हरिहरप्रार्थना

हरिहरप्रार्थना

(* गीतिवृत्तम) किमु (१)माधव! । भगवन् ! मामतिदीनमुपेक्षसे? न युक्तमिदं । भो (२)नाथ! भवव्यसने त्राता त्वं परमवत्सलो वरदः ॥ १॥ प्रभुता जगत्सु भवतो नतजनभवदुःखलय (३)महादेव! । कुरु हर! उचितं शुचि तं स्वयमेव स्वं विचिन्त्य महिमानम् ॥ २॥ (४)मामव शम्भो! । भगवन्नवनीरदनीलकण्ठ ! पतितं त्वम्; किमशक्यं तव लोके करुणावरुणालय! प्रभोरेतत् ॥ ३॥ गौरीश(५)! । ननु त्राता भवता शरणागता निकामहित ! यशसाखिलसाधुप्तभा कामं (६)शोभनन्दशावतारमिता ॥ ४॥ न(७) हि केशव! । तुल्यास्ते भक्ता व्यक्तातिशयितवात्सल्य ! मन्तुं क्षमस्व नमतो भवतापं चास्य हर! दया कार्या ॥ ५॥ भो भव(८) हर! । शरणागतसङ्गोपनसहताच्युत! स्वामिन् ! का(९) मदनकाल! शक्तिः प्रभवति पुरतस्तव प्रभो स्थातुम् ॥ ६॥ जगतां गुरुं विना त्वां संसारे कोऽत्र (१०)वामदेव हितः । न (११) रमापतेऽद्य मातं त्राता भ्राता सखा पिता पुत्रः ॥ ७॥ पालयसि सर्वमपि जनमचिरात्कर्पूरगौर! । कीर्तिरतं । एतमपि तथा पालय (१२)भालयमेतु त्वमेव देव गतिः ॥ ८॥ प्रभुरसि यशः श्रुतं ते कृतवांस्त्वं पर्वतं(१३) पुरारेणुम् । धाव विनाशं कर्तुं मम पापस्याशु तोषकरकीर्ते ! ॥ ९॥ याचे स्वां निस्तारं भ्रान्तोऽत्र चिरं (१४)भवान्धकारेऽहम् । मा राधिकाप्रिय! त्यज मा करुणानीरदाश्रितमयूरम् ॥ १०॥ इति श्रीरामनन्दनमयूरेश्वरकृता श्रीहरिहरप्रार्थना समाप्ता तदपितास्तु । टिप्पणि * अत्र कविः सभङ्गश्लेषभड्गीमनुसृत्य सम्बोधनैर्हरि हरं च स्वोद्धाराय विज्ञापयति । १। ``किं उमाधव'' इति ``किमु माधव'' इति च पदच्छेदः । २। नाथ भव इति हरपक्षे सम्बुद्धिदयम् । हरिपक्षे तु नाथ भवव्यसने संसारदुःखे त्वं त्राता इति योज्यम् । ३। महान् देवो महादेव इति हर इति चोभयत्रापि योज्यम् । ४। हरिपक्षे मां अवशं भोः भगवन् अब नीरदनील कण्ठपतितं इति पदच्छेदः। भो नीरदनील घनश्याम भगवन् कण्ठपतितं मामवेत्यन्वयः । हरपक्षे तु मां अव शम्भो भगवन् नवनीरदनीलकण्ठ पतितं इति पदच्छेदः । अन्वयस्तु सुलभः । ५। हरिपक्षे गौः ईश इति पदच्छेदः । गौः पृथिवी । ६। हरपक्षे शोभनदश अवता रमिता इति पदच्छेदः । शोभनदशेति सम्बुद्धिपदम् । हरिपक्षे शोभनदशावतारं इता इति पदच्छेदः । ७। प्रथमार्धं, हरिपरम् । द्वितीयार्धे तु हरिपक्षे नमतो भक्तस्य मन्तुमपराधं क्षमस्व भवतापं चास्य हरेत्यन्वयः । हरपक्षे तु हे पञ्चास्य, भवता दया कार्या इत्यन्वयः । ८। हरिपक्षे भवहरेत्येकं पदम् । हरपक्षे तु पदद्वयम् । तद्वदेव हरिपक्षे शरणागत सद्रत अच्युत इति पदच्छेदः । हरपक्षे तु शरणागतसद्रतादच्युत इति पञ्चमीसमासः । ९। हरिपक्षे हे कामद कालशक्तिस्तवपुरतः स्थातुं न प्रभवतीत्यन्वयः । हरपक्षे तु हे मदनकाल का शक्तिस्तव पुरतः स्थातुं प्रभवतीत्यन्वयः । १०। हरिपक्षे वा मदे अवहितः इति पदच्छेदः । हरपक्षे तु वामदेव हितः इति । ११। हरिपक्षे न रमापते अद्य मा आर्तं इति पदच्छेदः । भ्रात्रादयस्त्रातारो न सन्तीत्यर्थः । हरपक्षे तु नरं आपतेत् यमार्तं इति पदच्छेदः । यमार्तं नरं भ्रात्रादयो न त्रातुमापतेयुर्गच्छेयुरित्यर्थः । १२। प्रथमार्धं हरपरम् । द्वितीयार्धे तु हरिपक्षे मालय मे तु इति पदच्छेदः । मालय लक्ष्मीनिवास । हरपक्षे मा लयं एतु इति पदच्छेदः । १३। हरिपक्षे पर्वतं पुरा रेणुं इति पदच्छेदः । रेणुवल्लघुमित्यर्थः । हरपक्षे त पुरारे अणुं इति पदच्छेदः । द्वितीयार्थे त हर पक्षे तु आशुतोष करकीर्ते इति सम्बुद्धौ पदद्वयम् । मम पापस्य विनाशं कर्तुं धावेत्यन्वयः । हरिपक्षे तोषकरकीर्ते इत्येकं पदम् । १४। प्रथमार्थे हरपक्षे भव इति भिन्नं पदम् । हरिपक्षे तु भवान्धकारे इत्येकमेव । द्वितीयार्धे तु हरिपक्षे हे राधिकाप्रिय करुणानीरद आश्रितं मयूरं मां मा त्यजेत्यन्वयः । हरपक्षे तु मारस्य मदनस्याधिकमप्रिय इत्येकं पदं। शेषं समानं । Proofread by Rajesh Thyagarajan
% Text title            : Harihara Prarthana
% File name             : hariharaprArthanA.itx
% itxtitle              : hariharaprArthanA (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : hariharaprArthanA
% Category              : vishhnu, vishnu, moropanta, shiva
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : shiva
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org