हस्तिगिरीशस्तवः

हस्तिगिरीशस्तवः

श्रीमच्छ्रीनिधियोगीन्द्रश्रीरङ्गेशयतीश्वरौ । प्रणम्य सादरं कुर्वे हस्तीशस्तवमद्भुतम् ॥ १॥ प्रह्लादजनकोद्दामदानवैभवशालिनौ । करिक्ष्माभृदधीशानौ कलयेमहि कावपि ॥ २॥ कनत्परममायिने करिगिरेरधः स्थायिने चराचरविधायिने चतुरभीष्टसन्दायिने । नमः परमयोगिने नतजनावनोद्योगिने नृशंसहतिकायिने नृहरये जगत्कायिने ॥ ३॥ श्रिया सह विहारिणे श्रुतिशिरःसु सञ्चारिणे प्रभूतभयहारिणे प्रबलदैत्यसंहारिणे । शुकादिहितकारिणे शुभगुणैरलङ्कारिणे नतत्रिपुरवैरिणे नम इदं मधर्वैरिणे ॥ ४॥ सटापटलभीषणं सरलकेसरोद्भूषणं समस्तगदशोषणं सरससाधुसम्भाषणम् । विशिष्टजनतोषणं विधिशिवेन्द्रसम्पोषणं नमामि भवपेषणं नरहरि महीभूषणम् ॥ ५॥ करिगिरितटाधारा धाराधरप्रकरोपमा निरुपमगुणोदारा दारार्धदेहमुखेडिता । वभयसमुत्तारा ताराधिपप्रतिमानना निरवधिदयासारा सा राजते परदेवता ॥ ६॥ करिगिरितटोत्तंसं तं सम्प्रवृद्धबलोदयं निजबलगलत्कंसं कं संव्यवन्तममुं सदा । मुनिजनकृताशंसं शं सन्दधानमहं भजे रुचिरसमसाध्वंसं ध्वंसं विपद्विततेः सताम् ॥ ७॥ करिगिरिपतिं श्रीशं श्रीशङ्करप्रमुखार्चितं सकलभुवनाधीशं धीशं बलर्द्धिविशोभितम् । नवजलदसङ्काशं काशंसनीय गुणोत्करं जगति दहराकाशं का शंसतीह न देवता ॥ ८॥ प्रत्यूषस्मयमानपङ्कजसदृग्दृग्दर्शनीयाननः प्रत्यादिष्टसुराभियातिनृपतिप्रोद्दामभूमाङ्कुरः । अस्मादृग्जन ....प्तावतारः क्षिता- वस्मान् रक्षतु हस्तिशैलशिखरस्थेमा पुमान् केसरी ॥ ९॥ हस्त्यद्रिनाथ वरदत्वमनन्यलभ्य- मुच्चैस्तरां प्रकटयन्निव श‍ृङ्गदेशे । तिष्ठस्यहो वरदमूर्तिरिति प्रतीमो नो चेच्छरीरयुगलाश्रयणं किमर्थम् ॥ १०॥ पायान्नः पातकेभ्यः करिशिखरिपतिः कालमेघाभिरामः कन्न्दर्पोद्दामदर्पप्रशमननिपुणस्वीयलावण्यभूमा । त्रय्यन्तश्रान्तचिन्तानघतरविबुधव्राततोष्टूयमानः श्रीमान् श्रेयविधाता निजपद नलिनद्वन्द्वसेवापराणाम् ॥ ११॥ भूमा भूमावुमापत्यभिनुतमहिमा सर्वकल्याणसीमा भूमाभूमावहश्रीकरिगिरिनिलयो योगिभिर्गेयनामा । कामाद् वैमानिकाद्यैर्दुरवगमगतिर्वैरिम्भीमात्मशक्तिः श्रीमान् पुष्णातु धामान्यजनदृगपदं तिग्मधामत्रिधामा ॥ १२॥ इन्द्राद्या देववर्गाः परिचरणपराः स्वाधिकारे नियुक्ता नित्यैर्नैमित्तिकैर्वा श्रुतिशतविहितैः कर्मभिः पूजिताश्चेत् । तृप्ताश्चैव प्रसन्नाः करिशिखरिपते त्वत्प्रसादाय भूयः कल्पान्ते हीति गीतं विशदमभिहितं सूत्रभाष्यादिके च ॥ १३॥ आतस्तान् पूजयामः प्रसदनमिह ते प्रार्थयन्तः प्रकामं राज्ञः काङ्क्षन् प्रसादं ह्युपचरति यथा भृत्यवर्गं तदीयम् । स्वाभीष्टावेदनं तन्मुखत उरुगुणं नीतिवित्सार्वभौमा मन्यन्ते साम्प्रतं श्रीकरिशिखरिपदे पूजनं युक्तमेषाम् ॥ १४॥ धार्यत्वाच्छेषभावान्नियमनविषयत्वाद् विधेयत्वतश्च श्रीमन् हस्तिक्षमाभृन्निलय तव तनुर्देवता इन्द्रमुख्याः । तद्याजी त्वत्प्रसादं प्रसभमभिलषंस्त्वत्तनुत्वेन जानन् किं न्वैकान्त्यं न विन्देद् वरद कथय मे दासदासानुसेवी ॥ १५॥ यः प्राधान्येन देवं .... जडमतिर्वाञ्छिताप्त्यै स न स्या- देकान्ती देवराज त्वदुपममिह नो व .... । चत्वारो वै पुमर्थाः परमपुरुषतो नान्यतो लब्धुमर्हा इत्येवं सङ्गिरन्ते किल फलचरणे भाष्यकारादयोऽमी ॥ १६॥ चर्मप्राया हि देवा इति कथनमपि प्रायशः प्रौढिवादः स्वातन्त्र्यं नैव तेषां क्वचिदपि विषये पारतन्त्र्यं तु काष्ठा । इत्येवं हस्तिनाथ स्फुटयितुमपि वा तादृशोक्तिर्विभाव्या नो चेद् देवाधिकृत्यां कथमिह घटते देवतैश्वर्यवादः ॥ १७॥ स्वप्रीतिद्वारकं यत् परमपुरुषसम्प्रीतिनिष्पादनं त- द्ध्यैश्वर्यं देवताया इति तदधिकृतौ भाति सौदर्शनोक्तिः । चर्मप्रायत्ववादे कथमिव घटते हस्तिशैलेश सैषा दोषाशेषाभिनन्द्या तदिह बुधजनैर्देवतैश्वर्यमर्थ्यम् ॥ १८॥ पाराशर्यः प्रमाणं पटुतरधिषणो देवतैश्वर्यसिद्धौ कल्प्या पूर्वादिपक्षं निरसितुमकरोद् यच्छ्रुतत्वाच्च सूत्रम् । रक्षायां साच्चरित्र्यां श्रुतिशिखरगुरुर्दर्शयित्वा प्रमाणं ह्यूचे हस्तीश देवान्तरयजनमपि ब्रह्ममीमांसकानाम् ॥ १९॥ साक्षाच्चतुर्मुखमखे हविरन्वभूस्त्वं शक्रादयः किल न तत्र तदन्वभूवन् । हस्त्यद्रिनाथ वरमेवमदाः सुरेभ्यो नो मानुषेभ्य इह हेतुमुदारसत्त्वम् ॥ २०॥ यद्देवता त्वमधुना यदि सम्ब्रवीषि तद्वा कुतः सुरगणे भगवन् दयेथाः । आज्ञैव हेतुरिह देवगणस्य तत्त्वे नो चोदनार्ह इति चेत् किमहं ब्रवीमि ॥ २१॥ वेदान्तदेशिकवरैः क्वचन प्रबन्धे देवा हि कञ्चुकसमा इति तावदुक्तम् । यष्टव्यता प्रपदनान्वयिनापि तेषा- मुक्ता क्वचित कथमिदं घटते करीश ॥ २२॥ जैमिन्यनीश्वरवचोनिचयोपपत्ति- न्यायेन देशिकवचोऽपि विभावनीयम् । सर्वैश्च पण्डितजनैरिति सम्प्रतीमो हस्तीश्वरैवमुपपादयसि त्वमेव ॥ २३॥ भाष्ये हि ब्रह्मशब्दः क्वचिदधिकरणे भाति सामान्यवाची तस्मिन्नेवावभाति क्वचिदधिकरणेऽसावसाधारणोऽपि । अत्र श्रीतत्त्वटीकाप्रकटितनयतः कञ्चुकप्रायतोत्ते- र्देवानां मान्यवर्यं करिशिखरिपते बोधयस्यञ्जसा त्वम् ॥ २४॥ यस्मिन् पक्षोऽस्ति भाष्यप्रमुखबहुतरग्रन्थसंवादभूमा तस्मिंस्तात्पर्यमेवाकलयितुमुचितं वेदचूडागुरूणाम् । श्रीशे ब्रह्मण्यनीशे त्वयि विधिमुखसाधर्म्यबुद्धिं निरोद्धुं मन्दानां मन्वहे श्रीकरिशिखरिपते कञ्चुक प्रायतोक्तिम् ॥ २५॥ सकृद्यष्टस्त्वं मे क्षिपसि सहसा सर्वदुरिता- न्यनन्तान्यच्छेद्यान्यनुपमगुण श्रीकरिपते । कथङ्कारं कारागृहनिगलयोग्या विधिमुखाः सुराः शक्तास्तादृग्दुरितलवनिर्धूननविधौ ॥ २६॥ सकृत् त्वां पश्यन्तः समदगजगण्डस्थलगल- न्मदस्रोतःक्रीडद्भ्रमरपटलीविभ्रमभृतः । नरीनृत्यन्नारीरुचिरकबरीकान्तिलहरी- परीतान् गाहन्ते सपदि हि गृहान् हस्तिरमण ॥ २७॥ सकृत् त्वां सम्पश्यन् सकृदवनताभीष्टवरदं समस्तैस्त्रय्यन्तैः समधिगतपारम्यमनघम् । शुनासीरस्तम्बेरममुखमखाभ्यर्थनकला- नभिज्ञः श्रीहस्तिक्षितिरमण धीरश्च भविता ॥ २८॥ सकृत् त्वां दृष्ट्वा यः सजलजलदच्छायममलं समस्तैर्योगीन्द्रैरभिनुतमिह श्रीकरिपते । स मृत्योः सम्भूतां भियमथ विनिर्धूय सहसा महानन्दब्रह्मानुभवसुपरीवाहमयते ॥ २९॥ विधातारं केचिच्छरणमभिगच्छन्ति निपुणाः सुधाशानामीशं कतिचन परे त्वन्यमपि वा । वृथामीषां यत्नः करिगिरिपते त्वद्गुणकथा- सुधास्वादाभिज्ञाः किमपि गणयन्त्यल्पशकरान् ॥ ३०॥ त्वदायत्तामीषां स्थितिरधिकृतिर्वा दिविषदां दिगीशानादीनामिति खलु न जानन्ति हि जडाः । अतस्तान् सेवन्ते परिमितफलप्राप्तिचपलाः करीश त्वन्मायापरवशमशेषं जगदिदम् ॥ ३१॥ सृजस्यादौ विश्वं समवसि ततः संहरसि च त्वमेव श्रीहस्तिक्षितिरमण नान्यः प्रभवति । त्वया दत्तां शक्तिं विधिशिवशचीशप्रभृतयो दधाना लोकानामधिकृतिममी बिअतितराम् ॥ ३२॥ न जाने श्रीजाने नलिननयने नागशयने प्रधाने देवानां त्रिजगदवने दत्तनयने । त्वयि श्रीहस्तिक्ष्मारमण भगवन् भक्तिमतुलां विना मुक्तेरन्यत् किमपि निगमान्तैरवधृतम् ॥ ३३॥ त्वमेव ब्रह्माद्यं परमपुरुष श्रीकरिपते त्वमेवं त्रय्यन्तैरभिनुतपदो योगिभिरपि । त्वमेव श्रीकान्तो निखिलजगदन्तर्यमयिता त्वमेव त्वामातः किल शरणमन्त्र्याजमभजम् ॥ ३४॥ जगत्सृष्टिस्थेमप्रलयरचनाकेलिविवशं जनिक्लेशत्रस्तप्रचुरजनतात्राणनिपुणम् । दयादुग्धाम्भोधिं दनुजमथनं दिव्यचरितं करीश त्वां दृष्ट्वा शरणमिति वाचं समफणम् ॥ ३५॥ पुंसूक्तं सकलं करीश भवदेकान्तं वरीवृत्यते सर्वाम्नायगणप्रधानतमतामस्य स्मरन्ति स्फुटम् । गीता त्वन्मुखनिर्गता सुमहिताधीता विमुक्त्यर्थिभि- स्त्वत्पारम्यपरा विराजतितरां को वा समः कथ्यताम् ॥ ३६॥ ईशानश्रुतिवैभवेन गिरिशे नेतुं न युक्तं हि तत् षष्ठ्या अन्वयदुस्थताप्रसजनात् तत्पूर्ववृत्तेः स्फुटम् । किं तु त्वत्परमेव सर्वविबुधैरभ्यर्थनीयं बला- देवं विष्णुपुराणमुख्यवचनैर्हस्तीश निर्धारितम् ॥ ३७॥ सत्यं ज्ञानमनन्तमाद्यममलं नित्यं स्वयञ्ज्योतिषं सर्वव्यापि सुसूक्ष्मभूतमभयं त्वामाहुराद्या गिरः । त्वामन्तर्विनिवेशयन्ति महता यत्नेन योगीश्वराः किं ब्रूमो महिमानमद्भुततमं हस्तिक्षमाभृत्पते ॥ ३८॥ किं त्वां जानन्ति मूढाः कलुषितहृदया हस्तिशैलेश्वर त्वत्- सान्निध्येऽवस्थिता अप्यधिनिधि चरतां किं नु तज्ज्ञानमस्ति । क्षुद्रान् निद्रानुसक्तानपि पशुसदृशान् ब्रह्मविन्निन्दनैका- नन्दान् मन्दानहन्ताप्रथमजनिगृहांस्त्वं कथं तान् सहेथाः ॥ ३९॥ चातुर्मास्यं समग्रं व्रतमिह चरितं त्वत्कृपावैभवेन श्रीमन् हस्तीश्वराद्यं व्रतमनुचरितं निस्तुले रङ्गधाम्नि । अध्याप्य ब्रह्मविद्यामनुपमविषणानाश्रिताञ्छात्रवर्गान् निःसीमानन्दमाप्तः प्रचुरबहुमतिस्त्वच्चरित्रेषु वर्ते ॥ ४०॥ भूयो भूयो नमामि त्वदनघचरणाम्भोरुहद्वन्द्वमेव श्रीमन् हस्तीश निस्तीर्य च भवसरणौ जाङ्घ्रिकत्वं प्रहृष्टः । वाचां प्राचां प्रवाचामपि खलु विषयस्त्वं कथं मादृशानां प्रज्ञादौर्लभ्यभाजामहह कुवचसां गोचरत्वं प्रयासि ॥ ४१॥ श्रीमाञ्छ्रीमच्छठारिव्रतिकलितशतस्तम्भवन्मण्टपान्ते डोलाडोलायितात्मा मणिमयमकुटज्योतिदृग्भासिताशः । राजा राजाधिराजप्रमुखदिविषदां हस्तिशैलेश्वराख्यो देवो देवो मुदे वो भवतु मम जनाः स्मेरवक्त्रारविन्दः ॥ ४२॥ मुक्तैश्वर्यं जगद्व्यापरणविरहितं सूत्रितं सूत्रकारै- स्तस्येत्थं भावमाहुः किल गुरुचरणा भाष्यकारादयोऽमी । राज्ञां छत्रादिवत् ते करिरमण जगत्कारणत्वं विमुक्ते- र्हेतुत्वं लक्षणे द्वे तदुभयवशतो लक्ष्यसेऽन्यादृशस्त्वम् ॥ ४३॥ मुक्तैश्वर्यं जगद्वयापरणमपि यदि ब्रह्मणो लक्षणं तत् भज्येतातिप्रसङ्गात् कथमिव परमं ब्रह्म जिज्ञासितुं स्यात् । जिज्ञास्यत्वं जगत्कारणगतमिति च स्पष्टमाम्नायमौला- वातो मुक्तेषु हस्तिक्षितिरमण जगद्व्यापृतिर्नोचितेतिम् ॥ ४४॥ युक्तं तन्मन्महे श्रीकरिरमण वयं त्वत्कटाक्षाद् विमुक्ता ब्रह्मानन्दानुभूतिप्रकलनविषये साम्यमेते वहेयुः । जिज्ञास्यत्वं मुमुक्षोः कथमिव घटतां त्वं हि जिज्ञासनीयः सर्वैस्तापत्रयार्तैस्त्वदुपजनितधीशक्तिमान् नोऽपरः स्यात् ॥ ४५॥ अपारे कूपारे तृणमिव तटं केनचिदितं त्वसारे संसारे स्थिरतररुचिर्दुस्तरतरे । मुरारे कंसारे करिगिरिपतेऽहोबिलमुनि- ष्वहं तत्कारुण्यात् समगणिषि धन्योऽहमधुना ॥ ४६॥ अस्मान् रक्षतु हस्तिशैलशिखरेत्येवं तुरीयं पुनः पादं कञ्चन हस्तिराडुपदिशन् स्वप्नेऽवबोध्यैव माम् । दीक्षां संश्रितरक्षणे प्रकटयस्युच्चैस्तरां श्रीपते वात्सल्यैकवशंवदस्त्वमबिभो नानावतारान् क्षितौ ॥ ४७॥ वेगातुङ्गतरङ्गसङ्गमदशाव्यालोलदम्भोरुह- च्योतत्स्फीतमरन्दवृन्दलहरीपारम्परीमेदुरे । रोधस्युत्तरतोऽवभासि भगवन् हस्तिक्षमाभृत्पते त्वत्सेवारसिका भवन्ति मनुजा धन्याः क्षितौ सन्ततम् ॥ ४८॥ जन्तुं कृतमन्तुं भुवि नन्तुं यतमानं रक्षस्यरिपक्षच्युतिदक्ष स्वयमीश । धाराधरदोराहवधीरानघमूर्ते हस्तीश सुविस्तीर्णगुणास्तीह समः कः ॥ ४९॥ हस्तीश निस्तुलतरस्तुतिरत्नजाल- मस्तीति मत्स्तुतिरियं परमास्तिकेड्य । नोपेक्षितुं त्वलमहो शुकभाषितादौ सन्तोषमाकलयते हि महान् नृसान्ज्ञः ॥ ५०॥ इत्थं सवीररघुराट्छ्रुतिमौलियोगि- क्ष्माभृत् करिक्षितिपतेः स्तवमद्भुतार्थम् । प्रीत्यै हरेर्व्यतनुत प्रणिशम्य सन्तः सन्तोषमत्र कलयन्तु गताभ्यसूयाः ॥ ५१॥ श्रीमद्वीररघूद्वहश्रुतिशिरोयोगिक्षमाभृत्कृतं हस्तीशस्तवमादरात् पठति यः शुद्धो विशुद्धाशयः । जिह्वायामिह नानटीति सततं वाग्देवता तस्य सं- सिध्यन्ति ह्यचिरेण किं च महिताः सर्वे पुमर्था भुवि ॥ ५२॥ इति श्रीहस्तिगिरीशस्तवः समाप्तः । स्तोत्रसमुच्चयः २ (८०) Proofread by Rajesh Thyagarajan
% Text title            : Hastigirisha Stava
% File name             : hastigirIshastavaH.itx
% itxtitle              : hastigirIshastavaH
% engtitle              : hastigirIshastavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org