गोपालशतकम्
श्रीशश्रीपृतनाधिपाननुकलं सेवे शठारिं भजे
नाथाब्जाम्बकरामयामुनमहापूर्णानजस्रं भजे ।
सम्यग् देशिकपङ्क्तिहारतरलं रामानुजं संश्रये
यत्कारुण्यसुखाप्तसर्वधिषणैरार्यैरहं वीक्षितः ॥ १॥
खिद्यद्गोवेषभूमिव्यसनपरिहृतिप्राप्तलोकेशशम्भु-
स्वर्गस्वाम्यादिदेवप्रणतिनुतिततिप्राप्तवाग्वृत्तिरीशः ।
देवः क्षीराब्धिशायी जगदवनपरः स्वीयमञ्चेन साकं
देवक्याः पुत्रतां यः समभजदवनेर्भारहान्यै भजे तम् ॥ २॥
अष्टम्यां कृष्णपक्षे नभसि बुधदिने प्रोद्यमाने शशाङ्के
प्राजापत्ये शुभर्क्षे वृषभमुपगते देवकीजातमीशम् ।
कृष्णं वन्दे स्वभूषोपलतरणिहतध्वान्तभास्वद्गृहान्त-
र्देदीप्यच्छङ्खचक्रोज्ज्वलितशुभतनुं स्तूयमानं पितृभ्याम् ॥ ३॥
मायामूर्च्छितकंसभृत्यनिवहे तस्मिन् निकेते हरिं
निर्मुक्ते निगले पितुर्विगलिते स्थूले कवाटे व्रजे (कवाटं) ।
पित्रा शेषफणावृतस्वशिरसा सन्नीयमानं भजे
मेघे वर्षति जानुदघ्नयमुनापूर्णप्रवाहे पथि ॥ ४॥
मूर्च्छाक्रान्तयशोदया विगलितेऽज्ञाते शिशौ स्वोदराद्-
देवक्याः कमनेन चात्मजहरिं निक्षिप्य नीते शिशुम् ।
कंसेनापि शिलातले सुवनितारूपे हते स्वर्गते
मेने सापि यमात्मजं चिदचितोरीशं तमद्याश्रये ॥ ५॥
जातो नन्दस्य पुत्रः सुकमलनयनश्चारुनासः सुवक्त्रो
देवोऽयं नैव मर्त्यो न हि भवति तनुस्त्वीदृशी मानुषाणाम् ।
सौन्दर्यं सौकुमार्यं किमिदमवयवास्त्वद्भुताः सर्व एवे-
त्येवं तोषेण सर्वा व्रजगतवनिता अस्तुवन् यं तमीडे ॥ ६॥
स्नेहाज्यैर्नवनीतपिण्डसहितैर्दघ्ना हरिद्रोदकै-
स्ते सर्वे समवाकिरन् ब्रजजनास्तोषेण यज्जन्मनि ।
देवा अप्यतितोषमापुरपतत् स्वर्गात् सुमानां तति-
र्नेदुर्दुन्दुभयो जगर्जुरुदधेर्वारीणि तं धीमहि ॥ ७॥
ज्ञात्वा देवजनिं सुरर्षिवचनादेकान्तवासं हरेः
कंसेन प्रहिते समस्तपृथुकध्वंसाय दैत्यव्रजे ।
बालघ्नी व्रजमागता विषमयं दत्त्वा स्तनं पूतना
स्तन्यस्वीकरणात् सहासुभिरगाद् द्यां येन तं चिन्तये ॥ ८॥
गोप्यः पश्यत कोऽयमत्र शकटः क्षिप्तः प्रभनोऽपतत्
पद्भ्यामस्य शिशोर्ध्रुवं विनिहतः पद्मोपमाभ्यां बत ।
हन्तुं दानव आगतो गिरिसमो येनाद्य शेते मृतः
सोऽयं विष्णुरिति ध्रुवं व्रजजना यं मेनिरे तं भजे ॥ ९॥
वात्यावेषधरो भ्रमन् बहु तृणान्यावर्तयन् दानवः
पांसूद्वर्षविमूर्च्छितान् व्रजजनान् कृत्वा गृहीत्वा च यम् ।
हन्तुं व्योम्नि समुत्पतन् निजगलाश्लिष्टं हरिं शाबकं
भाराद् भुव्यपतद् व्यसुस्तदुरसि क्रीडारतं तं भजे ॥ १०॥
कृष्णास्यं दर्शयाशु ध्रुवमपरिमिता मृत्तिका भक्षिताद्ये-
त्युक्त्वास्ये यस्य माता सकलजनपदद्वीपसिन्धून् व्रजं च ।
आत्मानं सप्तलोकानमरनरपशुस्थावराद्र्यादियुक्तान्
दृष्ट्वा मत्वा च विष्णुं निजतनयमहो यं ननामाश्रये तम् ॥ ११॥
आत्मारामोऽपि देवः श्रुतिमकुटरमासूरिसेव्योऽपि मातु-
र्यः स्तन्यालाभरुष्टो निखिलदघिपयोभाण्डभङ्गं चकार ।
मुष्णन् हैयङ्गवीनं प्रतिगृहमखिलान् मोहयन् रूपचेष्टा-
वाक्यैर्मार्जारकीशैः सममचरदहो यस्तदीशः श्रये तम् ॥ १२॥
आरुह्योलूखलाग्रं बहुघटनिबिडं शिक्यमाकृष्य तत्स्थे
कुम्भे हस्तं स्वकीयं बहुचलनयनो यावदन्तर्निवेश्य ।
भुक्त्वा हैयङ्गवीनं करयुगलततं तन्मृजन् स्वीयदेहे
बद्धो मात्रा गुणैर्यः स्वयमतिकृपयोलूखले तं भजेऽहम् ॥ १३॥
मात्रा यस्मिन् निबद्धस्तदपि गुरुतरं जानुहस्तेन गच्छ-
न्नाकर्षन् मत्ततोत्थामरमुनिशपनोद्वेगलब्धार्जुनत्वौ ।
भृत्यौ यक्षाधिपस्य स्वयमतिघृणया मोचयन् वृक्षभावाद्
यस्तेनोलूखलेन श्रुतिगणविनुतं तं श्रये बालकृष्णम् ॥ १४॥
गोवत्सान् वत्सपालान् वनभुवि विधिना वञ्चितान् वीक्ष्य देवो
वत्सान् बालांश्च सृष्ट्वा सुसदृशगमनाकारवर्णस्वराङ्गान् ।
संयोज्य स्वस्वमार्गं निशि निशि विपिनाद् वत्सरान्ते स्वशक्त्या
यः सर्वान् ब्रह्मरूपान् पुनरपि विधयेऽदर्शयत् तं भजेऽहम् ॥ १५॥
कृष्णैहि स्तनमद्य बाल पिब ते तातः सुमृष्टोदनं
भोक्तुं त्वां प्रतिवीक्षते दश दिशो दास्यामि तुभ्यं फलम् ।
जन्मर्क्षं तव गाः प्रदेहि सुभगाः स्नातः शुभालङ्कृतो
