ह्रस्वभागवतम्

ह्रस्वभागवतम्

अथ प्रथम स्कन्धः १

जन्माद्यस्य यतो यदेव परमं ज्ञानं विधात्रे ददौ सर्वं पश्यति दृश्यते न यदहो चक्षुर्यतः पश्यति । वाचा नाभ्युदितं यदेव यत एवाभ्युद्यतेवाग्बहु- स्थूलं सूक्ष्ममनल्पमल्पमपि यत्तस्मै नमो ब्रह्मणे ॥ धातुर्निर्देशयोगात्कलिमलरहितं नैमिषारण्यमाप्ता आसीना दीर्घसत्रं सुहुतहुतभुजः शौनकाद्या मुनीन्द्राः । सूतं धर्मिष्ठमुग्रश्रवसमुपगतं ज्ञानिवर्यं महान्तं पृच्छन्ति स्मेश्वरस्य श्रुतिसुखमवतारादि लीलारहस्यम् ॥ १॥ नत्वा व्यासं च देवीं शुकमपि नरनारायणौ चाह सूतः प्रश्ना वो यं प्रतीमे स भवति भगवान् ब्रह्म चात्मेति गीतः । तत्प्रीत्यर्थं सदा तच्छ्रवणमननसङ्कीर्तनाद्यानि कुर्वन् मर्त्यो यस्तस्य भक्तिर्भवति परपदप्राप्तिरानन्ददात्री ॥ २॥ लोकक्षेमार्थमेषः प्रतिनिमिषमरूपोऽपि रूपाणि धत्ते तल्लीला वर्णयित्वा मुदितहृदभवत्सत्यवत्यास्तनूजः । गङ्गातीरे परीक्षिन्नरपतिरश‍ृणोच्छ्रीशुकाद्वर्णितं तत् तत्रासीनेन दैवाच्छ्रुतमपि च मया श्रावये तन्मुनीन्द्राः ॥ ३॥ एकं वेदं चतुर्धा विदधदृषिवरो व्यासनामा चतुर्भ्यो दत्वा शिष्येभ्य आरादकृत बहुपुराणानि धर्मैकनिष्ठः । वेदार्त्थोद्बृह्मणार्थं तदनु कृतमहाभारतो नैव तृप्तिं प्राप्तश्चिन्ताकुलोऽभूत्तमिममुपगतो नारदोऽभाषतैवम् ॥ ४॥ धर्माद्यं कीर्तितं ते कृतिषु न तु यशः श्रीहरेः सम्यगेत - ल्लीला ब्रह्माण्डसर्गस्थितिलयकरणं वर्णयैतत्प्रजानाम् । श‍ृण्वन्तस्तद्ब्रुवन्तो महदभिगमतः श्रीपतौ भक्तिभाजो मुच्यन्ते कर्मबन्धाद्भवति मम कथाप्यस्य दृष्टान्त एव ॥ ५॥ दासीपुत्रत्वमाप्तो द्विजवरनिलये पूर्वजन्मन्यकार्षं दास्यं कर्माऽऽत्तमोदं परिचरितयतीन्द्राप्तगोविन्दभक्तिः । ध्यानस्थोऽपश्यमादौ हृदि हरिमथ तच्छब्दमात्रेण तुष्टो जन्मैतत्प्राप्य पश्यन्सकलदिशि हरिं सेवमानश्चरामि ॥ ६॥ एवं देवर्षिणोक्तो हरिमहिमकथामग्नचित्तो मुनीन्द्र- श्चक्रे सद्ग्रन्थमेवं नियतिकृतकुरुक्षेत्रयुद्धावशिष्टः । कृष्णापुत्रान् प्रसुप्तान् निशि कठिनमहन् द्रौणिरेषोऽथ बद्धो वीराग्रण्यार्जुनेन प्रकटितमति यन्मौलिरत्नं च जह्रे ॥ ७॥ गर्भों मे नाश्यतेऽस्त्रैरिममवतु भवान् उत्तरावाक्यमेवं श्रुत्वा तद्रक्षकः सन् जिगमिषुरभवद्वारकां वासुदेवः । त्वत्पादे मे रतिः स्यादखिलद विपदः सन्तु नः शश्वदेवं कुन्तीस्तोत्रं च श‍ृण्वन् नगरमाधिवसन् सान्त्वयामास पार्थान् ॥ ८॥ भीष्मः स्वच्छन्दमृत्युर्निजजनकमुदे त्यक्तसर्वार्थकामो धर्मौघं धर्मसूनो रणभुवि शरशय्यावलम्बी प्रकाश्य । सन्तुष्टः पार्थसूतं मृदुहसितमुखं वीक्षमाणः पुरस्तात् स्तुत्वा सर्वात्मकं तं परमपदमवापास्तसंसारबन्धः ॥ ९॥ धर्मिष्ठो भीष्मवाक्यश्रवणहृतमहापापशङ्कः स्वराज्यं चक्रे धर्मात्मजन्मा विधिवदथ हरिर्द्वारकां गन्तुकामः । सर्वानापृच्छ्य पौरान् रथवरमधिरुह्यात्तमोदं पुरस्त्री- गीतं श‍ृण्वन् जगाम प्रकटितकरुणः शीघ्रमानर्तदेशान् ॥ १०॥ सम्प्राप्तो द्वारकां श्रीहरिरुरुविरहक्लिष्टपौराक्षिपीतो नत्वा पित्रोः पुरस्ताच्छिशिरिततनयज्ञातिवर्गः कटाक्षैः । पत्नीः सम्भावयामास च मदनशराबाधितो निर्विकारः स्त्रैणं यं मन्यते यः स भवति पशुबुद्धिश्च मूढाग्रगण्यः ॥ ११॥ द्रौण्यस्त्रप्लुष्टगर्भं जठरगतगदापाणिरङ्गुष्ठमात्रः कृष्णस्तं जीवयित्वा पुनरपि परितो बालकं सञ्चचार । पश्यन् गर्भस्थ एवं हरिमथ दशमे मासि भुव्युत्तराया जातो नाम्ना परीक्षित् सकलगुणनिधिर्लालितोऽभूदजेन ॥ १२॥ मैत्रेयोपात्तविद्यो विदुरयतिवरो भ्रातरं चाऽम्बिकेयं गान्धारीं चार्धरात्रे वनमनयदहो ते तपश्चक्रुरुच्चैः । तान् स्मृत्वा धर्मजन्मा व्यथितहृदभवन्नारदोऽबोधयत्तं मा मा चिन्ताकुलो भूः कुरु हरिभजनं यस्य लीला हि सर्वम् ॥ १३॥ धर्मात्मा धर्मसूनुः सकलहितकरः सर्वतो दुर्निमित्तं पश्यन् पप्रच्छ भीतोऽर्जुनमपि कुशलं द्वारवत्यां यदूनाम् । आस्ते कृष्णः सुखं वा पितृसहजकलत्रात्मजाद्यैः समेतो यद्दोर्दण्डेन गुप्तं यदुपुरमकुतश्चिद्भया यादवाश्च ॥ १४॥ एवं पृष्टोऽश्रुनेत्रो यदुकुलमृषिशापाग्निदग्धं धरित्री- भारं संहृत्त्य कृष्णस्य च दिवि गमनं बोधयामास पार्थः । कृष्णं स्मृत्वा पृथाऽऽप्ता परमपदमथो धर्मजस्त्वौत्तरेयं भूपं चक्रेऽथ पार्था अमृतपदमगुर्द्रौपदी चेशभक्ता ॥ १५॥ राज्यं कुर्वन् परीक्षिन्नरपतिरश‍ृणोत् पाण्डवान् कृष्णभक्तान् आत्मानं चास्त्रदग्धं पुनरपि हरिदत्तायुषं भक्तवर्यः । कुर्वाणो दिग्जयं स प्रभुरमितबलः पर्यटन् शस्त्रपाणि- र्गोरूपौ भूमिधर्मौ कृशतरवपुषौ दृष्टवान् दुःखचित्तौ ॥ १६॥ दीनां गामेकपादं वृषमपि हतपादत्रयं हन्तुकामं पापं घोरं कलिं स प्रभुरवददरे मुञ्च राज्यं मदीयम् । नोचेद्धन्मीति भीतः स तु नृपतिपदं चाश्रितः सोऽथ हिंसा- द्यूतस्त्रीमद्यहेमस्वपि वसतु भवान् मेतरत्रेत्यमुञ्चत् ॥ १७॥ एवं जित्वा कलिं स प्रभुरधिवनमाखेटलीलां प्रकुर्वन् शान्तोऽगच्छत्किमप्याश्रमपदमकृतातिथ्यतारुष्टचित्तः । अंसे राजा मृताहिं न्यधित मुनिवरस्यास्य पुत्रेण कोपाद्- धृष्ट स्यास्तक्षकाहिप्रवरविषहतः सप्तमेऽह्नीति शप्तः ॥ १८॥ पश्चात्तापेन शुद्धीकृतमहितमतिस्त्यक्तसर्वैहिकार्थो राजा प्रायोपविष्टः सुरसरितमुपेत्याऽस्त नत्वा मुनीन्द्रान् । तत्राऽप्तान् व्यासपुत्रं शुकमपि विनयेनाह मृत्यून्मुखः सन् किं कुर्यात्किं न कुर्याद्वदतु हितमिति श्रीशुकस्त्वाबभाषे ॥ १९॥

अथ द्वितीय स्कन्धः २

राजन् लोकहितं वचस्तव वृथा देहादिसक्तिः सतां स्मर्तव्यो हरिरेव मृत्युतरणायान्यो न पन्थाः शिवः । श्राव्यं भागवतं चतुर्दशजगद्रूपं विराट्पूरूषं स्मृत्वा सप्तदिनैर्भवान् परपदं गन्ताऽऽकुलो मा स्म भूः ॥ १॥ स्थूलं रूपमिदं हरेर्जगदिदं ध्यायन् क्रमाद्वैष्णवं सूक्ष्मं पश्यति रूपमन्तरमलं निष्कामयोगी पुनः । सद्योमुक्तिमुपैति देहपतने योगी सकामो यदि प्राप्नोति क्रममुक्तिमेति पतनं कामातिसक्तो जनः ॥ २॥ तत्तद्देवसमाश्रयेण मनुजस्तत्तद्वरानश्नुते सेवन्तेऽखिलकामिनो हरिमकामाश्चापि मोक्षेप्सवः । भक्त्या यो मनसेन्द्रियैश्च भजते विष्णुं सदा भाग्यवान् स ज्ञानं लभते परं न भजते यस्तस्य धिग्जीवितम् ॥ ३॥ राजाऽपृच्छदिदं कथं जगदभूत्सृष्टं कथं रक्ष्यते काले संह्रियते कथं भगवता काः काश्च तच्छक्तयः । श्रुत्वैवं मुनिराट् स्तुवन् मधुरिपुं प्रोद्गीतसारस्वतो नत्वा व्यासमपीह नारदविधिप्रोक्तं स्मरन्नूचिवान् ॥ ४॥ पृष्टोऽजः किल नारदेन वद मे दृश्यं जगत्कीदृशं सर्वज्ञोऽसि विरिञ्चिराह - भगवानेवाखिलं तत्त्वतः । एतत्सत्त्वरजस्तमोमयमिदं चित्तादि शब्दादि च श्रोत्राद्यं घटितं जलेऽण्डमभवद्यस्माद्विराडुद्भवः ॥ ५॥ यः साहस्रकराङ्घ्रिशीर्षनयनो गीतो विराट्पूरुषो यस्याङ्गानि चतुर्दशापि च जगत्याराध्यते यो मया । यः सृष्टिस्थितिसंहृतीश्च कुरुते स्वस्मिन् स्वयं चात्मना कल्पे कल्प इदं स एव सकलं नैवान्यदस्त्यात्मज ॥ ६॥ योऽरूपो भगवान् बहूनि धृतवान् रूपाणि शक्तीर्दधद्- यः कृष्णो भविता विधास्यति मुनिर्वेदं चतुर्धा यतः । ज्ञानं लब्धमिदं च मे परमिमं ज्ञातुं च वक्तुं च नो शक्तः कोऽपि विधत्स्व नारद हरौ भक्तिं जनानां हृदि ॥ ७॥ पित्रोङ्क्तं किमु कस्य कस्य तनयेनोक्तं हरिं संस्मरं- स्त्यक्ष्ये देहमुपायमस्य वद मे देहात्मबन्धः कथम् । धर्माः के विविधा नृणां श्रुतिपुराणादिस्वभावः कथं सर्वज्ञोऽसि वदेति भूपतिवचः श्रुत्वाऽऽह स श्रीशुकः ॥ ८॥ ब्राह्मे कल्पे विधाता सुचिरकृततपा दृष्टवैकुण्ठलोकः सस्नेहं विष्णुनोक्तः सृज जगदधुना पूर्वसृष्टं मयैव । स्रष्टा सृष्टिश्च सृष्टं सकलमहमितो नैव मत्तोऽन्यदासी- न्नास्ति स्यान्नैव किञ्चित्कमलज न तु ते कर्म बन्धाय भूयात् ॥ ९॥ श्रुत्वैवं कमलोद्भवोऽस्य जगतः सृष्टौ हरिप्रेरित- स्तिर्यङ्मर्त्यसुरासुराद्यमसृजद्व्यासश्च यद्वर्णयन् । सर्गाद्यैर्दशलक्षणैश्च सहितं श्रीमत्पुराणं मुनि- श्चक्रे यत्र सुवर्णितं विदुरमैत्रेयोक्तमाकर्ण्यताम् ॥ १०॥

