श्रीहयवदनस्तोत्रम्
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १॥
हयाननमुपास्महे स्फटिकनिर्मलाङ्गं स्फुटे
सिताम्बुरुहविष्टरे समुपविष्टमब्जालयम् ।
प्रसन्नकमलालयाकलितमञ्जुलाङ्कं त्रयी-
शिरश्चिकुरभूषणं कृतनताघसंशोषणम् ॥ २॥
तवाक्षियुगळं स्फुरत्पृथुलतारकं सादरं
निपातय कृपाम्बुधे! मयि च पापकूपस्थिते ।
यदुद्धरति बालिशं नवमिवाचरन् मानवं
बृहस्पतिसमं जगत् प्रथितकीर्तिमीड्यं प्रभो!॥ ३॥
हयास्य! तव चन्द्रिकाधवळकायकान्तिच्छटा
मदीयहृदयावृतप्रसृततामसं साम्प्रतम् ।
सुदूरमुपसार्य तद्विमलबोधपीयूषतो
निवारयतु मे चिरादुपनतां भवाब्धिफ्लुतिम् ॥ ४॥
कदापि हयकन्धर! त्वदमलाङ्घ्रिपङ्केरुह-
द्वयस्मरणमप्यहो! न कृतवान् विमूढात्मकः ।
त्वदङ्कतलसंस्थितां कुवलनीललोलेक्षणां
विलोक्य कमलां तथाऽप्यहमिहास्मि निस्साध्वसः ॥ ५॥
विधूस्रशुचिकेसर प्रकटफालपुण्ड्रं करैः
चतुर्भिरपि पुस्तकं धवळशङ्खचक्रे तथा ।
दधानमुपदेशदप्रयतमुद्रिकां वाक्पतिं
स्मरामि हयकन्धरं कमलयासमं भासुरम् ॥ ६॥
किरीटमणिमालिकारुचिरतृकेयूरक-
क्वणत् कनककङ्कण प्रमुखभूषणालङ्कृतः ।
सुधांशुरुचिराम्बरः श्रितजनार्तिहर्ता प्रभुः
ममापि दुरिदं द्रुतं हरतु वाजिरम्यासनः ॥ ७॥
हयानन! भवत्पदद्वयपयोजपीयूषजं
समुद्धर विधाय मां यदिह ते शुभंयून् गुणान् ।
चतुर्मुखशतक्रतु प्रमुखदेवबृन्दस्तुतान्
भवेयमहमादरा द्विदितुमेष शक्तः प्रभो!॥ ८॥
कटाक्षलवपात्रतां तव गताश्च ये चेतनाः
चतुर्मुखसतीबृहस्पतिगणाधिपास्तेऽभवन् ।
समस्तजनताक्षितौ सकलभव्यविद्याप्तये
समर्चति कृताञ्जलिः नुतिशतेन तान् वाक्फते!॥ ९॥
पयोनिधिसुतास्मरन्मुखनिशापतेः कौमुदी
विवर्धितवळक्षतारुचिरदिव्यदेहो हरे!।
मदीयमपि मानसं दुरिततामसैः व्यापृतं
हयानन! दयाम्बुधे! धवळयाशु कारुण्यतः ॥ १०॥
ततस्तव पदाम्बुजद्वयमपि प्रमोदात् स्थिरं
निधातुमपि मे क्षमं हृदयपुण्डरीकं भवेत् ।
अहं च हयकन्धर! त्वदतिमार्दवाङ्घ्रिद्वयं
नितान्तदृढमानसः प्रमुदितो भवेयं स्मरन् ॥ ११॥
श्रुतिर्हि तव सद्गुणान् गदितुमुत्सुका सादरं
स्यवर्तत गुणोदधे रनवसाद्य पारं चिरात् ।
यथोचितमतिर्बत ! प्रथितवैभवं निर्भयो
भवन्तमिह निस्त्रपः क्रमधुतः स्तुवन् संश्रये ॥ १२॥
अहं त्वममतामतिः चिरतरानुवृत्ता मम
श्रुतिस्मृतिपुराणवाच्छ्रवणतोऽपि नो निस्सरेत् ।
अतश्च भवसागरे पतितवानहं दुःखितः
विनाशय हयानन! प्रतिभटां तु तां वीक्षणात् ॥ १३॥
श्रुतीरितपथे कथञ्चिदपि गच्छतो मे भवेत्
प्रमादवशतः क्वचित् स्खलिनमात्मपातप्रदम् ।
कथं दुरिताकरः प्रकृतिपाशबद्धात्मकः
सतां गतिमवाप्नुयां भवदनुग्रहं तं विना ॥ १४॥
हयानन! तवानघा श्रुतिमयी तु हेषाजुषा
मशेषमघसङ्घमप्यपनुदत्यनर्घा कलाः ।
उदञ्चयति कीर्तिमप्यखिललोकमान्यत्वम-
प्यतः श्रुतिपथेममाप्यटतु सा प्रमोदावहा ॥ १५॥
करद्वयसमुद्धृत प्रथितशङ्खचक्रो भवान्
विशालविशदस्फुटस्फटिककान्तिर्हरे!।
विभाति शरदम्बुदो दलिततूल शुभ्रद्युतिः
निजाञ्चलसमुद्गतद्युतिमदिन्दुभास्वानिव ॥ १६॥
मम हृदि सततं हयानन! त्वं निवस यथा हृदयं शुचित्वमीयात् ।
अकलुषमतिदायिनं भवन्तं हृदि कलयेयमहं यथा च भक्त्या ॥ १७॥
देहि मे नाथ वाक्छुद्धिं रसवद्वाग्विजृम्भणम् ।
आयुरारोग्यमैश्वर्यं नमस्ते हयकन्धर!॥ १८॥
ज्ञानाभिवृद्धिसम्प्राप्त्यै हयानननुतिस्रजम् ।
व्यधात्तस्य पदद्वन्द्वे जग्गू वकुळभूषणः ॥ १९॥
इति श्री जग्गु वकुळभूषणकविकृतं श्रीहयवदनस्तोत्र्ं सम्पूर्णम् ।
Proofread by Chandrasekhar Kurumuri