भुङ्क्ष्वेत्येव यशोदया सुतधिया यः प्रार्थितस्तं भजे ॥ १६॥
उग्राभाषणदृष्टितर्जनकशाघातादिकृत्याक्षमा
तत्तच्चेष्टितदुःखितव्रजवधूदुर्वाक्यसर्वंसहा
क्रीडातत्परसाहसप्रियसुतव्यापारसङ्क्षोभिता ।
माता व्यस्मरदात्मकार्यमखिलं यच्चिन्तया तं भजे ॥ १७॥
गेहालेपनमार्जनावहननस्नानेषु गोदोहन-
क्षीराधिश्रयणादिकर्मसु सदा गोप्योऽपि नित्या इव ।
यस्यासेचनकं वपुर्बहुविधा दिव्याश्च चेष्टा गिरः
संस्मृत्यैव जगुः कलं परवशास्तस्मै नमो ब्रह्मणे ॥ १८॥
गोपालैः सहितो विहृत्य विपिने सायं निवृत्तो हरि-
र्मध्येमार्गमघासुरं ह्यजगरं वक्त्रं विवृत्य स्थितम् ।
श्रुत्वा तस्य मुखे निविश्य सजनो गोभिर्मुखे संवृते
स्वीयं वर्ष्म विवर्धयन्नजगरं चिच्छेद यस्तं भजे ॥ १९॥
अत्यन्ताद्भुतसुन्दरोज्ज्वलशुभं यद्वर्ष्म लक्ष्मीप्रियं
धूलीधूसरितेन तेन वपुषा नीलोत्पलश्रीमुपा ।
योऽक्रीडत् स्वसमैरनेकपशुपैर्गायञ्छतैः प्राणिनां
तत्तज्जात्यनुरूपशब्दरचनाः कुर्वन् तमेवाश्रये ॥ २०॥
वत्सानां चरतां तृणानि विपिने मध्ये सुवत्साकृतिं
प्राप्तं दानवमीश्वरो नरवपुर्ज्ञात्वा स्वनाशोत्सुकम् ।
तेनैव स्वगृहीत पश्चिमपदोत्क्षिप्तेन नष्टामुना
दैत्यं योऽप्यहनत् (?) कपित्थवपुषं तस्मै नमोऽस्त्वन्वहम् ॥ २१॥
ज्ञात्वा श्रीदामवाक्यात् खरतनुदितिजारक्षितं तालजातं
गोपालैस्तत्र गत्वा भुजचलिततरूत्पन्नशब्दागतेन ।
रामोत्क्षिप्तेन तेनोद्धृतचरमपदा धेनुकेनाहतानां
यस्तालानां फलैः स्वान् हततदनुबलोऽमोदयत् सोऽवतान्नः ॥ २२॥
देवो मायामनुष्यो वनभुवि विहरन् गोपचालैर्बकेन
ग्रस्तोऽन्तर्दाहदुःखाद् गिरिसमतनुना छर्दितो दानवेन ।
भूयो ग्रासप्रवृत्तं तमहनदथ(?) यस्तं प्रपद्ये शरण्यं
तद्धंसात्यन्ततुष्टामरकृतसुमनोवृष्टिवाद्याभिरामम् ॥ २३॥
कालिन्दीतीर्थपानव्यसुपशुमनुजान् वीक्षणाज्जीवयित्वा
नीपात् तस्यां निपत्य प्रकुपितभुजगेनावृतः कालियेन ।
उत्पातायातमातापितृमुखमनुजोद्वेगशान्त्यै भजे तं
मूर्ध्नो भञ्जन्नहिस्त्रीस्तवनभजनतः कालियं यो मुमोच ॥ २४॥
नीत्वा कालियमीश्वरो रमणकं द्वीपं सुहृद्वन्धुभिः
सौपर्णं बलिभञ्जनोत्थमधिकं द्वेषं निरस्य स्वयम् । (बलिभक्षणोत्थ)
नद्या रोधसि यः स्वपन् व्रजजनैः सर्वैर्निशीथे ततं
दावाग्निं ह्यपिबद् रुदत्स्वजनतातोषाय तं चिन्तये ॥ २५॥
देवे तिष्ठति मुक्तिदे त्वयि सदा भक्तप्रिये श्रीसखे
नान्यं चिन्तयते मनः शृणु वचो येन व्रजेऽत्यादरात् । (चिन्तयमे)
सर्वाभीष्टफलप्रदेन शिशुना दत्ते फले भाजनात्
कस्याश्चित् फलभाजनं सुरुचिरै रत्नैरपूरि स्वयम् ॥ २६॥
कृष्णो जेतॄन् वहद्भिः परिबृढबलसङ्घट्टिगोपान् स्वकीयैः
साकं श्रीदामवाहस्ववहनचकितं गोपवेषं प्रलम्बम् ।
स्कन्धे रामं वहन्तं वियति निजवपुर्दर्शयन्तं सुभीमं
दैत्यं योऽनाशयत् तं सुरमुनिविनुतं देवमीडेऽग्रजेन ॥ २७॥
मुञ्जारण्यं प्रविष्टे तृणचरणधिया गोसमूहे प्रणष्टे
तत्तन्नामप्रघोषैर्गगनतलततैराह्वयन् गाः समस्ताः ।
गोपानामीलिताक्षान् वनदहनततान् वीक्ष्य पीत्वा दवाग्निं
भाण्डीरं योऽनयद् गा अपि सकलफलप्रापकं संश्रये तम् ॥ २८॥
यस्मिन् गायति वेणुनातिमधुरं वृन्दावने योगिनो
गोगोप्यो विहगा मृगाश्च शिखिनो नद्योऽद्रयो भूरुहाः ।
प्राप्ता देवगणा अमर्त्यवनिता विस्रस्तमाल्यम्बरा
अत्रामुत्र च ये परे परवशाः सम्मूर्च्छितास्तं भजे ॥ २९॥
कालिन्दीमवगाह्य गोपवनिताः प्रातर्धनुष्यन्वहं
पत्न्यो भूम हरेर्वयं भगवतो नन्दस्नुषा अम्बिके ।
कात्यायन्ययि देवि नो व्रतमिदं निर्वर्तयेत्यम्बिका-
मानर्चुः सिकतामयीं सुमफलैर्यत्काङ्क्षया तं भजे ॥ ३०॥
गोप्यः क्रीडापरा या उदकमुपगता यामुनं फुल्लपद्मं
तासामादाय वासांस्यतिजवसहितः कुन्दमारुह्य वृक्षम् ।
ताभिः सङ्गूह्य शीघ्रं कुचयुगजघनं हस्तसक्नातिकामी
वासो यो याच्यमानः करयुगविनतिं याचते तं भजेऽहम् ॥ ३१॥
कृत्वा गोदण्डयष्टिं जगदवनपरस्वीयकक्षेऽपरस्मिन्
कक्षे सन्धाय वेणुं शुभमृदुलतनौ दोहदामापि बद्ध्वा ।
भर्तृस्त्यक्त्वातिभक्त्यागतमुनिवनितादत्तमन्थोऽञ्जलौ यो
ह्यात्मारामोऽपि बालैः सममचरदहो तं भजे वासुदेवम् ॥ ३२॥