अथ तृतीय स्कन्धः ३

अन्धभ्रातृसुतोक्तिविद्धहृदयः श्रीकृष्णभक्तः परं धर्मिष्ठो विदुरो बहूदकयतिः प्राप्तस्तटं यामुनम् । दैवादागतमुद्धवं हरिसखं पप्रच्छ किं द्वारका - मध्यास्ते ससुखं हरिः कुशलिनः पार्थाश्च किं मेऽग्रजः ॥ १॥ यो बाल्यात्प्रभृतीश्वरार्पितमतिः कृष्णस्य शिष्यो महान् वृष्णीनां प्रवरः स्मृताखिलतया तूष्णीं स्थितः स क्षणम् । वक्तुं प्रारभताथ यादवजना दौर्भाग्यवन्तो विदुः कृष्णं केवलमानुषं न परमात्मानं जगन्नायकम् ॥ २॥ सङ्गाद्येन यथाकथञ्चन नृणां मृत्योश्च मुक्तिर्भवेद्- यः केनापि जितः क्वचिन्न च कृपासिन्धुश्च यः सर्वदः । तस्य ज्ञातिजनो मुनीन् परिहसन् शप्तश्च मोक्षाय किं कर्तव्यं न इति स्म पृच्छति न तं मृत्यून्मुखोऽभूच्च सः ॥ ३॥ एकान्तेऽनुगताय मे हरिरदाज्ज्ञानं परं याम्यहं त्यक्त्वा मानुषदेहमाशु यदवो नङ्क्ष्यन्ति चैषा पुरी । गच्छ त्वं बदरीमितीशवचनाद्यातोऽस्मि मित्रासुत- स्तत्त्वं भागवतं प्रदास्यति च ते यत्तन्नियुक्तोऽत्र सः ॥ ४॥ मैत्रेयं विदुरोऽब्रवीन्मम मुने ज्ञानं परं दीयतां सृष्टं केन जगत्किमर्थमिति स प्रत्याह शिष्यं गुरुः । आसीत्सौम्य सदेकमद्वयमिदं त्वग्रेऽथ तत्त्वं मह- ज्जातं सत्त्वरजस्तमोमयमहङ्कारत्रयं वै ततः ॥ ५॥ तन्मात्रेन्द्रियभूतजालमभवत्तत्त्वानि भिन्नानि नो संयुक्तान्यमरैः स्तुतो हरिरिमान्याविश्य संयोजयन् । सर्वप्राणिसमेत आस्त सलिले ब्रह्माण्डतो वत्सरान् साहस्रं च ततः समष्टिपुरुषो जातो जगद्रूपकः ॥ ६॥ चिन्मात्रो भगवान् य एव रमते स्वस्मिन् परापेक्षता नास्त्यस्य क्वचिदेष भाति सततं मुक्तोऽजया बद्धवत् । यः स्तौत्येनममोघवागयमतो धर्मार्थमोक्षादिकं ब्रूमस्तस्य विभूतिजालमिह ते देवो हरिः प्रीयताम् ॥ ७॥ ब्रूमो भागवतं पुराणमृषये सङ्कर्षणेनोदितं वर्ण्यन्तेऽत्र विभूतयो भगवतः पाद्मे च कल्पे त्वजः । स्वाधाराम्बुजनालतश्चिरमटन् दृष्ट्वा न किञ्चित्तपः कृत्वा दीर्घमपश्यदन्तरमलं वैकुण्ठमस्तौच्च तम् ॥ ८॥ ज्ञातोऽसि त्वं प्रभो मे वपुरिदमवतारैकमूलं तवास्मा- ज्जातोऽहं त्वां गृणन्तो भवभयरहिताः स्रष्टुकामोऽस्मि लोकान् । तच्छक्तं मां कुरु त्वं प्रणतिमिह करोमीति धात्रा स्तुतोऽजः प्रोवाचाहं प्रसन्नः सृज जगदिह ते स्वस्ति भूयात् सदेति ॥ ९॥ श्रुत्वेदं कमलोद्भवः कृततपाः सर्गैकचित्तोऽभवत् सर्गाः प्राकृतवैकृता नवविधाः कौमारसर्गोऽपि च । उद्भिज्जाण्डजरायुजा बहुविधाः स्वेदोद्भवा सन्त्यमी जीवास्तत्र रजोऽधिकास्तु मनुजा रागादिसंसारिणः ॥ १०॥ कालः श्रीहरिशक्तिरेव बहुधा वेधो लवो नाडिका यामो रात्रिदिनानि पक्षयुगलं मासश्च संवत्सरः । एवं कालविभाग एष कुरुते बाल्याद्यवस्थान्तरं तस्मै वत्सरपञ्चकाय हरये कुर्यात् प्रणामं सदा ॥ ११॥ सृष्ट्वा सोऽज्ञानवृत्तीर्विधिरथ सनकादींश्च चित्तेन भूयो रुद्रं भ्रूमध्यतश्च क्रतुपुलहपुलस्त्यादिकान् नारदं च । वाणीं वेदेतिहासानपि विविधपुराणानि यज्ञान् विचित्रां- श्चक्रे द्वेधा विभक्तान्नरमिथुनमभूदस्य देहादजस्य ॥ १२॥ कालेऽस्मिन् भुवमब्धिमग्नविवशामुद्धर्तुकामो हरि- र्नासातो निरगादजस्य किटिपोतोऽयं महीध्राकृतिः । गर्जन्नब्धितरङ्गतः क्षितिमिमां पोत्रे निधायोद्धरन् रुन्धानं दनुजं निपात्य विबुधैर्यज्ञस्वरूपः स्तुतः ॥ १३॥ क्षत्रा पृष्टेन कोऽयं हत इति मुनिना चोक्तमेतस्य माता सन्ध्यायां कामतप्ता दितिरमलमतिं कश्यपं प्राप मुग्धा । तेनोक्तं ते जनिष्यत्सुतयुगममलान् पीडयेत्पुत्रकौ ते विष्णुर्हन्याल्लोकार्तिहारी तव तनयसुतो भक्तवर्यो भवेच्च ॥ १४॥ पश्यन्तो दिव्यदृश्यान्युरुकुतुकहृदो योगिवर्याः कुमारा वैकुण्ठं द्रष्टुकामा जयविजयहतस्वेच्छयात्राल्पकोपाः । शेपुस्तौ नीचयोनिं प्रविशतमिति तत्रागतं श्रीद्वितीयं दृष्ट्वा भक्त्या च नत्वा सुविमलमनसस्तुष्टुवुः पद्महस्तम् ॥ १५॥ विलोक्य सदयं प्रियौ हरिरुवाच बद्धाञ्जली भवेतमसुरौ युवां मुनिवचो न मिथ्या भवेत् । विवृद्धतरमन्युना स्मरतमेव मां जन्मभि- स्त्रिभिर्व्रजतमत्र वां सकलबन्धमुक्तिर्भवेत् ॥ १६॥ नत्वोभौ हरिमात्तभक्तिविनयं प्राप्तौ दितेः पुत्रतां ज्येष्ठश्चाप्यनुजो हिरण्यकशिपुर्नाम्ना हिरण्याक्षकः । स प्राप्तो वरुणं युयुत्सुरनुजः प्रोक्तोऽमुना प्राप्यतां विष्णुर्युद्धविदग्ध एषि यदि तं नूनं श्वभक्ष्यो भवेः ॥ १७॥ श्रुत्वेदं विष्णुमन्विष्य स भुवनमटन् योद्धुकामो न पश्यन् क्रीडालोलः समुद्रेप्यथ किटिवपुषं चोद्धरन्तं धरित्रीम् । तं दृष्ट्वाऽऽहार्पितेयं मृगहतक जगत्सृष्टिकर्त्रा पुरा नो नेया ते सा कथं स्यादिति हरिरवदज्जल्पनं ते वृथा स्यात् ॥ १८॥ विष्णुर्दैत्येन लीलारणमकृत गदाशूलहस्तेन भीमं क्रुध्यन्तं मायिनं तं निजकरतलतः कर्णमूले जघान । पोत्रेणोद्धृत्य भूमिं किटितनुमभिगच्छन्तमारान्मुनीन्द्रा देवाः सन्तुष्टुवुस्तं हरिममलधियो यज्ञमूर्तिं विनम्राः ॥ १९॥ यक्षान् रक्षांसि धाताऽसृजदसुरगणान् कामभोगैकसक्तान् भूतान्येवं पिशाचान् विविधपितृगणान् साध्यसङ्घानदृश्यान् । एवं सृष्ट्वा बहूनप्यथ कमलभवः सर्गवृद्धिं न पश्यन् क्रुद्धस्तत्याज देहं पुनरसृजदृषीन् लोकभर्त्तॄन् मनूंश्च ॥ २०॥ घात्रा सञ्चोदितत्वान्मुनिरकृत तपः कर्दमः श्रीहरिस्तं प्रोचे पत्नीं स्वकीयां कुरु मनुतनयां देवहूतिं सरागाम् । पुत्र्यः स्युस्ते नवास्यामहमपि दशमः स्यामितीशेन चोक्तो भक्तः प्रत्युद्ययौ तं मनुमतिविमलं प्राप्तमत्यन्तभक्तम् ॥ २१॥ सिद्धोऽहं तव दर्शनान्मम सुता चोद्वोढुकामा गुणैः प्रख्याता कुरु पाणिपीडनमिति श्रुत्वा मनूक्तिं मुनिः । प्राहैषास्तु मम प्रियाऽऽत्मसदृशापत्यस्य लाभे यतिः स्यामेवेति स मानवीमुदवहच्चास्मान्निवृत्तो मनुः ॥ २२॥ मग्ना बिन्दुसरोवरे रतिसमा कान्तेन योगीश्वरे- णारूढा च विमानमेत्य विविधान् लोकान् सुखान्यन्वभूत् । पुत्रीश्चाजनयन्नवाथ वनमेष्यन्तं पतिं प्राह सा- पुत्रं मे त्वभयाय देहि तदहं मुच्येय संसारतः ॥ २३॥ खेदेनालमितो न यामि मुनिनेत्याश्वासिता गर्भिणी काले पुत्रमसूत सा च कपिलं श्रीवासुदेवं सती । पुत्रीर्ब्रह्मसुतास्तयोरुदवहन् जग्मुश्च ते कर्दमः पत्नीमर्पितवान् सुते भगवति प्राप्तः परां सद्गतिम् ॥ २४॥ निर्विण्णां जननीं प्रपन्नमनसं पुत्रो हरिः प्राह तां - चित्तं बन्धकृदात्मनो गुणरतं सक्तं न चेन्मोक्षकृत् । भक्तिः सज्जनसङ्गमेन च भवेत्सक्तिर्निरस्या तया भक्तः पश्यति सर्वतो हरिमतो निर्भीकतामेति सः ॥ २५॥ सूक्ष्मस्थूलानि भूतान्यपि दश दश च ज्ञानकर्मेन्द्रियाणि प्रोक्तं भिन्नं चतुर्धा हृदिति यदखिलं प्राकृतं तत्त्वजालम् । तद्भिन्नः पञ्चविंशः पुरुष इति दृढं विद्धि तत्सन्निधौ सा शक्ता स्वं कर्म कर्त्तुं प्रकृतिरिति विविच्यैनमेव स्मरेस्तम् ॥ २६॥ नाक्तोऽयं प्रकृतेर्गुणैस्तु पुरुषः कर्ता न भोक्ता च नो कर्ताऽस्मीत्याभिमन्यते यदि पुनः प्राप्नोति संसारिताम् । तन्मुक्त्यर्थमिहात्मचिन्तनरता च स्याः शमाद्यैर्भृशं योगी भक्तिविरक्तिमान्न तु पुनर्बध्येत मायागुणैः ॥ २७॥ योगानुष्ठानदूरीकृतमलविशदस्वान्तरङ्गो विविक्ते देशे योगी निषण्णः स्मितमधुरमुखं स्निग्धनीलाभ्रवर्णम् । ध्यायन् वैकुण्ठरूपं सततमिह भवेन्मुक्त एषः स्वकीयं प्रारब्धान्ते शरीरं त्यजति खलु यथा जीर्णवस्त्रं मनुष्यः ॥ २८॥ भक्तिः सत्त्वरजस्तमोगुणभिदामाश्रित्य चोक्ता त्रिधा तस्या भेदविभेदतो बहुविधा भक्तिश्च या निर्गुणा । सा सेव्या फलदैव तां सुकृतिनश्चापाद्य श‍ृण्वन्ति मे लीलास्ताः कथयन्ति भीतिरहिताश्चान्ते जयेयुर्मृतिम् ॥ २९॥ पापात्मा स्वकुटुम्बपोषणमतिर्विस्मृत्य धर्मांश्च मे मायामोहितचित्तवृत्तिरनघे मोघोद्यमोऽतृप्तिमान् । कासश्वासकृतश्रमो यमभटैर्नीतो भृशं ताडित- स्तामिस्रादिषु पीड्यते नृपभटैर्दण्ड्यो यथा पुरुषः ॥ ३०॥ नष्टाघोऽपि स वासनामलिनधीरेव प्रविष्टः स्त्रिया गर्भं संवृत उल्बतः कृमिगणैर्दष्टः शरीरे सदा । सर्वाङ्गोत्थितवेदनः स्तुतहरिः काले कृतावाक्शिराः क्षिप्तः सन् बहिरिष्टविघ्नकलुषस्वान्तो बहु क्लिश्यति ॥ ३१॥ पुण्यात्माऽपि नरः पितॄननुदिनं देवांश्च सन्तर्पय- न्नन्ते गच्छति चान्द्रलोकममरैः साकं वसन् सोमपाः । पुण्यान्ते पुनरेष्यतीह पुनरावृत्या भृशं दुःखितो भक्तिज्ञानविरक्तिमान् परपदं प्राप्नोति नावर्तते ॥ ३२॥ मातस्ते भक्तिरस्तु स्वयमनवरतं निर्गुणं भावयेर्माम् मृत्युर्माभूत्तवेदं मतमनुसर मे योगिनी स्याश्च मुक्ता । इत्युक्त्वाऽगाद्धरिस्तद्वचनमनुसरन्तीश्वरध्यानसक्ता जीवन्मुक्ताऽऽश्रमे सा निजतनुमजहान्मानवी कर्मणोऽन्ते ॥ ३३॥

