भक्तेच्छापूर्तिकरं हरिस्तोत्रम् अथवा वेगासेतुस्तोत्रम्
यथोक्तकारिस्तोत्रम्
श्रीगणेशाय नमः ।
एकं वेगवतीमध्ये हस्तिशैले च दृश्यते ।
उपायफलभावेन स्वयं व्यक्तं परं महः ॥ १॥
ईष्टे गमयितुं पारमेष सेतुरभङ्गुरः ।
यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम् ॥ २॥
जयति जगदेकसेतुर्वेगवतीमध्यलक्षितो देवः ।
प्रशमयति यः प्रजानां प्रथितान्संसारजलधिकल्लोलान् ॥ ३॥
विभातु मे चेतसि विष्णुसेतुर्वेगापगावेगविघातहेतुः ।
अम्भोजयोनेर्यदुपज्ञमासीदभङ्गरक्षा हयमेधदीक्षा ॥ ४॥
चतुराननसप्ततन्तुगोप्ता सरितं वेगवतीमसौ निरुन्धन् (समये तत्परिपन्थिनो निरुन्धन्)
परिपुष्यति मङ्गलानि पुंसां भगवान् भक्तिमतां यथोक्तकारी ॥ ५॥
श्रीमान्पितामहवधूपरिचर्यमाणः शेते भुजङ्गशयने स महाभुजङ्गः ।
प्रत्यादिशन्ति भवसञ्चरणं प्रजानां भक्तानुगन्तुरिह यस्य गतागतानि ॥ ६॥
प्रशमितहयमेधव्यापदं पद्मयोनेः
श्रितजनपरतन्त्रं शेषभोगे शयानम् ।
शरणमुपगतास्स्मः शान्तनिश्शेषदोषं
शतमखमणिसेतुं शाश्वतं वेगवत्याः ॥ ७॥
शरणमुपगतानां सोऽयमादेशकारी
शमयति परितापं संमुखः सर्वजन्तोः ।
शतगुणपरिणामः संनिधौ यस्य नित्यं
वरवितरणभूमा वारणार्द्रीश्वरस्य ॥ ८॥
काञ्चीभाग्यं कमलनिलयाचेतसोऽभीष्टसिद्धिः
कल्याणानां निधिरविकलः कोऽपि कारुण्यराशिः ।
पुण्यानां नः परिणतिरसौ भूषयन्भोगिशय्यां
वेगासेतुर्जयति विपुलो विश्वरक्षैकहेतुः ॥ ९॥
वेगासेतोरिदं स्तोत्रं वेङ्कटेशेन निर्मितम् ।
ये पठन्ति जनास्तेषां यथोक्तं कुरुते हरिः ॥ १०॥
इति कवितार्किकसिंह सर्वतन्त्रस्वतन्त्र श्रीवेदान्तदेशिककृतं
वेगासेतुस्तोत्रं अथवा भक्तेच्छापूर्तिकरं हरिस्तोत्रं अथवा
यथोक्तकारिस्तोत्रं सम्पूर्णम् ॥
(काञ्चीक्षेत्रे वेगवतीतीरे रचितम्)
The name vegA-setu meaning a dam across the river vegA (Vegavati) for the Perumal (Lord) indicates the part He played in protecting the ashvamedhayAga performed by Brahma to visualise the Lord, by protecting that yAga from being washed away by the irate saraswatI who desired to wreck that yAga by taking the form of a river in spate. This is to be found in the sthalapurANa.
The Lord, however, attained greater fame and name by packing up His AdisheSha couch and following Tirumazhisai Alwar at his behest and later re-spreading that AdisheSha couch and lying on it once again (now pillowing His head on the left hand instead of on the right). For this fine gesture inconsistent with the state of archA, this Lord is popularly known as yathoktakArI or, as deshika has put it, bhagavad-bhakti-matAM yathoktakArI (452) one who acts as dictated to by His Devotees.
shlokas 449 to 451 and 454 refer to the Lord's purANic greatness as vegasetu. shlokas 452 and 454 refer to both aspects. 453 and 455 deal with His subservience to His devotees.
Proofread by PSA Easwaran