यज्ञच्छेदप्रकुप्यत्सुरपतिवचनायातसंवर्तमेघ-
व्याप्तिप्राप्तोग्रवाताशनिसहित शिलावर्षभीतासु गोपु ।
योऽङ्गुल्याबिभ्रदद्रिं व्रजमनुजपशुप्रीतये सप्तरात्रं
तं वन्दे वासुदेवं विधिशिवविनुतं देवराजार्चिताङ्घ्रिम् ॥ ३३॥
गोपीर्वेणूत्थगानश्रुति विवशतनूरागताः प्रेक्ष्य ताभिः
क्रीडित्वान्तर्हितो यो विरहगाढवशात् ताभिरन्वीक्ष्यमाणः ।
एकैकस्या अरण्ये वहनरतिसुखादानचिह्नेन तत्तत्-
पादन्यासेन दूना असुखयदथ ता दर्शनात् तं भजेऽहम् ॥ ३४॥
कृष्णो विष्णुर्हि साक्षान्न यदि कथमसावुद्धरेत् पर्वतेन्द्रं
ह्यास्ये स्युस्तस्य लोकाः कथमसुरगणान् नाशयेद्वा कथं सः ।
एवं सञ्चिन्तयद्भ्योऽकथयदथ पिता यं स्मरन् गर्गवाक्यं
साक्षान्नारायणांशं जगदवनपरं तं श्रयेऽहं जनेभ्यः ॥ ३५॥
गोविन्देत्युच्चरन् यं सकलसुरगणैः साकमागत्य नत्वा
सर्वाण्डानामधीशं त्रिजगदधिपतिं ह्यभ्यषिञ्चत् सुरेन्द्रः ।
नृत्यद्दिव्याप्सरोभिः सुरकृतसुमनोवृष्टिगानानतीभि-
र्भैरीणां भाङ्कृतैरप्यखिलमुनिकृतैः स्तोत्रजालैः श्रये तम् ॥ ३६॥
आविश्याम्भो निशीथे पुनरपि सलिलान्नोत्थितः केन नन्दः
सञ्चिन्त्यैवं प्रखिद्यद्व्रजमनुजमुदे पाशिलोकं प्रविश्य ।
सम्यक् सम्पूज्य दत्तं पितरमखिलदृक् पाशिना स्तोत्रपूर्वं
ह्यादायागत्य तेन स्वजनमुदमदाद् यस्तमीशं प्रपद्ये ॥ ३७॥
गोपानां परमाद्भुतोज्ज्वलमहानन्दैकरूपं पदं
मग्नानां वितमः परं करुणया ब्रह्मह्रदे तत्र च ।
तस्यामेव तनावहीन्द्रशयने स्वात्मानमप्यास्थितं
देवीभूषणहेतिसूरिसहितं योऽदर्शयत् तं भजे ॥ ३८॥
गायन् वाचा प्रनृत्यंश्चरणयुगलतश्चालयन् वर्ष्म दोर्भ्यां
हस्तौ गोप्योः प्रगृह्णन् हरिमुखसुमनोवृष्टिवाद्यादियुक्तः ।
रेमे गोपीं च गोपीं शुभमृदुलतनुर्योऽन्तरा गोपिकैवं
यं यं कृष्णं च सर्वा हरिरवतु स मां मण्डले गोपिकानाम् ॥ ३९॥
नन्दं गोपजनैरनोगिरडुद्युक्तैरनेकर्वनं
गत्वा तत्र महेश्वरं सगिरिजं सम्पूज्य रात्र्यां स्थितम् ।
ग्रस्तं कुण्डलिना ह्यमोचयदहेः स्पृष्ट्वा पदाहिं मुनेः (दष्टं)
शापात् प्राप्तमहेरहित्वमपि यः पायादपायात् स नः ॥ ४०॥
कल्हारैः कुमुदैः सितैर्जलरुह्रैर्नीलोत्पलैः पङ्कजैः
किर्मीरामुपविश्य सूर्यतनयां क्रीडापराभिः स्वयम् ।
योऽक्रीडद् रमणीभिरम्भसि जलोत्क्षेपोच्चलत्तत्कुच-
स्पर्शश्लेषविलोकनापहसनश्लाघादिभिस्तं भजे ॥ ४१॥
गोष्ठं प्राप्य वृषासुरोऽतिमहता नादेन रुन्धन् नमः
पुच्छाधूननजातवायुपतितैर्वृक्षैः क्षितिं छादयन् ।
क्ष्माभृद्विभ्रमसङ्गताम्बुदककुत्सन्दर्शनोद्वेजितै-
र्गोपैर्न्यस्तभरेण येन हरिणा सम्पिण्डितस्तं भजे ॥ ४२॥
दैत्या येन निपातिता व्रजभुवि त्वद्भगिनेयो ह्यसौ (हि सौ)
या पाषाणतले त्वयैव निहता सा नन्दगोपात्मजा ।
व्यत्यासो वसुदेवकल्पित इति श्रुत्वा मुनेर्नारदाद्
यद्ध्वंसाय शशास केशिदितिजं कंसस्तमेवाश्रये ॥ ४३॥
पादाघात विनिर्गतक्षितिरजोमेघायमानाम्बरं
हेषाध्वानविसान्ज्ञितव्रजजनं दैत्यं तुरङ्गाकृतिम् ।
यः स्वान्वेषणतत्परं गिरिसमं दृष्ट्वा हरिः केशिनं
दष्टस्तेन मुहुस्तदीयवदनं चिच्छेद तं चिन्तये ॥ ४४॥
क्रीडद्भिर्मेषगोपैः कतिभिरपि परैर्मेषचोरैः समेतं
तत्पालैश्चोरगोपं दितिभवमखिलान् मेषगोपान् क्रमेण ।
नीत्वा निक्षिप्य दर्यां मुखमपि दृषदाच्छाद्य तस्याः प्रगुर्व्या
हत्वा यः सञ्जिहीर्षुं निहतमुखशिलोऽमोचयत् तान् स नोऽव्यात् ॥ ४५॥
कंसेन प्रहितः श्वफल्कतनयो गच्छन् रथेन स्वयं
प्रेमार्द्रस्वदृशा हरिः किमधुना मामीक्षयेत् संस्पृशेत् ।
हस्ताब्जेन हरेः कदा पदयुगं पश्यन् वहन् पूजयन्
स्तोष्यामीति विचिन्तयन् पथि हरिं प्राप्तोऽयमव्यात् स नः ॥ ४६॥
दोग्धा दोहनदामसंवृततनुः सम्यक् प्रसन्नो हरिः
कंसेन प्रहिताय भक्तिनिधयेऽक्रूराय वृन्दावने ।
दत्त्वातिथ्यमशेषयादवकथाः श्रुत्वा सरामो रथं
योऽक्रूरेण सहाधिरुह्य मथुरां क्षिप्रं ययौ तं भजे ॥ ४७॥
कंसप्रेषितगान्दिनीसुतवचोजातप्रयाणोन्मुखं
श्रुत्वा शौरिमशेषगोपवनिता नन्दादिभिः साग्रजम् ।
यत्सौन्दर्यमनोज्ञवाक्प्रियतमव्यापारवीक्षास्मित-
क्रीडादैत्यवधादिभिर्हृतहृदो मोहं गतास्तं भजे ॥ ४८॥
