजसन्तप्तः सर्वधर्मकृतागमः ॥ ९१॥
कलिधर्माकुलो जगत्पालको पालनक्षमः ।
सन्धिधर्मधरो धुर्यो ह्यसन्मार्गविनाशकः ॥ ९२॥
सद्युक्तिः सत्कृतिः साधुर्मुनिरूपः कृतावनः ।
उपधर्महरो विद्वान् धर्मदण्डधरो हरः ॥ ९३॥
जगज्जेता जगन्नेता सर्वधर्मप्रवर्त्तकः ।
तामसस्तामसजनदुष्टबुद्धिप्रदो मदी ॥ ९४॥
बहुधोपासनामार्गो विरक्तोऽवनिमण्डनः ।
निःसाधनजनोद्धारी करुणावरुणालयः ॥ ९५॥
वाक्पतिः श्रीधरो धीरो माधवश्च सनातनः ।
विष्णुः कलिमलध्वंसी जाह्नवीजलसंश्रितः ॥ ९६॥
महाकलिः कलिः क्लिष्टः कल्किः कलिनिवारणः ।
म्लेच्छहाऽसिधरो लीलायुतस्तुरगवाहनः ॥ ९७॥
ईशलीलाधरः सूर्यः श्रद्धालुः श्राद्धभुक् शुभः ।
इक्ष्वाकुः पुरुजिच्चन्द्रोऽम्बरीषोऽप्यमितद्युतिः ॥ ९८॥
निमिर्निमेषगः सत्यो यौवनाश्वो महाबली ।
सगरः सागरो योगी जेता भागीरथोऽरिहा ॥ ९९॥
खट्वाङ्गो मुचुकुन्दश्च रघुर्दशरथो द्युमान् ।
चन्द्रो द्विजेशो सुद्युम्न ऐलश्च नहुषो नृपः ॥ १००॥
ययातिश्च यदुत्राता कुरुश्च भरतो वृषः ।
कार्तवीर्यो महावीर्यो विश्वामित्रोऽपि शन्तनुः ॥ १०१॥
भीष्मः पाण्डुसुतः शैब्योऽलर्कोऽयोध्यापतिस्त्रिपात् ।
दिवोदासो रन्तिदेवो विष्णुदत्तो नरेश्वरः ॥ १०२॥
सद्धर्मरक्षणकृती निरोधगतिदोऽमृतः ।
जगतामाश्रयो नित्यो लोकातीतो महोदयः ॥ १०३॥
वेदैकवेद्यो वेदात्मा वेदानुग्रहकृत्प्रभुः ।
व्यापी वैकुण्ठनिलयो निजलीलारतिप्रियः ॥ १०४॥
अवतारितभक्तांशः समुद्धारत्वराकृतिः ।
दिव्यैकनिलयो दिव्यो दिव्यक्रीडारसोऽरसः ॥ १०५॥
नन्दो नन्दयिताऽऽनन्दी यशोदानन्दमन्दिरः ।
व्रजेश्वरो व्रजाध्यक्षो व्रजवैभवकारकः ॥ १०६॥
असुरमायाहृद्योगमायाजनककार्यकृत् ।
पूर्णब्रह्म परानन्दमात्रगात्रोऽविचिन्तनः ॥ १०७॥
परिपूर्णकलास्वामी सहस्रसुकलाधरः ।
भूभक्तप्रार्थितप्राप्यो भूभारहरणोदितः ॥ १०८॥
ब्रह्मेशेन्द्रादिदेवेड्यः पुरुषः पुरुषोत्तमः ।
असुरै रणकृत्त्राता मायेशो मोहकार्यकृत् ॥ १०९॥
वसुदेवः सत्त्वमूर्तिर्देवधानीनिवासकृत् ।
ब्रह्मादिसंस्तुतो देवो वासुदेवश्चतुर्भुजः ॥ ११०॥
व्याख्याताशेषमाहात्म्यः गोकुलानन्दकारकः ।
स्वव्यूहसंहरः सारः प्रयागचरितव्रतः ॥ १११॥
स्वकीयजनविज्ञातः स्वप्रियो जनरञ्जनः ।
महानन्दकरोऽमन्दगुणोदारो महोत्सवः ॥ ११२
गोगोपजनतानन्दः पूतनाप्राणहारकः ।
पूतनासुपयःपानप्रोद्धृतस्वीयबालकः ॥ ११३॥
मूलाविद्याहरः स्वीयचित्तरोधनपण्डितः ।
शकटासुरसंहारी स्वीयदोषनिवारकः ॥ ११४॥
पवनासुरभिद्भीष्मः मुरारिः सुतलार्दनः ।
गोस्वामी गोकुलपतिर्गोविन्दो नन्दलालितः ॥ ११५॥
गोपालो गोकुलाधीशो नवनीतप्रियः प्रभुः ।
दामोदरो भक्तवश्यो यमलार्जुनमुक्तिदः ॥ ११६॥
अप्रमेयः प्रमेयात्मा बलदम्भविमर्दनः ।
कालियासुरहरः क्रोधदण्डनो मण्डनः सताम् ॥ ११७॥
प्राणपालो दिव्यजन्मा लीलाताण्डवपण्डितः ।
वृन्दावनचरः कान्तो मल्लो नटसमाम्बरः ॥ ११८॥
बर्हापीडः पीतवासा सूर्यभूषणभूषणः ।
मुरलिनादमाधुर्यसमाहूतव्रजाङ्गनः ॥ ११९॥
योगमायाविरचितसर्वसेवाकृतार्थनः ।
लावण्यैकपरामूर्त्तिर्वृन्दारण्यपुरन्दरः ॥ १२०॥
परमापीच्यो गोपीड्यो वियोगहृतबन्धनः ।
सङ्गप्राप्तान्यमहिलामोहवान् वदतां वरः ॥ १२१॥
स्वकीयारतिदः कामी कामशास्त्रविशारदः ।
