श्रीहरिनीराजनस्त्रोत्रम्
अथ चारार्तिकं स्तोत्रं वक्ष्ये परमशोभनम् ।
यद्गीयते ललितया वृन्दावनमहेशितुः ॥ १॥
जय निगमागमगीतमहोदयश्रीव्रजराज हरे !
सच्चित्सुखघनस्वात्ममहित्वे रमसे प्रकृतिपरे ।
नित्याखण्डे सुखां निजलीलां कर्त्तुं दृक्प्रसरे !
यो राधसा द्विधात्मनि धत्ते पुंस्त्रीरूपवरे ॥ २॥
वामांशतोऽस्य वामं नित्यायूथशतं
सौभाग्यैकनिकेतं स्वामिन्या विततम् ।
जातं ततोऽन्यतोऽपि लीलानुप्रकृतं (?)
गोगोपालीविपिनविहारं प्रकटानन्दभृतम् ॥ ३॥
फुल्लेन्दीवरसुन्दररूपं लावण्यैकधनं
परमोदारचरित्रं कल्याणैकधनम् ।
वञ्जुलमणिमञ्जिरितुलसीशोभितयुगचरणं
चन्द्रकलाकलिताम्बुजकल्पं भजतां यश्शरणम् ॥ ४॥
मञ्चकरम्भास्तम्भसुजङ्घे जानुयुघे मुकुरे
उदितारुणवासति हरिदश्चप्रतिभोरुप्रवरे ।
काञ्चनकाञ्चीविराजिनितम्बनाभिवियच्छशी रे (?)
त्रिवलिसरित्सङ्गमकृतशोभे लोकानन्दभरे ॥ ५॥
मुद्रितसुमहेन्द्रमणिकवाटं हृत्सुषमागारं
मञ्जुलमण्डनरत्ननिहारैर्लक्ष्म्याः सुविहारम् ।
भोगिसुभोगनिभे भुजयुगले भव रक्षासारं
केयूरैः कटकैर्मुद्राभिर्लोकेऽभिस्फारम् ॥ ६॥
सितहीरकचिबुकं गुरुमुक्ताकृतनासाभरणं
शोणसरलविराजिततिलकं भव मङ्गलकरणम् ।
मारकतोज्ज्वलकुण्डलयुगलं मकराकृतिहरणं
यस्याननेन्दुमण्डलममलं ज्योतिः स्मितशरणम् ॥ ७॥
छुरितालकचूडाचूडामणिबर्हापीडवरं
केतकदलावतंसमनुश्रितमल्लीमाल्यभरम् ।
यस्याम्बुजतुलसीगुञ्जालीकृतदामप्रसरं
काञ्चनसूत्रसुगुम्फविचित्रं पीतनिचोलसरम् ॥ ८॥
मृगमदघुसृणसुशोभितलेपं विमलाञ्जनं नयने
ताम्बूलारुणो भाससि रे अधरे मन्दस्मितरदने ।
दाडिमकुलानुकृतदन्तालिः स्फुरति वदि (?) दयने
कूजति हरेर्मुरलिका मधुरं करपल्लवशयने ॥ ९॥
वृन्दाविपिनरासविहारे सुरवरविटपितले
चिन्तामणिचटिते क्षुरपीठे युक्तहृदब्जदले ।
श्रुतिमुनिरूपव्रजस्त्रीयूथे विहरसि गीतकले
यमुनातीरे मन्दसमीरे मुखरितभृङ्गबले ॥ १०॥
कामदुहां निवहे गोपानामनुरूपधरो
वर्षसि अधरसुधां निजवेणौ पूर्णानन्दभरः ।
नृत्यसि राजे व्रजबालाभिस्तावद्रूपकरो
मन्मथमन्मथनिकारापीच्यां मूर्तिं वहसि वरः ॥ ११॥
भज भज नन्दयशोदानन्दं भज वृन्दावनकेलं
भज वृषभानुसुताकृतिसङ्गिनित्यनवीनसुखेलम् ।
भज गोविन्दं गोकुलनाथं भज धृतपीतसुचैलं
भज भजतां सुरतरुजितसारं त्यज चान्यमनुवेलम् ॥ १२॥
जय मङ्गलमङ्गल निजरूपैः निजमङ्गलदारै-
र्जय मङ्गलमङ्गल निजभक्तैः सुविहारैः ॥ १३॥
आरार्तिकमिदं स्तोत्रं यः पठेद्धरिसन्निधौ ।
तस्याश्रये भवेत् कृष्ण इति श्रीललितोदितम् ॥ १४॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये
श्रीहरिनीराजनस्तोत्रं सम्पूर्णम् ।
आरार्तिकस्तोत्रम् ।
Proofread by Manish Gavkar