अक्रूरः सबलं मुकुन्दमनघः संस्थाप्य तस्मिन् रथे
मध्येमार्गमथावरुह्य स रथात् स्नातुं प्रवृत्तो जले ।
दृष्टा शेषगतं तमेव सलिलादुत्तीर्य दृष्ट्वा रथे
भूयोऽप्याशु जले निमज्ज्य भुजगे यं दृष्टवांस्तं भजे ॥ ४९॥
श्रुत्वा चित्रं चरित्रं सुरनरपशुभिर्मोहितैश्चिन्तितं त-
च्छौरेः सौलभ्यपूर्णं व्रजभुवि परमं भाति यस्मिन् परत्वम् ।
तं द्रक्ष्यामः कदा नः प्रभुमिति मथुरापत्तनस्थाश्च सर्वे
यत्सेवोत्का अशृण्वन् सरथमुपगतं साग्रजं संश्रये तम् ॥ ५०॥
यं प्राप्तं गोपुरस्था ददृशुरथ परे हर्म्यवातायनस्थाः
श्रुत्वा केचित् स्वगेहाद् बहुजननिबिडां प्राप्य रथ्यामपश्यन् ।
सेवाशातुन्दिलाङ्गा बहुजनपिहितं द्रष्टुमन्ये न शेकु-
स्त्यक्तश्रीपक्षिराजं विधिशिवविनुतं संश्रये तं पदातिम् ॥ ५१॥
लक्ष्मीः पद्मसमुद्भवा मृदुशया यत्पादपुष्पार्चने-
ऽप्युद्विग्ना मृदुपादपद्मयुगलग्लानिप्रभीत्याभवत् ।
ताभ्यामस्य गतिः कथं क्षितितले पद्भ्यां बतेति ध्रुवं
सास्रा यद्गमनं न शेकुरमरा द्रष्टुं तमद्याश्रये ॥ ५२॥
त्यागार्हं न हि मे परत्वमिति तत् प्रच्छाद्य पीताम्बरः
सौलभ्याद् रजकं कुमर्त्य इव यो वासो ययाचे स्वयम् ।
वेदान्तैरधुनाप्यमेयमहिमाकुपारविप्रुट्कणः
सोऽव्यान्नः स्वनिकृत्तशीर्षरजकश्लाघ्याम्बरालङ्कृतः ॥ ५३॥
श्रीवैकुण्ठगतो विसृज्य भगवाञ्छ्रीभूमिनीलादिकान्
मद्गेहान्तरमागतः सभुजगो मर्त्याकृतिः स्रक्कृते ।
धन्यः कोऽस्ति मदन्य एहि भगवन् सम्यक् करिष्येऽर्चना-
मित्युक्त्वार्चयदाशु माल्यकृदपि प्रेम्णा यमव्यात् स नः ॥ ५४॥
कुब्जामप्यतिधोरवक्त्रविकृतामात्मार्हगन्धप्रदा-
माक्रम्य प्रपदे पदा चुबुकमप्युत्कृष्य हस्ताग्रतः ।
सम्यक् शीघ्रमृजूकृतां शुभतनुं स्वापेक्षिणीं योऽवदत्
पश्चात् त्वां मुदितां करिष्य इति तं स्वात्मैकतृप्तं श्रये ॥ ५५॥
नानोपायनवीटिकासुमफलैः सम्पूजितः साग्रजः
पृच्छन् पौरजनान् धनुर्वरगृहं तत्र प्रविश्य स्वयम् ।
भङ्क्त्वा कंसधनुस्तदीयशकलेनाहत्य तद्रक्षिणः
सायं यः पुटभेदनात् स्वशकटं प्रायात् तमद्याश्रये ॥ ५६॥
ज्योतिर्द्वित्वसुवर्णवृक्षविशिरश्छायादिसन्दर्शनात्
तैलाभ्यङ्गविवस्त्रदक्षिणगतिस्त्रस्वप्नाश्च कंसो भयात् ।
मल्लायोधनसम्भ्रमेक्षणमिषेणारूढमञ्चो जनै-
र्मञ्चस्थैः सह यं निहन्तुमकरोद् यत्नं श्रये तं हरिम् ॥ ५७॥
अम्बष्ठेरितमार्गरोधिकरिणा सम्यग् गृहीतश्च्युतः
तत्पादान्तरगो बहिर्गततनुः पुच्छे गृहीत्वा द्विपम् ।
आकर्षन् भ्रमयन् भ्रमन्निपतितं चोत्कृष्टतद्दन्ततो
हत्वा साग्रज आगतः प्रियजनैर्यो नन्दितस्तं श्रये ॥ ५८॥
कंसप्रेषितकूटतोशलमुखैर्मयैः समेतो हरिं (कोशल)
वक्षोजानुमुखे प्रहृत्य हरिणा तत्रैव तेनाहतः ।
चाणूरः प्रहरन् पतन् विनिहतो येनोत्पतन् मुष्टिना
रामेणातिबलेन मुष्टिक इव प्राणान् जहौ तं भजे ॥ ५९॥
मल्लध्वंसजिघांसितेन हरिणा व्याप्लुत्य मञ्चे ततः
कंसं भूमितले निपात्य तरसा तस्मिन् निपत्य स्वयम् ।
मूलं दैत्यतरोः स येन निहतस्तं चिन्तयेऽहर्निशं
हृष्टैर्नन्दमुखैस्तु तं मुनिगणैर्ब्रह्मादिभिः पूजितम् ॥ ६०॥
कंसध्वंसेन दत्त्वा मुदमपरिमितां वासुदेवः स्वपित्रो-
र्बल्यानन्दाप्रदानाज्जनितमघमपि क्षामयित्वा सरामः ।
राजानं चोग्रसेनं विहतिविरहितं स्थापयित्वा प्रजानां
स्वस्मिन्नीशत्वचिन्तामनुभवजनितां योऽहरत् तं भजामि ॥ ६१॥
नानादेशनिवासकर्शितसुहृत्स्वज्ञातिबन्धुप्रियान्
कंसोपद्रवदुःखितान् पुरवरे संस्थाप्य तुष्टान् धनैः ।
नन्दं गोपजनैः सह प्रियवचोभूषाम्बराद्यादृतं
प्रस्थाप्य व्रजमग्रजेन सह यस्तुष्टोऽभवत् तं भजे ॥ ६२॥
सम्प्राप्य द्विजसंस्कृतिं शुभगुणाद् गर्गात् सरामो हरि-
र्वेदाधीतिकृते गुरुं शुभगुणं वृत्वा च सान्न्दीपनिम् । (सान्दीपिनिम्)
लब्ध्वा षष्टिकला गुरोरथ चतुर्मिश्राश्च तावद्दिनै-
र्दातुं तत्सुतमैच्छदम्बुधिमृतं यो दक्षिणां तं भजे ॥ ६३॥
पारावारे निमग्नो हृतगुरुतनयं दैत्यमन्तर्विचिन्वन्
हत्वादृष्ट्वा सुतं तत्तनुगतममलं पाञ्चजन्यं गृहीत्वा ।
यात्वा लोकं यमस्य स्वयमतिमहितस्तेन सम्पूज्य दत्तं
