श्रीहरिमनोहरमहामन्त्रः
॥ विनियोगः ॥
ॐ अस्य श्रीहरिमनोहरमहामन्त्रस्य वासुदेव ऋषिः । गायत्री छन्दः ।
श्रीत्रिपुरा देवता । हरे बीजम् । कृष्णः शक्तिः । रामः कीलकम् ।
मम भगवद्भक्तिप्राप्त्यर्थं, अन्तःकरणशुद्ध्यर्थं,
प्रेमरससिद्ध्यर्थं, चतुर्वर्गफलप्राप्त्यर्थं च जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
वासुदेवऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीत्रिपुरादेवतायै नमः हृदि ।
हरे बीजाय नमः गुह्ये ।
कृष्णशक्तये नमः नाभौ ।
रामकीलकाय नमः पादयोः ।
विनियोगाय नमः सर्वाङ्गे ॥
॥ करन्यासः ॥
हरे कृष्ण अङ्गुष्ठाभ्यां नमः ।
हरे कृष्ण तर्जनीभ्यां स्वाहा ।
कृष्ण कृष्ण मध्यमाभ्यां वषट् ।
हरे हरे अनामिकाभ्यां हुं ।
हरे राम कनिष्ठिकाभ्यां वौषट् ।
हरे राम राम राम हरे हरे करतलकरपृष्ठाभ्यां फट् ॥
॥ षडङ्गन्यासः ॥
हरे कृष्ण हृदयाय नमः ।
हरे कृष्ण शिरसे स्वाहा ।
कृष्ण कृष्ण शिखायै वषट् ।
हरे हरे कवचाय हुं ।
हरे राम नेत्रत्रयाय वौषट् ।
हरे राम राम राम हरे हरे अस्त्राय फट् ॥
॥ ध्यानम् ॥
वृन्दावने रम्यनिकुञ्जमध्ये
वेणुं वहन्तं नवनीलमेघम् ।
बर्हावतंसं वनमाल्यशोभं
वन्दे मुकुन्दं मधुराधिनाथम् ॥
राधासमालिङ्गितवामभागं
मन्दस्मितं कुण्डलदीप्तगण्डम् ।
प्रेमामृताब्धिं परमं दयालुं
ध्यायेच्चित्ते हरिमनोहरं तम् ॥
मन्त्रः -
हरे कृष्ण हरे कृष्ण ।
कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम ।
राम राम हरे हरे ॥
॥ इति श्रीराधातन्त्रे श्रीहरिमनोहरमहामन्त्रः ॥
Encoded and proofread by Durga Sharma