अथ चतुर्थ स्कन्धः ४

धातुः सर्गा व्यवर्धन्त स हरिरजनि क्षत्तराकूतिपुत्रो यज्ञाख्यः सानसूया विधिहरिपशुपत्यंशपुत्रानसूत । मूर्तिर्नारायणं तं नरमपि सुषुवे वैष्णवांशौ प्रसूतेः पुत्र्येकाऽन्या सती तु त्रिनयनमुदुवाहाऽनपत्याऽभवच्च ॥ १॥ सत्रे विश्वसृजां शुभे विधिसुतो दक्षोऽखिलैर्मानितो दृप्तो नैव शिवेन तत्र कुपितः शम्भुं शपन्नाह सः । यज्ञे भागमयं भवो न लभतां देवैः सहैवं रुषा प्रत्युक्तं बत नन्दिना पशुरयं बस्ताननः स्यादिति ॥ २॥ दक्षोऽथाऽऽरभताध्वरं स्मितमुखी ज्ञात्वा सतीदं शिवं प्रोचे ते श्वशुरः करोति यजनं यावः प्रतिष्ठस्व तत् । तेनोक्तं न निमन्त्रिता वयमिदं मन्निन्दनार्थं कृतं गच्छेस्त्वं यदि निन्दनं तव भवेद्द्रष्टास्यनिष्टानि च ॥ ३॥ मातृज्ञातिदिदृक्षया शिववचोऽनादृत्य सा प्रस्थिता प्राप्ता यज्ञभुवं विनिन्दितहरं यज्ञं निरीक्ष्याह सा । मा मा निन्दत शङ्करं त्वघहरः सर्वैश्च वन्द्योऽयमि- त्युक्त्वा दक्षजमात्मदेहमदहद्योगाग्निना च स्वयम् ॥ ४॥ रुद्रक्रोधोत्थधीरप्रमथपरिवृढो वीरभद्रः शिवाज्ञां लब्ध्वा यज्ञं सदक्षं प्रमथितमितरैर्भूतसङ्घैः समेतः । प्राप्तस्तां यज्ञशालां शिवविमुखमुनीन्द्रामरान् भग्नगात्रान् कृत्वाऽथो दक्षशीर्षं हृतममरमुखे दक्षिणाग्नौ जुहाव ॥ ५॥ देवांस्तानपराधिनोऽपि गिरिशे निर्भिन्नगात्रानजः कैलासं नयति स्म नेमुरमराः श्रीदक्षिणामूर्तये । दक्षो जीवतु रुद्रभागसहितो यज्ञः समारभ्यतां देवाः पूर्ववदेव सन्त्विति शिवं ब्रह्मा स्तुवन्नब्रावीत् ॥ ६॥ दक्षो रुद्रकटाक्षतस्त्वजमुखोऽप्युत्थाय नत्वा शिवम दध्यौ विष्णुमथो व्यलोकि सकलैः प्रीतः स्तुतः श्रीहरिः । यज्ञस्त्वेष समाप्तिमाप विकलाङ्गत्वं सुराणां हृतम् प्रायः सा च हिमाद्रिजा गिरिशमेवाऽप्ता पतिं पूर्ववत् ॥ ७॥ पुत्रो बालः सुनीतेः सदसि कटुवचोविद्धचेता विमातु- र्विष्णुर्दुःखार्तिहारी भज तमिति जनन्युक्तितः प्रस्थितोऽतः । मार्गे श्रीनारदात्तद्भजनविधिमहामन्त्रयोगान् ध्रुवाख्यो लब्ध्वा चाब्दार्धमृच्छन् मधुवनमकरोद्भक्तवर्यस्तपांसि ॥ ८॥ देवर्ष्या दिष्टमार्गः कृतकठिनतपा लोकनाथं समीक्ष्य स्तुत्वा भक्त्या स लब्ध्वा वरमभिलषितं राजभोगं सुदीर्घम् । अन्यैर्नाधिष्ठितं च ध्रुवपदममलं बन्धुभिर्मानितः स्वैः प्राप्तो गेहं जनन्यौ पितरमपि ननामाथ राज्येऽभिषिक्तः ॥ ९॥ भ्राता यक्षहतोऽभवत् स सुरुचिर्दग्धा च दावाग्निना ज्ञात्वेदं ध्रुव आजुहाव विमना युद्धाय यक्षान् भृशम् । मायायुद्धमकारि तैर्बहुविधैः शस्त्रैः स विद्धस्तदा रक्षेत्त्वां खलु शार्ङगपाणिरिति तं प्रोचुर्मुनीनां गणाः ॥ १०॥ पौत्रं क्रुद्धं स दृष्ट्वा मनुरवददलं वत्स रोषेण यक्षा दह्यन्तेऽस्त्रैस्तवैकः सहजहतिकरः पीडितोऽनेकसङ्घः । राज्ञो भक्तस्य नेदं समुचितमखिलं सर्वशक्तस्य लीला- स्तत्रैते स्मो निमित्तानि च विरम रणादेवमुक्त्वा जगाम ॥ ११॥ सद्वाक्यादरतः क्षणात्स विरतो युद्धात्कृतानुग्रहो यक्षेन्द्रेण चिराय साधु धरणीं रक्षन् भजन् श्रीहरिम् । मृत्योर्मूर्ध्नि पदं निधाय वरमारूढो विमानं ध्रुवः पश्चान्मातुरगात् परं ध्रुवपदं श्रीनारदस्तज्जगौ ॥ १२॥ अङ्गस्तत्कुलजः प्रजार्थमयजद्यज्ञं सुतं लब्धवान् नाम्ना वेनममुं चकार तनयं क्रूरं च दुष्टाशयम् । दृष्ट्वा राज्यविरक्तधीः सुतनयो बन्धाय दुष्टात्मजो निर्वेदाय भवेदिति स्वगृहतस्तुष्टो ययौ काननम् ॥ १३॥ वेनो राज्येऽभिषिक्तो मुनिभिरतिजवाद्यज्ञदानादिकर्मा- ण्याज्ञाशक्त्या निरुन्धन्नहह परिहसन् निर्जरान् श्रीहरिं च । धर्मं वक्तॄन् मुनीन्द्रान् सकलहितकरान् धर्मशास्त्रं च निन्द- न्नेषां हुङ्कारमात्राद्गलदसुरपतद्वेनवत्स्यान्न कोऽपि ॥ १४॥ तद्बाहू मथितौ ततोऽजनि हरिर्नाम्ना पृथुः श्रीसखः स्वीकृत्यार्पितवस्तुजालमखिलैः स्तोतॄन् हसन्नूचिवान् । किञ्चिद्वो न कृतं मया न विदिता वो मे गुणा नैव मे स्तोत्रप्रेम जनाः सदा सकलदो देवो हरिः स्तूयताम् ॥ १५॥ इत्थं राजवचो निशम्य मुनिभिः प्रोत्साहितास्ते तदा सूताद्या जगदुर्दृढं हरिकला राजैष सम्मार्जयन् । दोषान् वेनकृतान् समो मघवता दोग्धा धरित्रीं मखान् कुर्वन् दण्डितदुर्जनो यतिवरान् सम्पूजयेत्कीर्तिमान् ॥ १६॥ सूतादीन् समपूजयन्नरवरः कामैः प्रजाभिः पृथु- र्दग्धा जाठरवह्निना वयमतो देह्यन्नमित्यर्थितः । अन्नं देहि जनेभ्य आशु वसुधे नोचेद्धता स्या मये- त्युक्त्वा स्वं धनुराददे परवशा स्तौति स्म तं गौर्भिया ॥ १७॥ कामान् क्षीरमयान् ददामि सकलान् वत्सं तथा दोहनं दोग्धारं नृप कल्पयेति कथितः कृत्वा मनुं वत्सकम् । राजाधुक्षत गां स ओषधिगणं हस्ते निजैर्वत्सकै- स्तत्तद्वस्तु यथोचितं च दुदुहुर्देवासुरर्ष्यादयः ॥ १८॥ चक्रे राजाश्वमेधान् शततममखमेध्याश्वहर्तारमिन्द्रं जित्वाश्वं राजपुत्रः पुनरलभत तं मायिनं देवराजम् । राजा कोपाज्जिघांसुर्मुनिभिरतिबलो वारितो धातृवाक्यं श्रुत्वा तस्मान्निवृत्तो मुदितवृषसखः कीर्तितः पौरमुख्यैः ॥ १९॥ प्रत्यक्षो हरिराह योगसुदृढं चित्तं हि नो चञ्चलं भक्तस्त्वं वृणु मे वरं सकलदोऽस्म्येष प्रसन्नो नृप । प्रत्यूचे नृपतिर्महत्तममुखात्त्वत्कीर्तनं त्वत्कथा- स्त्वन्नामानि पिबानि भोस्तदुचितं कर्णायुतं देहि मे ॥ २०॥ राजैकोनशतक्रतुः पृथुरथ प्राभाषतोच्चैः प्रजा भद्रं वो भवतु स्वधर्मनिरता भूत्वा भवन्तः सदा । सर्वं कर्म समर्पयन्तु हरये निस्सङ्गतापाविताः क्षेमं दास्यति वः स इत्यभिवदन् सर्वैश्च पूज्योऽभवत् ॥ २१॥ राज्ञा सम्पूज्य पृष्टः सहसहजमुनिर्योगिवर्यः कुमारः प्रोचे सद्धर्मकारी हरिपदकमलध्यानतो योगनिष्ठः । कामार्थाबाधितः सन् यमनियमतितिक्षादिभिर्द्वन्द्वभावान् जित्वा ब्रह्माहमस्मीत्यनुभवति नरः क्षेममार्गो नृणां सः ॥ २२॥ दृष्ट्वाऽऽत्मानं प्रवयसमथ स्वेषु पुत्रेषु राजा सन्न्यस्योर्वीं वनमुपगतश्चार्चिषा सेव्यमानः । योगी कृष्णे निहितसकलो द्वन्द्वजेता तपस्वी- सद्योमुक्तिं परपदमवापान्वगात्तं प्रिया च ॥ २३॥ ख्यातः प्राचीनबर्हिस्त्वसृजदथ सुतान् स प्रचेतस्समाख्यान् पित्राऽऽदिष्टा गतास्ते दश कुसुमसुगन्धामलं तीर्थमेकम् । पश्यन्तश्चेन्दुचूडं सविनयमनमन् रुद्रगीताख्यमन्त्रं लब्ध्वाऽस्मात्तीर्थमग्ना हरिभजनमकुर्वंश्च मन्त्रं जपन्तः ॥ २४॥ एषां राजा पिता तु क्रतुकृदमलहृन्नारदेनैवमुक्तो यज्ञेनालं न दद्यात्सुखमयमघकृत्प्राणिहिंसा नराणाम् । वाक्यं च श्रूयतां मे नवमुखनगरे क्वापि पत्नीविधेयः कश्चिद्राजाऽवसत्स्वैः सह निजसुहृदं विस्मरन् मूढबुद्धिः ॥ २५॥ प्रेयस्येव पुरञ्जनी नृपवरस्यैषा तथाप्येकदा तां नाऽऽपृच्छ्य वनं गतश्च मृगयां कुर्वन् निवृत्तस्ततः । स्नात्वा लेपनमाल्यतः स्वयमलङ्कुर्वन् स्मरावेगतः क्रोधागारगतां प्रियामनुनयन् भोगांश्च भुङ्क्ते स्म सः ॥ २६॥ नानाभोगपरम्परासु नृपतिः पत्नीसमेतः सदा मग्नः पुत्रशतान्यजीजनदहो यज्वा सकामो भृशम् । क्षीणायुर्बुबुधे न कालजवमित्याज्ञाय सेनाबले- नाक्रान्तश्च बभूव भूरिबलिना गन्धर्वराजेन सः ॥ २७॥ संवृत्तेऽथ रणे हतः स नृपतिः सञ्चिन्तयन् प्रेयसीं स्त्रीत्वेनाजनि सा विदर्भवनिता पत्यौ मृते दुखिता । तत्राप्तो द्विज आह मानससरोहंसावहं त्वं च न- न्वावामेक इति क्षणात्प्रियतरौ हंसौ च तौ जग्मतुः ॥ २८॥ राजा जीवोऽत्र देहे पुरि सह निवसन् बुद्धिपत्न्या सखायं विस्मृत्येशं त्र्यवस्थो जनिमृतिवशगः कालगन्धर्वपिष्टः । दैवेनादिष्टभक्तोत्तमसमभिगमाद्विप्रमीशं सखायं पश्यन् ब्रह्मात्मबुद्धिर्भवति भज हरिं सर्वथा तेऽस्तु भद्रम् ॥ २९॥ इत्युक्तस्तपसे नृपो वनमगादब्दायुतं तत्सुता- श्चक्रुर्दीर्घतपोऽभिदृश्य गरुडारूढं हरिं चास्तुवन् । तद्वाक्याद्गृहमागता उदवहन् वार्क्षीं वधुं मारिषा पुत्रं चाजनयत् स दक्ष इति वै ख्यातः प्रजासृष्टिकृत् ॥ ३०॥ पुत्रा वेदिषदः समर्प्य महिषीं पुत्रेऽब्धितीरं गताः सत्रं चासत नारदाद्धरिकथाः श्रुत्वा ययुस्तद्गतिम् । मैत्रेयस्य मुखादिमाश्च विदुरः पीत्वा हरेः सत्कथाः प्राप्तो हस्तिपुरं निनाय विपिनं ज्येष्ठं च तां सौबलीम् ॥ ३१॥

