श्रीहयग्रीवोपासनं निरूपणम्
उद्गीथपदमारभ्य प्रणवोद्गथशब्दतः ।
सर्ववागीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ १॥
सर्ववेदमयाचिन्त्य पदान्ते सर्वमीरयेत् ।
बोधयद्वितयान्तोऽयं मन्त्रस्तारादिरीरितः ॥ २॥
ऋषिः ब्रह्मास्य निर्दिष्टः छन्दोऽनुष्टुप् उदाहृतम् ।
देवता स्यात् हयग्रीवो वागैश्वर्यप्रदो विभुः ॥ ३॥
तारेण पादैः मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् ॥। ४॥
तुषाराद्रिसमच्छायं तुलसीदामभूषितम् ।
तुरङ्गवदनं वन्दे तुङ्गसारस्वत प्रदम् ॥ ५॥
ध्वात्वैवं प्रजसेन्मन्त्रमयुतं तद्दशांशतः ।
मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते ॥ ६॥
पूजयेद्वैष्णवे पीठेमूर्तिं सङ्कल्प्य मूलतः ॥। ७॥
कर्णिकायां चतुर्दिक्षु यजेत् पूर्वादितः क्रमात् ।
सनन्दनं च सनकं श्रियं च पृथिवीं तथा ॥ ८॥
तद्बहिर्दिक्षु वेदाश्च षट्कोणेषु ततोऽर्चयेत् ।
निरुक्तं ज्योतिषं पश्चाद्यजे द्व्याकरणं ततः ॥ ९॥
कल्पं शिक्षां च छन्दासि वेदाङ्गानि त्विमानि वै ॥। १०॥
ततोऽष्टदलमूले तु मातरोऽष्टौ समर्छयेत् ॥ ११॥
वक्रतुण्डादिकानष्टौ दलमध्ये प्रपूजयेत् ।
दलाग्रेष्वर्चयेत् पश्चात् साधकश्चाष्ट भैरवान् ॥ १२॥
असिताङ्गं रुरुं चैव भीषणं रक्तनेत्रकम् ।
बटुकं कालदमनं दन्तुरं विकटं तथा ॥ १३॥
तद्भहिः षोडशदलेष्ववतारान् हरेर्दश ।
शङ्खं चक्रं गदा पद्मं नन्दकं शार्ङ्गमेव च ॥ १४॥
तद्बहिः भूगृहे शक्रमुखान् दश दिगीश्वरान् ।
वज्राद्यान् तद्बहिश्चेष्ट्वा द्वारेषु च ततः क्रमात् ॥ १५॥
महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा ।
समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत् ॥ १६॥
तद्भहिः सप्तनद्यश्च तद्बाह्येतु ग्रहान् नव ।
तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्भहिः ॥ १७॥
दीपं पञ्चदशावृत्त्या सम्पूज्य तुरगाननम् ।
वागीश्वर समोवाचि धनैर्थनपतिर्भवेत् ॥ १८॥
एवं सिद्धे मनौ मन्त्रप्रयोगान् कर्तुमर्हति ।
अष्टोत्तरसहस्रं तु शुद्धवार्यभिमन्त्रितम् ॥ १९॥
बीजेन मासमात्रं यः पिबेद्धीमान् जितेन्द्रियः ।
जन्ममूकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ॥ २०॥
चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत् ।
दुग्धं गवां ततो मन्त्री कण्ठमात्रोदके स्थितः ॥ २१॥
स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात् ।
पिबेत् तत्सर्वमचिरात्तस्य सारस्वतं भवेत् ॥ २२॥
ज्योतिष्मती लताबीजं दिनेष्वेकैकवर्धितम् ।
अष्टोत्तरशतं यावद्भक्षयेदभिमन्त्रितम् ॥ २३॥
सरस्वत्यवतारोऽसौ सत्यं स्याद्भुवि मानवः ।
किं बहूक्तेन विप्रेन्द्र! मनोरस्य प्रसादतः ॥ २४॥
सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत् ॥। २५॥
इति नारदीयमहापुराणान्तर्गतं हयग्रीवोपासनं निरूपणं सम्पूर्णम् ।
Encoded and proofread by Chandrasekhar Karumuri