सङ्गृह्यादात् सुतं तं गुरव उरुदयो यस्तमीशं नमामि ॥ ६४॥
यत्संश्लेषसुखप्रदाः सुरुचिरा रात्रीः स्मरन्त्योऽनिशं
यत्पादाम्बुजसङ्गिगोतरुलताद्यालोकनाद् दुःखिताः ।
यन्नेत्राद्यखिलाद्भुताङ्गधिषणाव्यत्यस्तकार्या व्रजे
यत्सन्देशहरं विलोक्य सुदृशस्तोषं गतास्तं भजे ॥ ६५॥
नन्दादीन् कृष्णचिन्ताहृतनिखिलनिजव्यापृतीन् प्राप्त दुःखान्
नानावाक्यैर्यदीयैर्गुणचरितमुखैः सान्त्वयन् त्यक्तदुःखान् ।
सम्यक् कृत्वा च नीत्वा व्रजभुवि सुमुखः पञ्चषांस्तत्र मासान्
प्राप्तो यं कृष्णदासः कृतहरिवचनो ह्युद्धवस्तं प्रपद्ये ॥ ६६॥
सम्पूज्य स्वगृहागतं हरिमहो कुब्जा यमर्ध्यासन-
स्रक्ताम्बूलमहार्हचन्दनमुखैराश्लिष्य शय्यागतम् ।
रेमे येन सुखप्रवाहविवशा सन्त्यक्तलक्ष्मीधरा-
नीलाभोगचयेन तं मुनिगणैः सन्दृश्यमानं भजे ॥ ६७॥
लीलामर्त्यतनुर्निविश्य सदनेऽक्रूरस्य तेन स्तुतो
मद्भाग्यातिशयाज्जगज्जनिलयस्थित्यादिलीलो हरिः ।
प्राप्तोऽत्रेति सुपूजितः प्रियतमं तं प्राहिणोद् योऽञ्जसा
कौन्तेयादिविमर्शनार्थमधुना गच्छेति तस्मै नमः ॥ ६८॥
गत्वा हस्तिनपत्तनं सतनयां कुन्तीं मुहुः सान्त्वयन्
पृच्छन्तीं बहुशः सहोदरमुखान् भ्रात्रेयमुख्यान् प्रियान् ।
पुत्राणामतिदुःसहान् परिभवानुक्त्वा रुदन्तीं मुहु-
र्नीत्वानेकदिनानि यं शुभगुणोऽक्रूरो ययौ सोऽवतात् ॥ ६९॥
कंसध्वंसविरूपयोः स्वसुतयोर्वाक्याच्छ्वसन् मागधः
संरुन्धन् मधुरामनीकनिवहैर्नानाविधै राजभिः ।
वैकुण्ठागतहेतिना बलयुजा सम्यग् गृहीत्वा मृधे (पुनः)
मुक्तो येन ययौ हृताखिलघनः संलज्जितस्तं भजे ॥ ७०॥
यात्वा कृष्णपुरीं पुनर्विनीहतो बाणं गतो मागधो
बाणप्रेषितकुञ्जराश्वरथयुक् सेनागणैः संवृतः ।
रुद्ध्वा पूर्ववदाशु यादवपुरीं यस्माद् गृहीत्वा शिखां
रामेणाशु जिघांसितो हतबलो मुक्तो ययौ तं भजे ॥ ७१॥
गोमन्तं द्रष्टुकामः पथि मुनिममलं जामदग्निं सरामो
दृष्ट्वा पृष्ट्वा च हत्वा गिरितटनगरे वासुदेवं सृगालम् ।
आरुह्याद्रिं च दृष्ट्वा फलसलिलसुमैर्वासयोग्यं निवृत्तः
प्राप्तं प्राप्तं जघानाखिलबलसहितं मागधं यः स नोऽव्यात् ॥ ७२॥
सम्प्राप्ते यवने सुरर्षिवचनाद् रोद्धुं पुरीं यादवीं
हर्यैर्हेममयैः सुरत्नभवनैः स्वर्गाधिको द्वारकाम् ।
त्वष्ट्रा वज्रमहोनिवारितनिशाबुद्धिं कृतामम्बुधौ
दृष्ट्वावासयदात्मयोगविभवाद् यो यादवांस्तं भजे ॥ ७३॥
तस्यां यत्प्रतिपत्तिभक्तिभयतो देवाश्च सर्वेऽवसन्
दिक्पाला निधयो विधिः सुरतरू रुद्राः सुधर्मादयः ।
सन्दृष्टो यवनेन निर्जनपुराद् भूषावृतो निर्गतो
हन्तुं यत्नवता पलायनपरो योऽनुद्रुतस्तं भजे ॥ ७४॥
रक्षोविद्रुतदेवरक्षणभवच्छ्रान्तिप्रशान्त्यै वरं
लब्ध्वा बोधकनाशमात्मनयनात् सञ्जातनिद्रं चिरात् ।
ऐक्ष्वाकं मुचुकुन्दमेत्य भगवान् दर्यां च तेनागतं
पादाघातविबोधितेन यवनं योऽनाशयत् तं भजे ॥ ७५॥
कस्त्वं कुत्र च जन्म ते वद मम प्रेम्णेति पृष्टो हसन्
भूभारोद्धरणाय मे यदुकुले त्राणाय साधोर्जनिः ।
त्वं मां यास्यसि भाविजन्मनि वरो भूत्वा द्विजः सम्यगि-
त्येवं यो मुचुकुन्दमादिपुरुषोऽवादीत् स्तुतस्तं भजे ॥ ७६॥
हृत्वा तस्य धनं हते तु यवने गच्छन् पुरीं साग्रज-
स्तत्कालागतमागधेन बलिना युध्यन् द्रवन् निर्जितः ।
तेनानुद्रुत आश्रितोऽद्रिशिखरं तस्मिंश्च दग्धे ततो
भूमिं प्राप्य सुशीघ्रगः समगमद् यो द्वारकां तं भजे ॥ ७७॥
गत्वा कन्यकया विधिं वरकृते श्रुत्वा सुगीतिं ततो-
ऽतीतान् पद्मजवाक्यतोऽतिमहतः कालांश्च रामं वरम् ।
आनर्ताधिपरेवतेन तनयां दत्तां प्रियां रेवतीं
सीराकृष्टतनुं शुभामुदवहद् यस्याग्रजस्तं भजे ॥ ७८॥
लक्ष्मीशं लोकनाथं सुतनुमतनुभिः कोटिसङ्ख्यैरतुल्यं
भर्तारं त्वां भजेयं न यदि मम तनुत्याग एव त्वयाहम् ।
हर्तव्या सम्प्रमथ्याखिलनृपतिगणानम्बिकार्थं व्रजन्ती-
त्येवं रुक्मिण्युदन्तं रहसि सुलिखितं योऽशृणोत् तं प्रपद्ये ॥ ७९॥
रुक्मिप्रीतिकृते विदर्भनृपतौ चैद्याय दातुं शुभां
कन्यामिच्छति सत्कृते नृपगणे चैद्ये वरेऽलङ्कृते ।
नानामङ्गलवाद्यपूर्णनगरे गेहे तथालङ्कृते