अथ पन्चम स्कन्धः ५

भूयः श्रीशुक आह पौरव मनोराद्यः सुतः श्रीहरौ भक्तः सत्पुरुषः प्रियव्रत इति ख्यातो विरिञ्चोक्तितः । कन्ये द्वे उदुवाह रात्रिमकरोद्गच्छन् दिनं तेजसा जाता अस्य सुतास्त्रयोदश पुनः सोऽन्वाचरन्नारदम् ॥ १॥ तस्य ज्येष्ठसुतस्तु मन्दरगिरिं प्राप्तस्तपश्चाऽचर- न्नाग्नीध्रोऽप्सरसं विलोक्य जडवद्वक्ता तया सम्मिलन् । भौमस्वर्गसुखं विचित्रमुपभुज्याब्दायुतान्युत्सुक- स्तृप्तिं नाऽप सुतान्नवाप्यजनयन्नाभ्यादिकान् भोगिराट् ॥ २॥ आग्नीध्रस्य सुतस्तु नाभिरनपत्योऽभूत्प्रजार्थेष्टिकृत् प्रत्यक्षं हरिमाहुरत्र मुनयो राज्ञोऽस्तु पुत्रः शुभः । यस्तुल्यो भवता भवेदिति वचः श्रुत्वा स्वतुल्यं परं नो पश्यन् हरिरेव नाभितनयो जातः पितृप्रीतिकृत् ॥ ३॥ नाभेः पुत्रः प्रसिद्धोऽभवदृषभ इति स्वर्गराड् रुद्धवर्षं चक्रे वर्षं सुवर्षं हृतमदसुरराजार्पितायां जयन्त्याम् । उत्पाद्य श्रेष्ठपुत्रान् यतिवरनृपतिश्रोत्रियानेष नाना- धर्मानुष्ठानधीरः सकलशुभकरः पुत्रकानादिदेश ॥ ४॥ पुत्रा मानुषजन्म दुर्लभमिदं मोक्षाय बन्धाय नो मुक्तिः सज्जनसङ्गतो हरिकथालापादिना लभ्यते । मा मा मत्सरबुद्धिरस्तु व इदं ब्रह्मैव सर्वं जगत् लोकान् ब्रूत विमुक्तिमार्गमिममित्युक्त्वा यतिः प्रस्थितः ॥ ५॥ मौनी योगिवरः सुखं जनपदग्रामाटवीतीर्थगो निस्सङ्गो विचरन् निजात्मनि परं वस्त्वेव पश्यन् क्रमात् । सम्प्राप्तः कुटकाचलं निजतनुं वह्नौ जुहाव स्वयं निष्कामो यतिधर्मसद्गुरुरयं देवाय तस्मै नमः ॥ ६॥ तत्पुत्रो भरतोऽभवन्नरपतिस्तत्स्मारकं वर्षना- मैतद्भारतमित्यहो शतसहस्राब्दान् महीं पालयन् । पञ्चाजीजनदात्मजान् यजनकृद्ध्यायन् विराट्पूरुषं सर्वं कर्मफलं समर्प्य हरये प्राप्तश्चतुर्थाश्रमम् ॥ ७॥ तस्मिन् ध्यायत्यनन्तं झटिति मृगवधूः सिंहभीतोत्पतन्ती नद्यां विस्रस्तगर्भाम्रियत नव शिशुं मोचयन् मृत्युवक्त्रात् । स्नेहात्तत्पालनप्रीणननिरतमतिस्तत्स्मृतेर्देहपाते भूयो जातो मृगः सन् हरिभजनरतस्तं च देहं जहौ सः ॥ ८॥ दैवाद्भूयः स जातः सततनुतहरिर्ब्राह्मणः पूर्वजन्म- स्मृत्या मूकोऽवधूतः कुहचन सहजक्षेत्ररक्षानियुक्तः । चण्डीगेहं च नीतो निशि पुरुषपशुर्दुर्जनैस्तत्र देवी हत्वा तान् पीतरक्ता भरतमुरुकृपं भक्तवर्यं ररक्ष ॥ ९॥ गच्छन् सौवीरराजः पथि निजशिबिकां वाहयंस्तेन वाचा निन्दन् पूर्वं तदीयं हितसरसवचः श्रद्धयाऽऽकर्ण्य पश्चात् । स्वस्थानात्सोऽवरूढः कृतनतिरभितः प्राह कस्त्वं कुतस्त्वं योगी मे योगशास्त्रं जनिमृतितरणं ब्रूहि नश्यत्वघं मे ॥ १०॥ स प्रत्याह रहूगणं जगदिदं श्रव्यं च दृश्यं च नो सत्यं सर्वमिदं मनोमयमतो दुःखं सुखं चागतम् । दुःखं स्यात् सगुणं मनो यदि सुखं नैर्गुण्यभाक् संसृति- र्नश्येदात्मविचारतो हरिगुरूपास्त्या मनः स्वं जयेत् ॥ ११॥ भूयोऽप्याहैष राजा भ्रमति मम मनः सज्जगद्भाति विप्रे- णोक्तं नो ब्रह्मणोऽन्यत्किमपि सदणवः स्थौल्यकार्श्यादिकं च । सर्वं सङ्कल्पितं सत्पदनतिभिरिदं ज्ञायते पूर्वजन्म न्यासं कृष्णाङ्घ्रिभक्तो भरतनरपतिर्मूढवत्सोऽद्य वर्ते ॥ १२॥ राजन् पश्य भवाटवीं विचरति क्लिश्यन् जनो मोहितो वर्तन्ते वृकदस्यवोऽत्र भयदा दंशाः सृगालादयः । एतान् जेतुमहं ददामि विमलज्ञानासिमीशं भजे- त्युक्तः स्वं गुरुमानतः स सकलान् ज्ञानी विरक्तो गतः ॥ १३॥ उक्तं व्याससुतेन पौरव गृहाटव्यां कलत्रं वृको दंशो दुर्जन इन्द्रियाणि च मनः षड्दस्यवो भीकराः ॥ १४॥ पुत्रो जम्बुक एवमादिभिरहो शीर्णं भवत्यर्थदं मार्त्यं जन्म हरिं भजन् भरतवद्धन्यो भवेन्मानवः ॥ राजाभूद्भरतात्मजोऽथ सुमतिः कालेऽवधूतवत्तद्- वंशे ज्ञानिवरः प्रतीह इतरो नाम्ना गयः कीर्तितः । तृप्तो यस्य मखार्पितानि च हवींष्यादत्तवान् श्रीहरि- र्मत्ते यत्र मघोनि विद्धि विरजं चान्त्यं नृपं तत्कुले ॥ १५॥ भूयः श्रीशुक आह पश्य जगदाकारेण दृश्यं हरेः स्थूलं रूपमिदं सरोजवदियं भाति क्षितिः सप्तधा । भिन्ना द्वीपसमुद्रतो गिरिवरो मेरुर्यथा कर्णिका जम्बूर्नाम विभज्यते च नवधा द्वीपोऽष्टभिः पर्वतैः ॥ १६॥ मेरोर्मूर्ध्निपतद्धरेः पदजलस्रोतः पुनाति प्रभो- र्भक्तान् स्वार्जितपुण्यशेषसुखभोगार्थं नराः स्वर्गिणः । वर्षाण्यष्ट विशन्ति भारतमिदं सत्कर्मदेशः शिवः पत्न्येलावृतमावसन् सह हरिं सङ्कर्षणं स्तौति च ॥ १७॥ भद्राश्वे मुनयो हयास्यमसुरः श्रीमान् नृसिंहं कुतोऽ प्यार्या भूश्च वराहमादिकमठं क्वापि स्तुवन्त्यर्यमा । मत्स्यं सूर्यसुतो मनुः कमलजा कन्दर्परूपं हरिं सर्वे लोकहितार्थमच्युतपदं भक्त्या भजन्ते नताः ॥ १८॥ वर्षे किम्पुरुषे हरिर्हनुमता रामः सुखं स्तूयते देवर्षिः स च भारते खलु नरं नारायणं सेवते । गङ्गाद्याः सरितोऽत्र सन्ति हिमवन्मुख्या नगाः पुण्यदा जन्मात्र स्पृहयन्ति कृष्णचरितालापप्रिया निर्ज्जराः ॥ १९॥ प्लक्षे स्तौतीध्मजिह्वो रविमथ विमले शाल्मले यज्ञबाहुः सोमं वह्निं हिरण्यः कुश इह घृतपृष्ठस्तमापोमयं च । क्रौञ्चे द्वीपे तु देवं मरुतमुरुबलं चापि मेधातिथिर्वै शाकेऽथो वीतिहोत्रोऽद्वयममृतमजं पुष्करे तर्पयन्ति ॥ २०॥ माने द्यौः क्षमया समा भवति तन्मध्येऽन्तरिक्षस्त्रिषु प्रत्यक्षो रविरस्तमेति समुदेत्येष क्रमात्सर्वदा । मन्त्रैर्यः किल वालखिल्यमुनिभिः संसेव्यते वैदिकै- र्गच्छन् स्यन्दनतोऽप्सरःप्रभृतिभिर्नानाविधं स्तूयते ॥ २१॥ आदित्यः खलु विष्णुरेव भगवान् क्षेमाय जीवात्मनां मासर्त्वादिकभेदमाकलयति ग्लौश्शोभते तर्पयन् । सर्वान् सर्वमयः सुखं तदुपरि प्रीतास्तु सप्तर्षयः कुर्वन्त्येव परिक्रमं ध्रुवपदस्यैते जगत्क्षेमदाः ॥ २२॥ तद्विष्णोः परमं पदं यदखिलस्थानान्यतीत्य स्थितं ज्योतिश्चक्रमिदं यदाश्रयि सदा कालेन च भ्राम्यते । एतद्भूमिप शिंशुमारवपुराभाति त्रिलोकात्मनो विष्णो रूपमिदं स्मरन् प्रतिदिनं मर्त्यस्त्वघान्मुच्यते ॥ २३॥ सूर्यस्याधस्तु राहुश्चरति भवदधः सिद्धविद्याधराद्या विद्यन्ते सप्तलोका भृशमतलमुखा भूतिमन्तो भुवोऽधः । आधिव्याघिक्लमाद्या इह न मृतिभयं चक्रमात्राद्धरेरे- वैतत्तन्नो बलेर्यः सुतलमधिवसन् रक्षितो वामनेन ॥ २४॥ शेषः पातालमूले वसति निजवधूमण्डितो यस्तु मूर्ध्ना भूमिं धत्ते च यस्य भ्रुकुटिनिटिलतः शूलधारी त्रिनेत्रः । काले संहाररुद्रो भवति स च हरेर्जन्मकर्माणि गाय- न्नुच्चैः सङ्कर्षणाख्यः कमलजभवने वर्ण्यते नारदेन ॥ २५॥ विद्यन्ते नरका अधो भुव उपर्युक्ता जलानां जना नीयन्तेऽघकरा इमान् यमभटैः पापानुसारं च ते । पीड्यन्ते विदयं यमेन च भटैर्यावत्कृतान्तं मयेत् युक्तं ते जगदीदृशं च सकलं स्थूलं वपुः श्रीहरेः ॥ २६॥

अथ षष्ठ स्कन्धः ६

विष्णोर्नाम समुच्चरन्न नरकं यात्यस्तपापो यथा विप्रोऽजामिलनामकः कृतमहापापः स दासीपतिः । कृष्टः कालभटैर्भयान्निजशिशुं नारायणेत्याह्वयत् तत्राप्तैश्च चतुर्भुजैर्यमभटा रुद्धा भटैः श्रीहरेः ॥ १॥ उक्तं श्रीवैष्णवैरप्यघकृदयमनेनोदितं नाम विष्णो- स्तेनायं ध्वस्तपापो विदितमविदितं कृष्णनामोच्चरन् यः । तस्याघं मार्जितं स्यान्नरकगतिरमुष्यास्ति नो गच्छतेति श्रुत्वेदं प्राप्तगङ्गः स्मृतहरिरगमद्विष्णुलोकं द्विजः सः ॥ २॥ संवृत्तं कथितं यमस्य सदने दूतैर्यमः प्राह नः सर्वान् पाति हरिः स एव जगतः स्वामी कथास्तस्य यः । वक्ता नाम श‍ृणोति वा स्मरति वा यत्किञ्चिदस्य प्रसा- दार्थं कर्म करोति तस्य नरकप्राप्तिर्न च स्यादिति ॥ ३॥ प्राचेतसस्तदघमर्षणतीर्थगामी दक्षस्तपोकृतसुदीर्घमपत्यकामः । यद्धंसगुह्यममुना भगवान् प्रसन्न- स्तस्मै वधूं वरमभीष्टमदादसिक्नीम् ॥ ४॥ पुत्रा दक्षस्य नारायणसरसि निमग्नाश्च मन्त्रं जपन्तो हर्यश्वा नारदाप्तेश्वरभजनरसास्त्यक्तकामा विचेरुः । भूयः सृष्टांश्च पुत्रान् मुनिरकृत तथैवात्र दक्षेण शप्तो मा विश्रान्तिस्थलं तेऽस्त्विति हरिकरुणामेव मेने स शापम् ॥ ५॥ दक्षः षष्टि सुताः ससर्ज च कृशाश्वायेन्दवे कश्यपा- यैता अङ्गिरसे ददौ निजसुता धर्माय भूताय च । तासां पुत्रपरम्पराश्च पुपुषुः सर्वत्र दैत्याः क्रमे- णादित्या अपि कश्यपस्य तनया आसन् मिथो वैरिणः ॥ ६॥ इन्द्रः श्रीमदबाधितो निजगुरुं दृष्ट्वाऽप्यनादृत्य तं दैत्यैरुन्मथितो विरिञ्चवचनात्तं विश्वरूपं गतः । रक्षास्मान् भव नो गुरुस्त्वमिति चाप्यभ्यर्थयामास स स्वीकृत्यैतदयं गुरुर्दिविषदां मन्त्रं ददौ वैष्णवम् ॥ ७॥ एतेनोक्तं विशुद्धा जपत सुरगणा मन्त्रमेतं प्रभाते मध्याह्ने च प्रदोषे निशि भुवि दिवि चाप्यन्तरिक्षेऽतलादौ । जाग्रत्स्वप्नाद्यवस्थासु च भवतु सदा सर्वतो रक्षिता मे विष्णुर्लोकैकनाथः परमुरुकरुणश्चक्रपाणे प्रसीद ॥ ८॥ एवं मन्त्रमुपास्य वर्धितबलः शक्रो जितारिर्गुरुं त्वाष्ट्रं यज्ञहविर्ददानमसुरेभ्योऽहन् जिघांसुर्हरिम् । त्वष्टा चाप्यकृताभिचारहवनं जातस्ततो भीकरो वृत्रस्तः तद्भयतः सुराश्च शरणं प्राप्ताः स्तुवन्तो हरिम् ॥ ९॥ उक्तः श्रीहरिणा वृषा सह सुरैर्लब्ध्वाऽस्थि दध्यङ् मुने- र्विप्राद्योगिवरादतः खलु कृतं वज्रं वहन्नायुधम् । प्राप्तो युद्धभुवं पलायनपरान् दैत्यांस्तु वृत्रोऽवदद्- युद्धे शत्रुहतस्य चाच्युतपदं स्मर्तुश्च मृत्युर्वरम् ॥ १०॥ वृत्रः शूलधरश्च देवभयदः शक्रप्रयुक्तां गदां गृह्णन् दन्तिवरं प्रताड्य च ततः प्रोचे हसन् वासवम् । पापस्त्वं निजकर्मभिः प्रहर मां वज्रेण देहेन मे कुर्यां भूतबलिं महेन्द्र सदयं गृह्णातु मां श्रीहरिः ॥ ११॥ एवं देहं जिहासुर्निजमसुरवरो वज्रिणा कृत्तहस्तः शक्रं प्रोचे न कुर्मः किमपि वयमिदं चेशतन्त्रं समस्तम् । युद्धे मृत्युर्जयो वा भवतु न च ततो दुःखतोषौ ममैवं धीरो वज्रेण कृत्तो न्यपतदधिरणं प्राप सायुज्यमुक्तिम् ॥ १२॥ हते वृत्रे देवास्तुतुषुरघबाधाकुलमना- श्चिरं हित्वाऽऽहारं सरसिरुहनालीमधिवसन् । हरिं स्मृत्वा चेष्ट्वा धुतसकलपापः कुलिशभृद्- बभूवेन्द्रस्त्वन्यो नहुष इति पापाच्छयुरभूत् ॥ १३॥ वृत्रोऽयं श‍ृणु शूरसेनविषये प्राक्चित्रकेतुर्नृप- स्तस्यैकाजनयत् प्रिया सुतमतो हृष्टोऽभवद् भूमिपः । ईर्ष्याकोपबलादमारयदमुं बालं सपत्नीजनः सर्वे दुःखहतास्तदाभिययतुः श्रीनारदश्चाङ्गिराः ॥ १४॥ उक्तं चाङ्गिरसा भवान् खलु हरेर्भक्तः कलत्रे धने पुत्रे वा ममतां जहातु सकलं मायामयं नश्वरम् । देहो दुःखकरः शरीरिण इमं देहाभिमानं त्यजे- त्येनं नारद आह भूप न चिराद्द्रष्टासि सङ्कर्षणम् ॥ १५॥ राजाऽथो नारदप्रेरितमृततनयप्रोक्तमाकर्ण्य पुत्रे निर्विण्णो राज्यपत्न्यादिषु च मुनिवरादाप्तमन्त्रोपदेशः । दध्यौ देशे विविक्ते हरिमचलमनाः क्वापि सङ्कर्षणाख्यं दृष्ट्वा ज्ञानं स लेभे परममधिपतित्वं च विद्याधराणाम् ॥ १६॥ श‍ृण्वन् विद्याधरीणां हरिनुतिममलो वर्षलक्षाणि नीत्वा गच्छन् वैमानिकः खे स च कथमपि तं शङ्करं चाद्रिमूर्ध्नि । अङ्के कृत्वा प्रियां स्वां मुनिसदसि परज्ञानदं हा विनिन्दन् रुद्राण्या दत्तशापो व्यजनि हुतभुजो दैत्यवर्यः स वृत्रः ॥ १७॥ दैत्यान् हन्ति वृषेति रुष्टहृदया खिन्ना दितिर्मानिनी पुत्रं शक्रहणं चिकीर्षुरभजद्विष्णुं व्रताचारिणी । मायी गर्भगमर्भकं कुलिशभृद्भग्नव्रताया दिते श्च्छित्वा चाकृत सप्त सप्ततनयान् रोषं जहौ सा सती ॥ १८॥ राजन् पुंसवनं ततं श‍ृणु दितेः पत्योक्तमादौ सती शुद्धे मार्गशिरे च पक्ष उदितं विप्रैर्मरुत्सम्भवम् । श्रुत्वा भर्तुरनुज्ञया हरिमथो लक्ष्मीं च सम्पूजयेत् कुर्याद्दण्डनमस्कृतिं च जुहुयादग्नौ हविश्च क्रमात् ॥ १९॥