पुरन्ध्रीदोषहरणः स्वात्ममायाप्रदर्शकः ॥ १२२॥
गोपिकागीतमहिमा स्वदोषपरिबोधकः ।
श्रीगोकुलपतिः साक्षी कोटिमन्मथमन्मथः ॥ १२३॥
भक्तोत्तमर्णः सङ्कीर्णः सर्वानन्दकरो गुरुः ।
नृत्यलीलानुकरणस्त्रिभङ्गललिताकृतिः ॥ १२४॥
परमानन्दविस्तारो विस्मापितसुरेश्वरः ।
सर्वसौभाग्यसुफलः कामदोषनिवारकः ॥ १२५॥
अलौकिकगतिः शङ्खासुरचूडामणिप्रदः ।
प्रेमात्मको रुक्ममूर्तिः पराश्रयनिवारकः ॥ १२६॥
केशिहा वृषहा चैव नारदेड्यो नृपेश्वरः ।
अक्रूरवल्लभो भूमिभारहा यादवेश्वरः ॥ १२७॥
कंसारिर्दुष्टदमनो व्रती गुरुवरादृतः ।
जरासन्धवधोद्दामी यवनान्तकरो रविः ॥ १२८॥
मुचुकुन्दप्रियः श्रीशो द्वारकासौभगोदयः ।
रुक्मिणीशः स्मरकरः प्रद्युम्नो रतिवल्लभः ॥ १२९॥
सत्यभामापतिर्जाम्बवतीशो लक्ष्मणापतिः ।
भद्रापतिर्मित्रविन्दापतिः शैब्यापतिर्मखी ॥ १३०॥
कालिन्दिनीधवो धाता शतस्त्रीनायको युवा ।
षोडशस्त्रीसहस्रेशः सत्त्वसृष्टिपरायणः ॥ १३१॥
पाण्डवानन्दकरणः कौरवान्वयनाशनः ।
भूभारभूतराजन्यदैत्यसङ्घविनाशकः ॥ १३२॥
सुदामाभ्यर्थितः प्राप्तश्रुतदेवो निमिप्रियः ।
षड्गुणैश्वर्यसम्पन्नो निजभक्तानुरोधकृत् ॥ १३३॥
ज्ञानगम्यः साङ्ख्यगम्यो भक्तिवश्यः कृतागमः ।
स्वरूपानन्दरमणः स्वाश्रयो निरपाश्रयः ॥ १३४॥
योगीश्चरैर्वन्दिताङ्घ्रिर्देवानन्दकरः प्रभुः ।
शेषभूतसमस्तात्मा परानन्दमितो हरिः ॥ १३५॥
फलश्रुतिः ।
इति श्रीगोकुलेशस्य प्रोक्तं नामसहस्रकम् ।
पठनाद्भावविज्ञानां भजनानन्ददायकम् ॥ १३६॥
श्रीमदार्यप्रसादेन प्राप्य श्रीशमहामनुम् ।
समर्च्य सम्पठेद्भक्त्या निग्रहानुग्रहक्षमः ॥ १३७॥
भवेत् पूज्यश्च महतां विद्यानां पारदृश्वनः ।
सर्वापराधैर्मुच्येत परचर्यासु सङ्गतैः ॥ १३८॥
भक्तिबीजमवाप्नोति प्राप्नोति च दृढां श्रियम् ।
ब्राह्मणो वेदवेदान्तसदाचारफलं लभेत् ॥ १३९॥
क्षत्रियो विजयी भक्तवत्सलो ब्राह्मणप्रियः ।
वैश्यो वित्तपतिर्भव्यो दाता भोक्ता भवेदयम् ॥ १४०॥
शूद्रः शुद्धो भवेदस्माद् ब्रह्मण्यो हरिवल्लभः ।
भक्तो भक्तिं समाप्नोति कामी कामान् मनोगतान् ॥ १४१॥
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धन्नात् ।
आपन्नश्चापदो मुच्येद् मुमुक्षुर्मुच्यते भयात् ॥ १४२॥
सर्वात्मनेह गदितः श्रीलीलापुरुषोत्तमः ।
सर्वात्मभावलब्ध्यर्थं कामभावाप्तयेऽपि च ॥ १४३॥
नानेन सदृशं किञ्चित् श्रीपतेरतिवल्लभम् ।
तस्मादवश्यमभ्यस्यं वैष्णवैः पूजने हरेः ॥ १४४॥
वृन्दावने वटप्रान्ते तीर्थस्थाने गुरोर्गृहे ।
अभ्यस्य समवाप्नोति यजमानस्य बन्धुताम् ॥ १४५॥
परकृत्यासु घोरासु प्रेतादीनामुपद्रवे ।
तीर्थामधुसरैः (?) पाठ्यं तत्तन्नाशयते क्षणात् ॥ १४६॥
पाषण्डानां प्रसङ्गेन ये ये दोषा भवन्ति वै ।
ते सर्वे नाशमायान्ति सकृदावर्त्तनादपि ॥ १४७॥
एतेन मन्त्रितं भस्म अग्निहोत्रादिजं शुभम् ।
विलिप्य घोरबाधासु तत्क्षणादुपसंहरेत् ॥ १४८॥
न वाञ्छन्ति च ये कामान् तेषां कामाः स्वसंस्थिताः ।
अनुग्रहाद्भगवतः श्रीगोपालस्य ते प्रियाः ॥ १४९॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे प्रथमांशे
विंशतितमेऽध्याये गोपालदिव्यसहस्रनामवर्णनं सम्पूर्णम् ।
Proofread by Manish Gavkar, Rajani Arjun Shankar