यं प्राप्तं ह्यवगम्य मोदमगमद् भैष्मी द्विजात् तं भजे ॥ ८०॥
सम्प्राप्तो बहुसेनया सह हरी रामादिभिः कुण्डिनं
भीष्मेणापि सुसत्कृतो नृपतिनोद्याने वसन् सानुगः ।
भैष्मीं पूजितपार्वतीन्द्रमहिषीं यान्तीं गृहं रक्षिता-
मत्युग्रैरपहृत्य योऽनयदरीञ्जित्वा पुरीं सोऽवतात् ॥ ८१॥
भूपान् कृष्णहृतां विलोक्य कुपितान् भैष्मीं निरुध्याहतान्
कृष्णाच्छिन्नपदोरुबाहुशिरसो ज्ञात्वापि रुक्मी व्रजन् ।
युध्यन् येन हताश्वसारथिधनुर्बद्धो रथे शार्ङ्गिणा
मुक्तो मुण्डितमस्तकः प्रतिययौ भैष्मीयुतं तं भजे ॥ ८२॥
नानारत्नमहश्छटाहृतनिशाचिह्नां पुरीं द्वारकां
रम्भापूगसुतोरणध्वजवतीं रम्यां प्रविष्टो हरिः ।
रुक्मिण्या सहितो मुमोद सुकृतोद्वाहोत्सवो मन्दिरे
नानोपायनपाणिभूपतिगणैर्यः पूजितस्तं भजे ॥ ८३॥
सूर्यप्राप्तशमन्तकाख्यसुमणेः सत्राजितो भ्रातरं
कण्ठोद्भासिमणिं निहत्य विपिनेऽगृह्णान्मणिं केसरी ।
हत्वा जाम्बवता तमात्तमणिना येनाश्रिता स्वा गुहा
तं निर्जित्य मृधे मणिं च तनयां तस्याप यस्तं भजे ॥ ८४॥
आरोप्य भ्रातृहत्यां मणिहरणकृते वासुदेवेऽथ तस्मा-
च्छ्रुत्वा तत्पूर्ववृत्तं तमपि मणिवरं लज्जितः सम्प्रगृह्य ।
दत्तां सत्राजिता यः स्वकलुषहतये सत्यभामां शुभाङ्गीं
रम्यां प्रीत्योपयेमेऽमरगणविनुतं तं श्रये वासुदेवम् ॥ ८५॥
निद्रालुं श्वशुरं रुषा शतधनुर्हत्वा मणिं योऽहरत्
तं हत्वा शतयोजनाश्वगमपि ह्यन्विष्य रत्नं हरिः ।
अक्रूरस्थमणिं प्रकाश्य जगतः स्वस्यापकीर्तिं ततः
सत्यारामशुचं क्रुधं च महतीं योऽवारयत् तं भजे ॥ ८६॥
कौन्तेयान् प्राप्य नीत्वा कृतसकलकथो वृष्टिमासान् कदाचिद्
गत्वा पार्थेन साकं वनमथ यमुनां कन्यकां तत्र दृष्ट्वा ।
विष्णोर्नान्यस्य भार्याहमिति रविसुतां संवदन्तीं रथे यः
कालिन्दीं स्थाप्य नीत्वा स्वपुरमुदवहत् तं भजे वासुदेवम् ॥ ८७॥
कन्यां राजाधिदेव्याः स्वसुरपि च पितुः कृष्णकामां निषिद्धां
भ्रातृभ्यां मित्रविन्दां श्रुतसकलकथः प्राप्य विन्दानुविन्दौ ।
आवन्त्यौ तौ प्रमथ्यानयदखिलतनुर्द्वारकां सेनया यः
कृष्णः काले शुभे तामुदवहदपि तं वासुदेवं प्रपद्ये ॥ ८८॥
बद्ध्वा सप्त वृषान् हताखिलनृपान् यः सप्तवर्ष्मा हरिः
सत्यां कोसलभूभृता बहुधर्नैर्दैन्त्यश्वमुख्यैः समम् ।
दत्तां नग्नजिता नयन् निजपुरीं नीलां स्वसैन्यैर्वृतः
प्राप्ते पुण्यदिने प्रियामुदवहत् तं चिन्तये श्रीसखम् ॥ ८९॥
भद्रां यः श्रुतकीर्तिजामुदवहत् पैतृष्वसेयीं तत-
श्चापारोपणशक्तिलेशविधुरैर्भूपैरनेकैः स्तुतः
शीघ्रारोपितचापताडितझषो वीर्यार्जितां लक्ष्मणां
यो मद्राधिपजां प्रियामुदवहन्नीत्वा पुंरीं तं भजे ॥ ९०॥
कृष्णः पत्न्या समेतोऽमरपतिवचनाद् वैनतेयाधिरूढो
गत्वा प्राज्योतिषाख्यं नगरमथ मुरं सानुगं तत्र हत्वा ।
युध्यन्तं युद्धशौण्डं कृतबहुनिधनो भौममप्याशु हत्वा
भूमेः पौत्राय योऽदादभयमतिमुदा भूस्तुतस्तं प्रपद्ये ॥ ९१॥
रत्नाद्रिं प्राहिणोद् योऽमरगणपतये वासवं वारुणं च
च्छत्रं राज्ञे जलानामथ नरकहृतं षोडशस्त्रीसहस्रम् ।
स्वापेक्षं दिव्यरत्नै रथतुरगधनैः कुञ्जराद्यैः समेतं
श्वेतैर्दिव्यैर्गजेन्द्रैरनयदखिलदृक् स्वां पुरीं तं नमामि ॥ ९२॥
गत्वा तार्क्ष्याधिरूढोऽमरपतिभवनं सत्यया भौमगेहाद्
वित्तै रत्नैर्मघोनामरपुरमहितो मातरं तत्र नत्वा ।
मात्रे दित्यै स्वपत्न्या क्षितितनयहृतं कुण्डलं दापयित्वा
पत्नीप्रीत्यै विवेशामरपतिदयितं नन्दनं यो भजे तम् ॥ ९३॥
हर्तव्यः पारिजातः सुरपतिमहिषीगर्वहेतुः सुरम्यो
देव्यैवं प्रेरितो योऽमरपतिदयितं पारिजातं च हृत्वा ।
तत्कोपायातरुद्रान्तकमुखविबुधान् देवराजं च जिवा
सत्याहूतेन तेन स्तुतनिजमहिमा स्वां पुरीं प्राप सोऽव्यात् ॥ ९४॥
यत्पुत्रः शूलिदत्तो ह्यगतदशदिनः शम्बरेण प्रगृह्य
क्षिप्तोऽम्भोधौ निगीर्णो झषजठरगतो धीवरैः सङ्गृहीतात् ।
मीनात् तस्माद्धताङ्गादवनिमधिगतः शम्बरस्यैव गेहे
हृत्वा तं शम्बरारिं निजपुरमगमद् भार्यया तं प्रपद्ये ॥ ९५॥
हत्वा कृत्रिमशङ्खचक्रगरुडं पौण्ड्रं हरिः स्वाग्रजं