अथ सप्तम स्कन्धः ७

पृष्टः कार्ष्णिरुवाच नो विषमता विष्णोर्न यो निर्घृणो देवर्ष्यादिजयाजयौ च भवतः सत्त्वादिवृद्धेः क्रमात् । एतत्पाण्डुसुतस्य यज्ञसदसि श्रीनारदोक्तं श‍ृणु श्रीकृष्णस्य निरन्तरस्मरणतो सर्वस्य मुक्तिर्भवेत् ॥ १॥ श्रुत्वा भ्रातृवधं हिरण्यकशिपुः क्रुद्धः प्रतिज्ञां सद- स्यातेने हरिरक्ततश्च सहजं सन्तर्पयिष्ये भृशम् । अम्बां प्राह सहस्नुषां च तनयान् मोघेन दुःखेन किं वीरस्वर्गमियाय मे च सहजो जातो मृतः स्यादिति ॥ २॥ गत्वा मन्दरपर्वतं स दितिजो घोरं तपस्तप्तवान् लोकास्तेन चकम्पिरे कमलजं दृष्ट्वा पुरः सोऽब्रावीत् । मृत्युर्माऽस्तु ममासुरैः सुरनरैस्तिर्यग्भिरन्तर्बहि- र्भूमौ वा दिवि चायुधैरथ भवेत्सर्वाधिपत्यं प्रभो ॥ ३॥ एवं लब्धवरो दिशश्च विदिशो जित्वा त्रिलोकाधिपो माहेन्द्रं पदमध्युवास मुनिभिः सिद्धादिभिश्च स्तुतः । विष्णुं हन्तुमियेष चास्य तनयः प्रह्लाद उच्चैर्गृणन् ध्यायन् श्रीहरिमिद्धभक्तिरसिकः सच्चित्तमानन्दयत् ॥ ४॥ ज्ञातज्ञेयः स बालो हरिविमुखगुरुप्रोक्तविद्याश्च श‍ृण्वन् पृष्टः पित्राऽऽह लब्धा जनक नवविधा विष्णुभक्तिर्गुरोर्मे । इत्युक्तः पुत्रहत्योद्यमविफलतया चेद्धकोपान्धचित्तो दैत्येन्द्रः पाशिपाशैः सुतमरुणदयं चाह बालान् सतीर्थ्यान् ॥ ५॥ जन्मैतन्मानुषं नो सुलभमिह सुखं लभ्यते कर्मतो वा दुःखं कौमारकाले चरत शुभधियो वैष्णवानेव धर्मान् । जित्वा चित्तेन्द्रियाणि स्मरत हरिपदं सौहृदं भूतजाले कुर्वन्तस्तत्प्रसादात्करगतमखिलं स्यादिदं नारदोक्तम् ॥ ६॥ रायः पुत्राः कलत्रं च न ददति सुखं नश्वरं सर्वमेत- न्नित्यः क्षेत्रज्ञ आत्मा हरिरुरुकरुणः सर्वभूताधिवासः । नूनं स्त्रीयक्षरक्षःखगमृगदितिजा मुक्तिमापुर्मुकुन्दः प्रीयेताव्याजभक्त्या हरिभजनरतः स्वस्तिमान् स्याद्यथाहम् ॥ ७॥ प्रह्लादस्य गिरं हिरण्यकशिपुः श्रुत्वा क्रुधाऽताडयत् स्तम्भं गर्जनकम्पितत्रिभुवनस्तस्मान्नृसिंहो हरिः । तीक्ष्णाक्षो भ्रुकुटीमुखोल्बणवपुर्न्निर्गत्य दैत्यं नखैः क्रूरैस्तं तु विदार्य रक्तलहरीसिक्तः स्तुतोऽभूत् सुरैः ॥ ८॥ आन्त्रस्रग्धरकन्धरं नरहरिं नापुः सुरा नो रमा प्रह्लादस्त्वनमत्पुरो विगतभीश्चास्तौत्प्रशान्तं हरिम् । संसारार्णवतः समुद्धर जनांस्तेऽनुग्रहार्हाः सदा मूढास्त्वद्विमुखाः प्रभो कुरु च मां भक्तं हरे ते नमः ॥ ९॥ तुष्टः श्रीहरिराह तेऽस्तु सततं भद्रं त्रिभिः सप्तभिः पूतस्ते जनको नृपोचितसुखं भोग्यं त्वया बालक । पुण्यं नश्यति भोगतः कृतमघं सत्कर्मभिश्च स्वकै- रन्ते मां त्वमवाप्स्यसीति भगवानन्तर्हितोऽभूत्ततः ॥ १०॥ पृष्टः पाण्डुसुतेन नारदमुनिः प्रोचे जना धर्मत- स्तिष्ठन्तीश्वरचिन्तया शमदमाहिंसातितिक्षादिकः । सामान्यः खलु धर्म एव हि नृणां वर्णादिभेदेन तद्- धर्मस्यास्ति च भेद एव विदिता वर्णाश्च विप्रादयः ॥ ११॥ भेदाश्चाश्रमभेदतोऽपि कथिता धर्मस्य वर्णी गुरो- र्दासः प्रोक्तमथाऽचरन् गुरुकुले छन्दांस्यधीयीत च । सन्ध्योपासनमाचरेच्च मितभुक् स्त्रीचिन्तनं वर्जयेद्- वानप्रस्थ इहाचरन् स्वनियमानार्षं पदं प्राप्स्यति ॥ १२॥ सन्यासी सकलेषु पश्यति परं ब्राह्म प्रशान्तो मुनि- र्नारम्भान् यतिरारभेत गदितं विज्ञानिना भिक्षुणा । प्रह्लादाय मधुव्रतादिह गुरोरेषा विरक्तिः शयो- र्लब्धान्नेन च तुष्टिरेवमुभयं लब्धं गुरुभ्यामिति ॥ १३॥ कुर्वन् गार्हिककर्म सज्जनमुखाच्छृण्वन् हरेः सत्कथा गायन् श्रीहरिनाम बन्धुसुतदारादौ च रक्तो बहिः । अन्तस्तत्र विरक्त एव विभजन् सर्वेषु वित्तं समं तीर्थस्नानकृदाश्रमादि सततं गच्छेद्गृहस्थो जनः ॥ १४॥ श्राद्धं कर्म समाचरन् यजनतः सन्तर्पयन् निर्जरान् भूतादीन् निजधर्ममेव विदधत्तुष्टो गृहस्थो भवेत् । मोक्षार्थी तु गुरुं समेत्य विधिवत्प्राणान् नियच्छन् जये- च्चित्तं चेन्द्रियवर्गमेतदखिलं ब्रह्मेति सञ्चिन्तयेत् ॥ १५॥

