श्रीहयवदनस्तोत्रम्

श्रीहयवदनस्तोत्रम्

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १॥ हयाननमुपास्महे स्फटिकनिर्मलाङ्गं स्फुटे सिताम्बुरुहविष्टरे समुपविष्टमब्जालयम् । प्रसन्नकमलालयाकलितमञ्जुलाङ्कं त्रयी- शिरश्चिकुरभूषणं कृतनताघसंशोषणम् ॥ २॥ तवाक्षियुगळं स्फुरत्पृथुलतारकं सादरं निपातय कृपाम्बुधे! मयि च पापकूपस्थिते । यदुद्धरति बालिशं नवमिवाचरन् मानवं बृहस्पतिसमं जगत् प्रथितकीर्तिमीड्यं प्रभो!॥ ३॥ हयास्य! तव चन्द्रिकाधवळकायकान्तिच्छटा मदीयहृदयावृतप्रसृततामसं साम्प्रतम् । सुदूरमुपसार्य तद्विमलबोधपीयूषतो निवारयतु मे चिरादुपनतां भवाब्धिफ्लुतिम् ॥ ४॥ कदापि हयकन्धर! त्वदमलाङ्घ्रिपङ्केरुह- द्वयस्मरणमप्यहो! न कृतवान् विमूढात्मकः । त्वदङ्कतलसंस्थितां कुवलनीललोलेक्षणां विलोक्य कमलां तथाऽप्यहमिहास्मि निस्साध्वसः ॥ ५॥ विधूस्रशुचिकेसर प्रकटफालपुण्ड्रं करैः चतुर्भिरपि पुस्तकं धवळशङ्खचक्रे तथा । दधानमुपदेशदप्रयतमुद्रिकां वाक्पतिं स्मरामि हयकन्धरं कमलयासमं भासुरम् ॥ ६॥ किरीटमणिमालिकारुचिरतृकेयूरक- क्वणत् कनककङ्कण प्रमुखभूषणालङ्कृतः । सुधांशुरुचिराम्बरः श्रितजनार्तिहर्ता प्रभुः ममापि दुरिदं द्रुतं हरतु वाजिरम्यासनः ॥ ७॥ हयानन! भवत्पदद्वयपयोजपीयूषजं समुद्धर विधाय मां यदिह ते शुभंयून् गुणान् । चतुर्मुखशतक्रतु प्रमुखदेवबृन्दस्तुतान् भवेयमहमादरा द्विदितुमेष शक्तः प्रभो!॥ ८॥ कटाक्षलवपात्रतां तव गताश्च ये चेतनाः चतुर्मुखसतीबृहस्पतिगणाधिपास्तेऽभवन् । समस्तजनताक्षितौ सकलभव्यविद्याप्तये समर्चति कृताञ्जलिः नुतिशतेन तान् वाक्फते!॥ ९॥ पयोनिधिसुतास्मरन्मुखनिशापतेः कौमुदी विवर्धितवळक्षतारुचिरदिव्यदेहो हरे!। मदीयमपि मानसं दुरिततामसैः व्यापृतं हयानन! दयाम्बुधे! धवळयाशु कारुण्यतः ॥ १०॥ ततस्तव पदाम्बुजद्वयमपि प्रमोदात् स्थिरं निधातुमपि मे क्षमं हृदयपुण्डरीकं भवेत् । अहं च हयकन्धर! त्वदतिमार्दवाङ्घ्रिद्वयं नितान्तदृढमानसः प्रमुदितो भवेयं स्मरन् ॥ ११॥ श्रुतिर्हि तव सद्गुणान् गदितुमुत्सुका सादरं स्यवर्तत गुणोदधे रनवसाद्य पारं चिरात् । यथोचितमतिर्बत ! प्रथितवैभवं निर्भयो भवन्तमिह निस्त्रपः क्रमधुतः स्तुवन् संश्रये ॥ १२॥ अहं त्वममतामतिः चिरतरानुवृत्ता मम श्रुतिस्मृतिपुराणवाच्छ्रवणतोऽपि नो निस्सरेत् । अतश्च भवसागरे पतितवानहं दुःखितः विनाशय हयानन! प्रतिभटां तु तां वीक्षणात् ॥ १३॥ श्रुतीरितपथे कथञ्चिदपि गच्छतो मे भवेत् प्रमादवशतः क्वचित् स्खलिनमात्मपातप्रदम् । कथं दुरिताकरः प्रकृतिपाशबद्धात्मकः सतां गतिमवाप्नुयां भवदनुग्रहं तं विना ॥ १४॥ हयानन! तवानघा श्रुतिमयी तु हेषाजुषा मशेषमघसङ्घमप्यपनुदत्यनर्घा कलाः । उदञ्चयति कीर्तिमप्यखिललोकमान्यत्वम- प्यतः श्रुतिपथेममाप्यटतु सा प्रमोदावहा ॥ १५॥ करद्वयसमुद्धृत प्रथितशङ्खचक्रो भवान् विशालविशदस्फुटस्फटिककान्तिर्हरे!। विभाति शरदम्बुदो दलिततूल शुभ्रद्युतिः निजाञ्चलसमुद्गतद्युतिमदिन्दुभास्वानिव ॥ १६॥ मम हृदि सततं हयानन! त्वं निवस यथा हृदयं शुचित्वमीयात् । अकलुषमतिदायिनं भवन्तं हृदि कलयेयमहं यथा च भक्त्या ॥ १७॥ देहि मे नाथ वाक्छुद्धिं रसवद्वाग्विजृम्भणम् । आयुरारोग्यमैश्वर्यं नमस्ते हयकन्धर!॥ १८॥ ज्ञानाभिवृद्धिसम्प्राप्त्यै हयानननुतिस्रजम् । व्यधात्तस्य पदद्वन्द्वे जग्गू वकुळभूषणः ॥ १९॥ इति श्री जग्गु वकुळभूषणकविकृतं श्रीहयवदनस्तोत्र्ं सम्पूर्णम् । Proofread by Chandrasekhar Kurumuri
% Text title            : Shri Hayavadana Stotram 
% File name             : hayavadanastotram.itx
% itxtitle              : hayavadanastotram (jaggu vakuLabhUShaNakavikRitam)
% engtitle              : hayavadanastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : jaggu vakuLabhUShaNakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : September 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org