तत्साहाय्यकरं च काश्यधिपतिं मातामहं संयुगे ।
कृत्यां तत्सुतकल्पितां निजपुरीदाहाय चक्रेण यो
विद्राव्याश्चदहत् तया तमपि तद्वाराणसीं तं भजे ॥ ९६॥
कृष्णः प्राप्तशमन्तपञ्चकमहाक्षेत्रो ग्रहे भास्वतो
नानादेशसमागताखिलनृपैः सम्पूजितः सानुगः ।
पार्थैर्नन्दमुखैः सबन्धुवनिता भृत्यैस्तथा योगिभिः
पित्रा क्षेत्रकृते मखे सुमहितो योऽगात् पुरी सोऽवतात् ॥ ९७॥
पट् पुत्राः कंसभग्णाः किल मम भगवंस्तान् प्रयच्छेति मातुः
श्रुत्वा वाक्यं सरामो बलिसदनगतस्तेन सम्पूज्य दत्तान् ।
ऊर्णाज्जातान्मरीचेः प्रहसनकुपिताद् देवलाद् दानवांस्तान्
हैरण्यान देवकीजाननयदथ हतान् मातरं यः स नोऽव्यात् ॥ ९८॥
पारावारप्रविष्टान् नृपगणचकितांस्त्यक्तराजासनान् न-
स्त्यक्त्वा भूपेषु योग्यं कमपि भज नृपं यः स्वचेतः प्रविष्टः ।
इत्युक्ता भीष्मपुत्री रहसि भगवता प्रेमकोपानभिज्ञा
स्वत्यागात्यन्तभीता पुनरपि बहुशो लालिता येन सोऽव्यात् ॥ ९९॥
भैष्मी जाम्बवती प्रिया भगवतः सत्याय कालिन्द्यतो
मित्रा नग्नजितः सुता च सुभगा भद्रा तथा लक्ष्मणा ।
एकैका समजीजनद् दश सुतान् यस्मात् तथा षोडश-
स्त्रीसाहस्रभवैः सुतैः सुबहुभिः पूर्णा नही तं भजे ॥ १००॥
प्रद्युम्नेनोद्धृतायाः स्वदुहितुरुदितायानिरुद्धाय पौत्रीं
दत्त्वा तस्मिन् विवाहे प्रियबलसहितः सम्यगक्षैर्विदीत्र्यन् ।
जेतारं तं जितोऽसीत्यपनयवचनात् तेन रुक्मी हतोऽभूद्
यस्य स्यालोऽग्रजेन श्रितनिजनगरः सानुगः सोऽवतान्नः ॥ १०१॥
सौवर्णायुतषट्सहस्रवनितागेहेषु रत्नोल्लस-
न्नानासौधविराजितेषु कलये शौरिं लसन्तं पृथक् ।
ध्यानस्तोत्रजपार्चनप्रणमनस्वाध्यायहोमार्हण-
क्रीडानृत्तसुद्दृग्विहारललितालापाङ्गचेष्टादिभिः ॥ १०२॥
श्रुत्वा मागधमन्दिरे नृपगणैरुद्धैर्हरिः प्रेषिता-
द्धत्वा मागधमीश्वराद्य कृपया त्राहीति नस्तद्वचः ।
आहूतोऽथ यियक्षुणा सुरमुनेर्वाक्यात् पृथासूनुना
शक्रप्रस्थमगात् सरामदयितासेनस्तमेवाश्रये ॥ १०३॥
गत्वा ब्राह्मणभीमफल्गुनयुजा जन्यं मया ब्रह्मणा
भिक्षां याचित एत्य मागधनृपो युध्यन् रणे घातितः ।
भीमेनैव विपाटितो मृतिमगात् काष्ठा जिता भ्रातृभिः
पार्थातः कुरु राजसूयमिति योऽवादीत् तमव्यात् स नः ॥ १०४॥
अण्डानामधिपे वशे मयि सदा कौन्तेय के तेऽवशा-
स्तस्मात् साधय राजसूयमिति यद्वाक्यात् स धर्मात्मजः ।
नानादेशसमागतैर्नृपगणैः साकं मुनीन्द्रैः सुरै-
र्ब्रह्माद्यैरकरोत् प्रियं क्रतुवरं कृष्णाय तस्मै नमः ॥ १०५॥
सुत्येऽहन्युदिते सदस्यनुपमे प्राप्तेऽग्र्यपूजाविधी
कस्य स्यादखिलेश्वरं हरिमृते पूजेति धर्मात्मजः ।
यत्पादाववनिज्य तेन पयसा सम्प्रोक्ष्य मूर्ध्नोऽखिला-
नात्मानं च परान् हताखिलमलान् मेने स नोऽव्याद्धरिः ॥ १०६॥
गोपस्त्यक्तनृपासनोऽम्बुधिगतो दुर्वृत्त कर्मा कथं
पूज्यः स्यान्महतो विहाय सदसि ज्ञात्रेति चैद्यो वदन् ।
चक्रच्छिन्नशिराः क्षितौ विनिपतन् देहोद्गतज्वालया
सर्वेषां मिपतां यमाप विगते शापे तमेवाश्रये ॥ १०७॥
राजानं धर्मपुत्रं मुनिनृपतिगणैः स्तूयमानं सभायां
द्रष्टुं गच्छञ्जलेऽपि स्थलमिति निपतन् दृष्ट उच्चैर्हसद्भिः ।
सद्यो गच्छन् निवृत्तः स्वपुरमपि जवाद् धार्तराष्ट्रोऽतिकोपाद्
येनैवोपेक्षितोऽभूदवनिभरभृता सोऽवताद् वासुदेवः ॥ १०८॥
साल्वः कृष्णहताग्रजो निजतपस्तुष्टाच्छिवात् कामगां
लब्ध्वा सौभपुरीं तया सह गतो भङ्क्त्वा पुरीं द्वारकाम् ।
प्रद्युम्नप्रमुखैर्जितो बहुदिनं युध्यन् गतः शौरिणा
येनानुद्रुत आगतेन निहतः साकं पुरा तं श्रये ॥ १०९॥
कृष्णः प्राप्तः सुधर्मां बहुनृपतिगणैः सेवितो ब्राह्मणोक्त्या
पाञ्चालीगात्रवस्त्रापहरणमुदिताद् धार्तराष्ट्रादरण्यम् ।
प्राप्तं सभ्रातृभार्यं जितहृतसकलं पार्थमक्षैर्विदित्वा
यो गत्वाश्वास्य तेनोदितसकलकथोऽगात् पुरीं स्वां श्रये तम् ॥ ११०॥
दत्त्वा ब्राह्मणदत्तगामपि पुनर्गोभिर्नृगो ब्रह्मणे
स्वामिभ्यां कलहात् समेत्य गदितो दत्तापहर्तेत्यथ ।
तद्दोषात् कृकलासतामुपगतः श्वभ्रे चिरं संवसन्
स्पर्शाद् यस्य नृपो भवन् यमनघो नत्वा गतस्तं भजे ॥ १११॥