अथ अष्टम स्कन्धः ८

पृष्टश्चाह शुको व्यजायत हरिर्मन्वन्तरे चाऽदिमे यज्ञो नाम विभुर्द्वितीय उदितः सद्ब्रह्मचारी स्वयम् । भूयोऽभूदपि सत्यसेन इति यो जातस्तृतीये महा- कारुण्येन रिरक्षिषुर्गजवरं जातश्चतुर्थे हरिः ॥ १॥ कश्चिद्दन्तिवरस्त्रिकूटविपिने क्षीराब्धिमध्ये मृगान् शास्ता स्वैः सहितो गृहीव सरसि क्रीडन् निमग्नो बली । ग्राहेणाभिहतो रुषा च चरणे दैवाच्चिरं सङ्गरं कुर्वन् नष्टसमस्तशक्तिरवशस्तुष्टाव भक्त्या हरिम् ॥ २॥ जन्माद्यस्य यतः स मेऽत्र शरणं भूमन् कृपावारिधे बद्धं मोचय मां स्वकर्मभिरितस्तस्मै नमो ब्रह्मणे । श्रुत्वेदं हरिरुद्धृताम्बुजकरं दन्तीन्द्रमत्रारिणा ग्राहात्कृत्तमुखादमूमुचदरं पश्यत्सु देवादिषु ॥ ३॥ इन्द्रद्युम्नो नरपतिरयं ध्यानमग्नोऽपि दैवात् शप्तोऽगस्त्येन च गजवपुः श्रीहरेः स्पर्शयोगात् । तत्सारूप्यं गत उरुमुदा पार्षदत्वं च हूहू- र्गन्धर्वोऽयं स्वपदमगमद्ग्राहताया विमुक्तः ॥ ४॥ वैकुण्ठस्त्ववतीर्य शुभ्रतनयो मन्वन्तरे पञ्चमे वैकुण्ठं कृतवान् रमापतिरयं षष्ठे तु वैराजजः । सम्भूत्यामजितोऽजनिष्ट विधिना दुर्वाससः शापतो निःश्रीकेष्वसुरैर्जितेषु च सुरेष्वस्तूयत श्रीहरिः ॥ ५॥ प्रत्यक्षो हरिराह सन्धिमसुरैः कृत्वाऽथ निर्मथ्यतां क्षीराब्धिः कुरुतात्र मन्दरगिरिं मन्थानमुत्साहिनः । नेत्रं वासुकिमप्यतन्द्रमिति ते श्रुत्वा वहन्तो गिरिं दैत्यैः साकमहो निपेतुरमरा ईशेन चोत्थापिताः ॥ ६॥ दैत्याश्च त्रिदशा ममन्थुरुदधिं मग्नं जले मन्दरं विष्णुः कूर्मवपुः स्वपृष्ठतलतः प्रोद्धृत्य चान्यद्वपुः । बिभ्रत्तत्र सहस्रबाहु जलधिं मथ्नन् व्यलासीत्ततो जातं रूक्षतरं विषं समपिबत् त्र्यक्षश्च सर्वैः स्तुतः ॥ ७॥ जातान्यब्धेर्बहून्येव च गजरमणीकल्पवृक्षादि शक्रो धेनुं विप्राश्च रत्नं हरिरपि जगृहुर्वारुणीं दैत्यवर्याः । जाता लक्ष्मीः सदोषान् सुरदनुजमुनीन्द्रादिकांश्चापि हित्वा विष्णुं वव्रे पतिं तैरमृतमपहृतं दानवैर्विष्णुहस्तात् ॥ ८॥ दृष्ट्वा देवान् विषण्णान् हरिरतुलमरं मोहिनीरूपमास्था- यान्योन्यं दस्युभावादुरुकलहरतान् दैत्यवर्यान् कटाक्षैः । गीर्भिश्चाऽमोह्य गृह्णन्नमृतमथ ददौ निर्जरेभ्यो निगृह्य स्वर्भानुं व्याजरूपं कृतफलमखिलेभ्योऽददात् भक्तिगम्यः ॥ ९॥ गते च गरुडध्वजे त्रिदशदानवाश्चक्रिरे रणं सुतुमुलं ततः सुरगणे च पर्याकुले । हरिः पुनरुपागतो निहतकालनेमिस्त्वहन् सुमालिमुखदानवानपि च माल्यवन्तं रणे ॥ १०॥ शक्रेणाभिहतः पपात च बलिर्वज्रेण दैत्या हता जम्भाद्या अथ नारदस्य वचसा शक्रो निवृत्तो रणात् । शुक्रस्तूर्णमजीवयद्रणहतान् मन्त्रेण पूर्णाङ्गकान् दैत्यान् दैत्यगुरुर्बलिस्तु विजितो ज्ञानी न दुःखं गतः ॥ ११॥ योषिद्रूपं दिदृक्षुर्हरिपदमगमच्छङ्करः श्रीहरेस्तद्- दृष्ट्वा चारामदेशे चलकुचयुगलं कन्दुकाघातलोलम् । कामावेगात् परिष्वज्य च पुनरुदितज्ञानतो भक्तिनम्रः कैलासे सत्सभायां हरिमहिमकथामाबभाषे भवानीम् ॥ १२॥ ख्यातो वामन इत्यजायत हरिर्मन्वन्तरे सप्तमे चक्रे याचनमष्टमादिषु तथा मन्वन्तरेष्वच्युतः । अंशेनावतरन् दधाति विविधं श्रीसार्वभौमादिकं रूपं नाम च भक्तरक्षणपरो ह्येवं सदा श्रीहरिः ॥ १३॥ रक्षन्तो मनवः सुरा मनुसुता लोकत्रयं धर्मतो वर्षन्तो धनधान्यपोषणपराः शक्रा हरिप्रेरिताः । वर्तन्ते श्रुतितत्त्वबोधनपराः सप्तर्षयश्च ब्रुवन् ज्ञानं कर्म च योगमेष भगवानास्ते सलीलं प्रभुः ॥ १४॥ युद्धे शक्रहतो बलिर्भृगुसुतेनाजीवितो दैत्यराड् भक्त्याऽऽराध्य भृगून् गुरूनयजत श्रीमान् जिगीषुर्दिवम् । यज्ञं विश्वजितं रथाद्यनलतो लब्ध्वा नतो भार्गवं प्रह्लादं च युयुत्सुराप च दिवं भीताः सुराः धाविताः ॥ १५॥ भ्रष्टश्रीषु सुरेषु देवजननीं खिन्नां भृशं कश्यपः प्रोचे देवि पयोव्रतेन विधिवच्छ्रीवासुदेवं भज । पूजातर्पणहोमदाननिरता ध्यानेन मन्त्रं जपे- रेतत्प्रोक्तमजेन मे भवतु ते भद्रं हरिः प्रीयताम् ॥ १६॥ इत्युक्ता व्रतमन्वतिष्ठददितिः सा द्वादशाहं हरिः प्रत्यक्षः स्तुत आह देवि सकलं जाने तवाकाङ्क्षितम् । भूत्वा ते तनयो ददामि सकलं कालं प्रतीक्षस्व भोः प्रीतास्मीति तिरोदधेऽथ भगवान् गर्भं प्रविष्टोऽदितेः ॥ १७॥ श‍ृण्वन् धातृनुतिं हरिः समजनि प्रीतस्तयोः पश्यतोः पित्रोर्विप्रकुमारकोऽभवदयं छत्री वटुर्वामनः । तेजस्वी हयमेधवाटमविशद्भक्यादरात्पूजितः प्रोक्तोऽभूद्बलिना ददामि सकलं यद्यद्भवानिच्छति ॥ १८॥ इत्युक्तो हरिराह ते नृप कुलं जानेऽत्र नो भीरवो नादाताऽर्थिषु देहि भूमिमिह मे पादैस्त्रिभिः सम्मिताम् । लोकेशो वितरामि ते हितमिति प्रोच्चैर्वदन्तं बलिं शुक्रः प्राह न देयमेष कपटो विष्णुर्हरेत्तेऽखिलम् ॥ १९॥ वाग्दत्तं तु ददामि नून मनृतं वक्तुं न शक्तोऽस्म्ययं विष्णुश्चेत्सुकृती भवेयमहमित्युक्त्वाऽसुरः सादरम् । तत्पादाववनिज्य चेष्टमददाद्वर्णी विवृद्धोऽभवत् पद्भ्यामेव विचक्रमे त्रिभुवनं कीर्त्त्याऽभिषिक्तोऽसुरः ॥ २०॥ विष्णोर्वै चरणावनेजनमरं धात्रा कृतं योगिनो वेदाद्याश्च ववन्दिरे हरिमथो दैत्याः प्रविष्टा रसाम् । बद्धो दैत्यवरः खगेन हरिणाप्युक्तश्च मे दीयतां तार्तीयीकपदं न चेद्दिशसि तल्लोकान् विशेर्नारकान् ॥ २१॥ एवं विप्रकृतो बलिः स्थिरमतिः प्रोचे तृतीयं पदं मूर्ध्नि त्वं कुरु मे भयं न नरकादस्मद्गुरुस्त्वं हरे । प्रह्लादेन च वन्दितो हरिरुवाचाद्य व्रज ज्ञातिभिः प्राह्लादे सुतलं सुभद्रमिह ते पश्येश्च मां रक्षकम् ॥ २२॥ मुक्तं तं बलिमाह गच्छ सुतलं त्वद्दुर्गपालोऽस्मि ते तन्द्रारोगपराभवादि न भवेन्मन्वन्तरे चाष्टमे । इन्द्रस्त्वं भवितासि गच्छ सुमते प्रह्लाद पौत्रेण वो भद्रं स्यादिति देवदानवसमो नाकं सुरेभ्यो ददौ ॥ २३॥ परं ज्ञानं सत्यव्रतनृपतये मत्स्यवपुषा हरिर्दत्वा चक्रे नुतिकृतममुं सप्तममनुम् । हयग्रीवं हत्वा हृतनिखिलवेदानजमुखे पुनर्निक्षिप्यैष त्रिभुवनसुरक्षां समतनोत् ॥ २४॥

