श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम्

श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम्

श्रीविद्याराजगोपालाभिधश्रीमहावैकुण्ठेश्वरस्वरूप श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम् ॥ पार्वत्युवाच - देवदेव महादेव महावैष्णवतल्लज । जीववातपुरेशस्य माहात्म्यमखिलं त्वया ॥ १॥ मन्त्रतन्त्ररहस्याढ्यैः सहस्राधिकनामभिः । अद्य मे प्रेमभारेणोपन्यस्तमिदमद्भुतम् ॥ २॥ महावैकुण्ठनाथस्य प्रभावमखिलं प्रभो । सङ्ग्रहेण श्रोतुमद्य त्वरायुक्तास्म्यहं प्रभो ॥ ३॥ यस्य श्रवणमात्रेण जीववृन्देषु सर्वतः । नातिकृच्छ्रेण यत्नेन लसेयुः सर्वसिद्धयः ॥ ४॥ तादृशं सुलभं स्तोत्रं श्रोतुमिच्छामि त्वन्मुखात् । ईश्वर उवाच - महादेवि शिवे भद्रे जीववातपुरेशितुः ॥ ५॥ माहात्म्यवारिधौ मग्नः पूरयामि त्वदीप्सितम् । पूर्वं यन्नामसाहस्रं तस्य देवस्य भाषितम् ॥ ६॥ तस्यादौ विजृम्भमाणैरष्टाधिकशतेन तु । नामभिर्निर्मितं स्तोत्रं सर्वसिद्धिविधायकम् ॥ ७॥ पठितुं नामसाहस्रं अशक्ताः सन्ति ये शिवे । तेषामर्थे स्तोत्रमेतत्सङ्गृहीतं फलप्रदम् ॥ ८॥ अनुकूलौ देशकालौ यस्य स्तो जगतीह तु । पठितव्यं तेन नामसाहस्रं यत्नतः शिवे ॥ ९॥ आलस्यदूषिते चित्ते विश्वासरहिते तथा । गुरुवातपुरेशस्य न हि मूर्तिः प्रसीदति ॥ १०॥ गुरोरन्यत्र विश्वासी तथा वातपुरेशितुः । कथमेतत्फलं प्रोक्तं यथावदधिगच्छति ॥ ११॥ एक एव गुरुर्यस्य वैकुण्ठो यस्य दैवतम् । तस्य भक्तस्य नूनं हि स्तोत्रमेतत्फलिष्यति ॥ १२॥ अद्य ते देवि वक्ष्यामि नाम्नामष्टोत्तरं शतम् । स्तोत्रराजमिमं पुण्यं सावधानमनाः श‍ृणु ॥ १३॥ स्तोत्रस्यास्य ऋषिः प्रोक्तो दक्षिणामूर्तिरीश्वरः । छन्दोऽनुष्टुप् तथा देवो गुरुवायुपुरेश्वरः ॥ १४॥ रमाशक्तिस्मरैर्बीजैः बीजशक्ती च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ १५॥ मूलमन्त्रस्य षड्भागैः कराङ्गन्यासमाचरेत् । महावैकुण्ठरूपेण ध्यातव्यात्र हि देवता ॥ १६॥ इन्द्रनीलसमच्छायं पीताम्बरधरं हरिम् । शङ्खचक्रगदापद्मैर्लसद्बाहुं विचिन्तयेत् ॥ १७॥ ध्यानम् - क्षीराम्भोधिस्थकल्पद्रुमवनविलसद्रत्नयुङ्मण्टपान्तः शङ्खं चक्रं प्रसूनं कुसुमशरचयं चेक्षुकोदण्डपाशौ । हस्ताग्रैर्धारयन्तं सृणिमपि च गदां भूरमाऽऽलिङ्गितं तं ध्यायेत्सिन्दूरकान्तिं विधिमुखविबुधैरीड्यमानं मुकुन्दम् ॥ अथ अष्टोत्तरशतनामस्तोत्रम् । महावैकुण्ठनाथाख्यो महानारायणाभिधः । तारश्रीशक्तिकन्दर्पचतुर्बीजकशोभितः ॥ १९॥ गोपालसुन्दरीरूपः श्रीविद्यामन्त्रविग्रहः । रमाबीजसमारम्भो हृल्लेखासमलङ्कृतः ॥ २०॥ मारबीजसमायुक्तो वाणीबीजसमन्वितः । पराबीजसमाराध्यो मीनकेतनबीजकः ॥ २१॥ तारशक्तिरमायुक्तः कृष्णायपदपूजितः । कादिविद्याद्यकूटाढ्यो गोविन्दायपदप्रियः ॥ २२॥ कामराजाख्यकूटेशो गोपीजनसुभाषितः । वल्लभायपदप्रीतः शक्तिकूटविजृम्भितः ॥ २३॥ वह्निजायासमायुक्तः परावाङ्मदनप्रियः । मायारमासुसम्पूर्णो मन्त्रराजकलेवरः ॥ २४॥ द्वादशावृतिचक्रेशो यन्त्रराजशरीरकः । पिण्डगोपालबीजाढ्यः सर्वमोहनचक्रगः ॥ २५॥ षडक्षरीमन्त्ररूपो मन्त्रात्मरसकोणगः । पञ्चाङ्गकमनुप्रीतः सन्धिचक्रसमर्चितः ॥ २६॥ अष्टाक्षरीमन्त्ररूपो महिष्यष्टकसेवितः । षोडशाक्षरमन्त्रात्मा कलानिधिकलार्चितः ॥ २७॥ अष्टादशाक्षरीरूपोऽष्टादशदलपूजितः । चतुर्विंशतिवर्णात्मगायत्रीमनुसेवितः ॥ २८॥ चतुर्विंशतिनामात्मशक्तिवृन्दनिषेवितः । क्लीङ्कारबीजमध्यस्थः कामवीथीप्रपूजितः ॥ २९॥ द्वात्रिंशदक्षरारूढो द्वात्रिंशद्भक्तसेवितः । पिण्डगोपालमध्यस्थः पिण्डगोपालवीथिगः ॥ ३०॥ वर्णमालास्वरूपाढ्यो मातृकावीथिमध्यगः । पाशाङ्कुशद्विबीजस्थः शक्तिपाशस्वरूपकः ॥ ३१॥ पाशाङ्कुशीयचक्रेशो देवेन्द्रादिप्रपूजितः । लिखितो भूर्जपत्रादौ क्रमाराधितवैभवः ॥ ३२॥ ऊर्ध्वरेखासमायुक्तो निम्नरेखाप्रतिष्ठितः । सम्पूर्णमेरुरूपेण सम्पूजितोऽखिलप्रदः ॥ ३३ मन्त्रात्मवर्णमालाभिः सम्यक्शोभितचक्रराट् । श्रीचक्रबिन्दुमध्यस्थयन्त्रसंराट्स्वरूपकः ॥ ३४॥ कामधर्मार्थर्फलदः शत्रुदस्युनिवारकः । कीर्तिकान्तिधनारोग्यरक्षाश्रीविजयप्रदः ॥ ३५॥ पुत्रपौत्रप्रदः सर्वभूतवेतालनाशनः कासापस्मारकुष्ठादिसर्वरोगविनाशकः ॥ ३६॥ त्वगादिधातुसम्बद्धसर्वामयचिकित्सकः । डाकिन्यादिस्वरूपेण सप्तधातुषु निष्ठितः ॥ ३७॥ स्मृतिमात्रेणाष्टलक्ष्मीविश्राणनविशारदः । श्रुतिमौलिसमाराध्यमहापादुकलेवरः ॥ ३८॥ महापदावनीमध्यरमादिषोडशीद्विकः । रमादिषोडशीयुक्तराजगोपद्वयान्वितः ॥ ३९॥ श्रीराजगोपमध्यस्थमहानारायणद्विकः । नारायणद्वयालीढमहानृसिंहरूपकः ॥ ४०॥ लघुरूपमहापादुः महामहासुपादुकः । महापदावनीध्यानसर्वसिद्धिविलासकः ॥ ४१॥ महापदावनीन्यासशताधिककलाष्टकः । परमानन्दलहरीसमारब्धकलान्वितः ॥ ४२॥ शताधिककलान्तोद्यच्छ्रीमच्चरणवैभवः । शिर-आदिब्रह्मरन्ध्रस्थानन्यस्तकलावलिः ॥ ४३॥ इन्द्रनीलसमच्छायः सूर्यस्पर्धिकिरीटकः । अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितः ॥ ४४॥ कस्तूरीतिलकोद्भासी कारुण्याकुलनेत्रकः । मन्दहासमनोहारी नवचम्पकनासिकः ॥ ४५॥ मकरकुण्डलद्वन्द्वसंशोभितकपोलकः । श्रीवत्साङ्कितवक्षःश्रीः वनमालाविराजितः ॥ ४६॥ दक्षिणोरः प्रदेशस्थपराहङ्कृतिराजितः । आकाशवत्क्रशिष्ठश्रीमध्यवल्लीविराजितः ॥ ४७॥ शङ्खचक्रगदापद्मसंराजितचतुर्भुजः । केयूराङ्गदभूषाढ्यः कङ्कणालिमनोहरः ॥ ४८॥ नवरत्नप्रभापुञ्जच्छुरिताङ्गुलिभूषणः । गुल्फावधिकसंशोभिपीतचेलप्रभान्वितः ॥ ४९॥ किङ्किणीनादसंराजत्काञ्चीभूषणशोभितः । विश्वक्षोभकरश्रीकमसृणोरुद्वयान्वितः ॥ ५०॥ इन्द्रनीलाश्मनिष्पन्नसम्पुटाकृतिजानुकः । स्मरतूणाभलक्ष्मीकजङ्घाद्वयविराजितः ॥ ५१॥ मांसलगुल्फलक्ष्मीको महासौभाग्यसंयुतः । ह्रींङ्कारतत्त्वसम्बोधिनूपुरद्वयराजितः ॥ ५२॥ आदिकूर्मावतारश्रीजयिष्णुप्रपदान्वितः । नमज्जनतमोवृन्दविध्वंसकपदद्वयः ॥ ५३॥ नखज्योत्स्नालिशैशिर्यपरविद्याप्रकाशकः । रक्तशुक्लप्रभामिश्रपादुकाद्वयवैभवः ॥ ५४॥ दयागुणमहावार्धिर्गुरुवायुपुरेश्वरः । फलश्रुतिः - इत्येवं कथितं देवि नाम्नामष्टोत्तरं शतम् ॥ ५५॥ गुरुवायुपुरेशस्य सर्वसिद्धिविधायकम् । कृष्णाष्टमीसमारब्धमासेनैकेन सिद्धिदम् ॥ ५६॥ कृष्णाष्टमीं समारभ्य यावदन्याऽसिताऽष्टमी । तावत्कालं स्तोत्रमेतत् प्रत्यहं शतशः पठेत् ॥ ५७॥ मातृकापुटितं कृत्वा हित्वाऽऽलस्यं सुमङ्गले । एकान्तभक्तियुक्तो हि गुरुवायुपुरेश्वरे ॥ ५८॥ जीवन्नेव स भक्ताग्र्यो माधवाधिष्ठितो भवेत् । तप्तकाञ्चनगौरे हि तच्छरीरे सदा लसन् ॥ ५९॥ गुरुवायुपुराधीशोऽद्भुतानि हि करिष्यति । अत आवां महेशानि गच्छावः शरणं हि तम् ॥ ६०॥ कारुण्यमूर्तिमीशानं गुरुवायुपुरेश्वरम् । उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने ॥ ६१॥ महावैकुण्ठनाथस्य गुरुवायुपुरेशितुः । अष्टोत्तरशतं नाम्नां सर्वसिद्धिविलासकम् । अध्यायं सप्तमं पूर्णमवदातं करोत्युमे ॥ ६२॥ इति श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नं सम्पूर्णम् । ॥ शुभम् ॥ Proofread by Aruna Narayanan narayanan.aruna at gmail.com, PSA Easwaran
% Text title            : guruvAyupureshvarAShTottarashatanAmastotram
% File name             : guruvAyupureshvarAShTottarashatanAmastotram.itx
% itxtitle              : guruvAyupureshvarAShTottarashatanAmastotram
% engtitle              : guruvAyupureshvarAShTottarashatanAmastotram
% Category              : vishhnu, aShTottarashatanAma
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com, PSA Easwaran
% Latest update         : November 29, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org