नन्दादीन् प्राप्य मासैस्त्रिभिरमितगुणां वर्णयन् कृष्णचर्यां
कुर्वन् सन्त्यक्तदुःखान् व्रजभुवि विहरन् वारुणीपानमत्तः ।
क्रीडार्थं गोपिकाभिः सह रवितनयां राम आहूय कोपा-
दप्राप्तामाचकर्षाग्रज उरुहलतो यस्य तं संश्रयेऽहम् ॥ ११२॥
साम्बो यस्य सुतः सुयोधनसुतामाहृत्य युध्यन् नृपै
रुद्धो हस्तिनपत्तने हत इति श्रुत्वाथ यस्याग्रजः ।
यात्वा कौरवपूजितः पुनरधिक्षिप्तो हलात् तत्पुरं
जाह्नव्यां विनिपातयन् स्वसुतयुक् तैराहतस्तं भजे ॥ ११३॥
गोपीभिर्विहरन् विभावसुभवाकच्छे मनोज्ञानिले
छायायां फलपुष्पपूर्णसुतरो रामो व्रजे वृक्षगम् ।
भ्रूक्षेपैर्गुददर्शनेन च शिलाक्षेपादिभिर्हुङ्कृतै-
र्युध्यन्तं द्विविदं क्षणेन हतवान् यस्याग्रजस्तं भजे ॥ ११४॥
दारिद्र्यात्यन्तखिद्यद्वितपरमहिलादुःखवाक्यप्रणुन्नं
प्राप्तं प्रेम्णा कुचेलं बहुमणिखचिते स्वासने सम्प्रपूज्य ।
तत्कन्थावेष्टितं यः पृथुकमतिमुदा मुष्टिमेयं प्रजग्धं
तद्गेहं वित्तमुक्तामणिनिधिमकरोत् तं भजे वासुदेवम् ॥ ११५॥
गत्वा मैथिलपत्तनं बहुजनैः सार्धं मुनीन्द्रैर्हरी
रूपाभ्यां श्रुतदेववेश्म बहुलाश्वस्यापि वेश्मैकदा ।
अन्योन्याविदितः प्रविश्य कृपया ताभ्यां स्तुतः पूजितो
भक्तौ तावनुगृह्य यः पुरमगात् स्वीयां तमेव श्रये ॥ ११६॥
यस्य स्वात्मशयं क्षिपामि शिरसि स्यात् तत्क्षणाद् भस्मसाद्
देहि त्वं वरमीश्वरेति वदते दत्त्वा वरं शङ्करः ।
तत्सिद्धिप्रमितिप्रसारितकरं स्प्रष्टुं शिरः स्वं वृकं
दृष्ट्वा प्रव्यथिनः पलायनपरो येनावितस्तं भजे ॥ ११७॥
सत्रे ब्रह्मसुतो भृगुर्मुनिगणैः पारम्यनिर्धारणे (धर्मसुतो)
सन्दिष्टो विधिमेत्य तं प्रकुपितं ज्ञात्वास्तवाच्छङ्करम् ।
प्राप्तस्तेन जिघांसितः प्रतिघयानाश्लेषणान्माधवं
वैकुण्ठे प्रहरन् पदातिमहितो येनावितस्तं भजे ॥ ११८॥
भूभृत्पापहतात्मजाग्रजशिशुप्राणावनैकव्रती
कृत्वा बाणगृहं शिशोरसुमवन् नष्टे शिशौ फल्गुनः ।
गत्वा देवगृहांस्तदीयतनयालब्ध्याग्निवेशोद्यमी
वैकुण्ठस्थिततत्सुतान् प्रददता येनावितस्तं भजे ॥ ११९॥
सन्तीर्णाज्ञातवासान् हरिरखिलनुतो गोग्रहप्राप्तयुद्धान्
प्राप्ताञ्श्रुत्वाथ गत्वा कृतबहुवचनो हस्तिनं प्राप्य दूतः ।
भुक्त्वा भक्त्यान्नमिष्टं विदुरगृहगतो वीक्ष्य यो धार्तराष्ट्रान्
तेषां स्वद्रोहचिन्तामहरदथ निजाद् वैश्वरूप्याद् भजे तम् ॥ १२०॥
भूत्वा फल्गुनसारथी रथगतः सेनाद्वयान्तर्गतो
बन्धुस्नेहनिवृत्तयुद्धविजयप्रोत्साहनव्याजतः ।
देहात्मस्वगतिं विमुक्तिपदवीं साङ्गां स्वभक्तिं ततो
ऽशक्तानामपि मुक्तिदं स्वचरणं योऽगायदव्यात् स नः ॥ १२१॥
दत्त्वा दिव्यदृशं हरिः करुणया यो विश्वरूपं मह-
न्नानामस्तकनेत्रबाहुचरणं बीभत्सवेऽदर्शयत् ।
कोट्यर्कोज्ज्वलमङ्गसङ्गतजगद् ब्रह्मादिभिः सन्नुतं
नानादंष्ट्रमुखाद्यमानजनताभीमं स देवोऽवतात् ॥ १२२॥
शान्तं शान्तनवं हरिं नवदिनैः कृत्वा शिखण्डात्मको
धृष्टद्युम्नतनुर्मृधे विनिहतं द्रोणं दिनैः पञ्चभिः ।
कर्णं चार्जुनतो हतं त्रिदिवसैः शल्यं च धर्मात्मजात्
सायं भीमहतं सुयोधनमगाद् यस्तोषमव्यात् स नः ॥ १२३॥
शप्तः स्त्रीवेषसाम्बोदरगतमुसलाकारलोहप्रचूर्ण-
प्रोत्पन्नैरेरकाग्रैः कुभरनिजकुलं नाशयित्वा मिथो यः ।
रामास्योद्वान्तशेषं जलपतिविनुतं तत्प्रविष्टं प्रपश्य-
न्निन्द्रेण प्रार्थितोऽभून्निजपदगतये तं प्रपद्ये मुरारिम् ॥ १२४॥
प्राप्ते हेतिगणे विमुक्तिपदवीं भित्त्वा रवेर्मण्डलं (मुखे)
पुर्या मज्जनमम्बुधौ स्वगमनं स्वानां परिज्ञाप्य यः ।
लुब्धोत्सृष्टशराहताङ्घ्रिकमलः स्वः प्रापयन् तं क्षणात्
प्रायाद् धाम निजं हृतावनिभरं नारायणं तं भजे ॥ १२५॥
श्रीवासुदेवचरितानि मलापहानि
पुण्यानि मुक्तिफलदान्यतिमानुषाणि ।
यो वेत्ति चिन्तयति वक्ति शृणोति नित्यं
प्राप्नोति मुक्तिमचिरात् स मुकुन्ददृष्टः ॥ १२६॥
इति श्री (अशोक) रघुनाथाचार्येण विरचितं गोपालशतकं सम्पूर्णम् ।
हरिः ॐ । श्रीनिवासरामानुज महादे शिकाय नमः ।
श्रीमद्वेदान्तरामानुजमहादेशिकाय नमः ।
स्तोत्रसमुच्चयः २ (५५)
Proofread by Rajesh Thyagarajan