अथ नवम स्कन्धः ९

सोऽयं वैवस्वतो वै मनुरभवदिलां तस्य पुत्रीं वसिष्ठ- श्चक्रे पुत्रं कुमारः स तु वनमविशत्स्वैः सहेलावृतं च । तेन स्त्रीरूपमाप्तः शशिसुतबुधपत्नी च भूत्वा ततश्च स्त्रीत्वं पुंस्त्वं च लब्ध्वा स वनमभिययौ त्यक्तराज्यस्तपोऽर्थम् ॥ १॥ नष्टे सुद्युम्न आर्तो मनुरकृत तपो दीर्घमिक्ष्वाकुमुख्यान् लेभे पुत्रान् दशैको हतविधिबलतो धेनुहत्या पृषध्रः । राज्यान्निष्कासितोऽन्यः कविरिहविषये निःस्पृहस्त्यक्तसर्वः सायुज्यं तौ गतौ द्वावितरमनुसुता लेभिरे पुत्रपौत्रान् ॥ २॥ शर्यातेरिष्टपुत्री च्यवनमुनिमतिक्रोधशीलं कृतान्धं वृद्धं वव्रे सुकन्या पतिपरिचरणं भक्तिपूर्वं चकार । चक्राते देववैद्यौ मुनिमुरुकरुणौ नेत्रवन्तं युवानं यज्ञे शक्रेण साकं मुनिरकृत तयोः सोमपानार्हतां च ॥ ३॥ नाभागादम्बरीषो हरिनिहितमतिर्जात एनं व्रतान्ते हन्तुं दुर्वाससा च प्रकुपितमनसा प्रेषिता घोरकृत्या । तां दग्ध्वा विष्णुचक्रं मुनिमभिपतति स्मैष भक्तध्रुगार्तो भीतश्चक्रानलात् स त्रिभुवनमखिलं पर्यटन् श्रान्तिमाप ॥ ४॥ नो पश्यन् क्वापि रक्षां हरिपदमभयं प्राप्तवान् श्रीहरिस्तं प्रोचे याह्रम्बरीषं भज शरणमृषे रक्षिता त्वां स राजा । श्रुत्वेत्थं भूपमाप्तो मुनिरभयमहो चक्रबाधाविमुक्त- स्तत्कारुण्यं स जानन् हरिभजनमहत्वं च शंसन् व्यचारीत् ॥ ५॥ इक्ष्वाकुः ख्यात आसीद्दशसु मनुसुतेष्वस्य पुत्रो विकुक्षि- स्तत्पुत्रस्त्विन्द्रवाहः श‍ृणु नृप युवनाश्वोऽत्र गर्भं दधार । मान्धातारं प्रसूते स्म च तनयमहो वव्रिरे तस्य पुत्र्यः पञ्चाशत् सौभरिं तं पतिमथ तपसे निर्गतास्तेन साकम् ॥ ६॥ देहेनैव त्रिशङ्कुस्त्रिदिवमपि गतः कौशिकानुग्रहेण प्रीतस्तेनास्य पुत्रोप्यभवदुरुगदः श्रीहरिश्चन्द्रनामा । क्रीतोऽभूद्येन बालः क्रतुपशुरवशस्तं त्वजीगर्ततश्च modified बालं भूपाच्च मन्त्रैर्वरुणकरुणयाऽमोचयन्मन्त्रकृत् सः ॥ ७॥ वंशेऽस्मिन् सुप्रसिद्धः सगरनरपतिस्तस्य यज्ञाश्वमाहृ- त्येन्द्रोऽगाद्राजपुत्राः कपिलमुनिसमीपेऽश्वमेनं च दृष्ट्वा । तन्निन्दाग्नौ प्रदग्धाः सगरसुतसुतस्त्वंशुमांस्तं ववन्दे तद्वाचाश्वेन पूर्णः क्रतुरयमभिषिक्तोऽम्शुमांस्तत्र राज्ये ॥ ८॥ पौत्रस्त्वंशुमतो भगीरथ इति ख्यातश्च भस्मीकृतान् पूर्वान् दीर्घतपाः क्षमी सुरनदीस्पर्शाद्दिवं प्रापयन् । मुक्तिं प्राप तदन्वयेऽथ गुरुणा शप्तः सुदासात्मजो रक्षोऽभूदथ मुक्तिमाप च ततः खट्वाङ्गनामाऽभवत् ॥ ९॥ भानोर्वंशे हरिरथ भरतो लक्ष्मणोंऽशेन जज्ञे शत्रुघ्नोऽप्यार्यवाचा वनमनुजवधूसंयुतश्चैष गत्वा । सीताहर्तारमस्त्रैरनुजमपि निहत्याखिलैर्वातजाद्यै- रन्ते प्राप्तस्त्वयोध्यां नगरमधिवसन् राजधर्मानकार्षीत् ॥ १०॥ सन्तुष्टा अभवन् जना भुवि नृपे रामे न धर्मच्युतिः सीता दुर्जनभाषितेन विपिने त्यक्ता विशुद्धा सती । वाल्मीक्याश्रमतः सुतौ च सुषुवे सर्वेषु पश्यत्सु सा भूद्वारं प्रविवेश यज्ञमकरोद्रामः सदाराधितः ॥ ११॥ वंशेऽत्र भूपतिवरा बहवः किलैष नश्येत् सुमित्रनृपतिश्चरमो भवेच्च । एकोऽत्र जैमिनिमुनेः प्रियशिष्यभावाद्- योगी बभूव विदितश्च हिरण्यनाभः ॥ १२॥ इक्ष्वाकोस्तनयो निमिः कुलगुरोः शापान्मुदा त्यक्तवान् देहं सर्वविलोचनेषु च निमेषोन्मेषणे कारयन् । आस्ते त्यक्तशरीरमस्य मथितं जातस्ततो भूपतिः modified नाम्नासौ मिथिलः पुरी च मिथिला तस्याऽत्र सीताऽजनि ॥ १३॥ ताराचन्द्रमसोः सुतो बुध इलां चक्रे प्रियां मानवीं तत्पुत्रश्च पुरूरवा उदवहत्स्वःसुन्दरीमुर्वशीम्म् । तं त्यक्त्वा च जगाम सा स तु चरन्नुन्मत्तवत्सर्वत- स्तद्वाचाऽथ निवृत्त एव च यजन् गन्धर्वलोकं ययौ ॥ १४॥ जातः श्रीजमदग्नितो भृगुकुले चैलस्य वंशे हरी- रामस्तस्य सवत्सधेनुमहरत् श्रीकार्तवीर्यार्जुनः । हत्वा कृत्तसहस्रहस्तकममुं प्रत्यानयद्गां स च प्रोचे तं जनकः क्षमां कुरु सदा पूज्यो द्विजः स्यात्वया ॥ १५॥ जघ्नुस्तेऽर्जुनपुत्रकाश्च पितरं रामस्य वैरेण तान् हत्वा क्षत्रियदुष्टनिग्रहकरस्त्रिःसप्तकृत्वः पुनः । रामः सर्वमयं मखैरयजत क्षेमाय लोकस्य स प्रीतः शान्तमनास्तपः कृतयशा आस्ते महेन्द्राचले ॥ १६॥ आयुश्चैलसुतस्ततो रजिरयं वीरः सुराभ्यर्थितो दैत्यान् नाकपदापहारनिरतान् हत्वा सुरैर्मानितः । प्रह्लादाद्यरिशङ्कितेन हरिणा न्यस्तं नृपश्चाऽददे स्वाराज्यं जनके मृते प्रतिददुः पुत्रा न तत्ते हताः ॥ १७॥ दैवात् सन्दृष्टकूपोद्धृतभृगुकुलजामुद्वहन् देवयानीं शर्मिष्ठासङ्गदोषात् श्वशुरमुनिवरादाप्तशापो ययातिः । वृद्धो भूत्वाऽथ पृष्टादलभत तनयाद्यौवनं तस्य दत्वा वार्धक्यं चेद्धकामो रतिसुखरसिको वासुदेवं समीजे ॥ १८॥ ऊचे भूपः स्वपत्नीमज इव रतिभोगैकतृष्णोऽस्मि हा हा भोगैः कामः प्रवृद्धो भवति न तु शमं याति नूनं मुमुक्षुः । स्त्रीभिः सङ्गं न कुर्यादहमिह विपिनं यामि भद्रं तवास्त्वि- त्युक्त्वा गच्छन्नरण्यं हरिभजनरतः सर्वमुक्तो बभूव ॥ १९॥ पूरोः कुले बहुषु राजसु कीर्तिशाली दौष्यन्तिरेव भरतो महितस्त्रिलोके । पत्नीभिरात्मतनयेषु हतेषु धीरः सर्वं मृषेत्युपरराम स भूपवर्यः ॥ २०॥ वंशेऽस्मिन् रन्तिदेवो नृपतिरुरुकृपः क्लेशलब्धं स्वभक्ष्यं पेयं च क्षुत्पिपासाविवशतरनृणां स्नेहपूर्वं प्रदाय । दुःखान्मुक्तस्त्रिलोको भवतु भवतु मे सर्वदुःखं तदेमी- त्युक्त्वा दृष्ट्वा त्रिमूर्तीन् विधिहरिगिरिशान् भक्तिपूर्वं ननाम ॥ २१॥ श्रीशन्तनुः पूरुकुले प्रसिद्धस्तद्वंशजाः पाण्डुसुता महान्तः । तन्मध्यमो जिष्णुरतोऽभिमन्युस्तस्माद्भवान् पौरव एव सत्वम् ॥ २२॥ द्रुह्रुश्व तुर्वसुरनुश्च यदुर्ययातेः पुत्रा यदोर्ननु कुलं सुतरां पवित्रम् । श्रीकृष्णजन्म यत एव पुमान् स्मरंस्तत् प्राप्नोति चिन्मयपदं शिथिलीकृताघः ॥ २३॥ जातोऽभून्मधुरापुरे हरिरजः शौरेः सुतो गोकुलं कृत्वा पावनमर्जुनोद्धवगुरुः संहृत्त्य भूमेर्भरम् । त्यक्त्वा देहमगात् स्वधाम भगवान् यः पाति भक्तान् सदा यल्लीलाश्रवणेन भक्तहृदयं सच्चित्सुखं प्राप्स्यति ॥ २४॥

अथ दशम स्कन्धः १० (पूर्वार्धः)

पृष्टो राज्ञाऽऽह कार्ष्णिर्न खलु नृप हरे जन्म कर्मापि सर्वं लीलास्तस्यैतदास्तां निजरिपुजननीं सोदरीं हन्तुकामः । कंसो रुद्धो निवृत्तः श्रुतविधिसुतवाग्देवकीपुत्रषट्कं हत्वाऽबध्नाद्गृहे तां पतिमपि मधुरामेकनाथः शशास ॥ १॥ शेषः सप्तमगर्भतः खलु शिशुर्नीतो हरे मायया रोहिण्या उदरेऽर्पितश्च भगवान् भारं जिहीर्षुभुवः । देवक्या जठरं विवेश भगिनीं दृष्ट्वाथ तेजस्विनीं कंसे विष्णुभयार्दिते सुरगणैर्भक्त्या स्तुतोऽभूत् हरिः ॥ २॥ काले मङ्गलशोभिते निशि हरिः पित्रोः पुरस्ताद्गृहे दृष्टः शङ्खगदारिपङ्कजधरस्तुष्टः पितृभ्यां नुतः । बालाऽशेत पिता सुतं करगतं तीर्त्वा नदीं च व्रजं गत्वा तत्र निधाय नन्दतनयां धृत्वाऽऽर कारागृहम् ॥ ३॥ कंसः पोथयति स्म तामधिशिलं बालां दिवं प्राप्य सा सद्यः प्राह रिपुस्तवाजनि भुवीत्युक्त्वाऽम्बिकान्तर्दधे । शौरिं भोजपतिर्मुमोच भगिनीं कारागृहाद्बालकान् हन्तुं दैत्यगणं न्ययुङ्क्त च पुनदुर्मन्त्रिभिः प्रेरितः ॥ ४॥ नन्दस्त्वात्मजलाभतुष्टह्मदयः कर्माणि चक्रे शुभान् यायाताः शिशुदर्शनैकमनसः पुत्रोत्सवाघोषिणः । गोपीगोपजना उपायनकराः सम्मानिता वार्षिकं कंसायैष करं ददौ व्रजपतिः शौरिं ददर्श प्रियम् ॥ ५॥ मन्दस्मेराद्र्रवक्त्रा शिशुमधिकविषं पाययन्ती स्तनं स्वं पीतं प्राणाट्टहासैर्गलदसुरभवद्भीतिदा पूतना सा । देहे दग्धे तु धूमेऽप्यगरुसुरभिले विस्मिता गोपसङ्घाः गोप्यः कर्माणि चक्रुर्हरिभजनरता बालरक्षार्थकानि ॥ ६॥ बालस्त्रैमासिकोऽनो मृदुपदतलतः पाटयन् हा तृणाव- र्ताख्यं कण्ठे गृहीत्वा नभसि सुररिपुं वातरूपं निगृह्य । मुक्तं चक्रे जनन्यै निजवदनतले दर्शयन् विश्वमेतत् सर्वै लीलाभिरेवं व्रजजनमखिलं मोदयन् लालितोऽभूत् ॥ ७॥ रामं कृष्णं च नाम्नाऽकुरुत मुनिरुभौ तत्र कृष्णस्तु धावन् वत्सैः क्रीडंश्च श‍ृङ्गिद्विजसलिलशितास्यादिभिर्मङ्क्षु गच्छन् । भोक्ता क्षीरादि दत्तं प्रतिभवनमदत्तं च मोष्टा जनन्यै मृद्भक्षोत्कण्ठितायै विवृतनिजमुखे दर्शयामास विश्वम् ॥ ८॥ मथ्नन्ती जननी दधि स्वशिशवे स्तन्यं ददाना जवा- दुत्सृज्यैनमगादयं तु कुपितः पात्रं बभञ्जाश्मना । साऽऽयाता तु विलोक्य तत्स्मितमुखी यष्टिं गृहीत्वा पुन- स्त्यक्त्वा बालमुलूखले सकरुणं दाम्ना च बद्ध्वा गता ॥ ९॥ पुत्रौ वैश्रवणस्य नारदमुनेर्वाचा द्रुमत्वं गतौ नाम्ना यौ नलकूबरोऽपि च मणिग्रीवः पुरा तस्थतुः । कृष्णोलूखलमर्दधूतचरणौ वृक्षौ पतित्वा भुवि स्तुत्वा त्वत्पदभक्तिमेव सततं देहीत्यमू जग्मतुः ॥ १०॥ श्रुत्वाऽऽयाता द्रुपातारवमखिलजना विस्मितास्ते फलानि क्रीत्वा कृष्णो दरिद्रामकृत धनवतीं दत्तरत्नः सरामः । गत्वा वृन्दावनान्तं सह सुहृदजितो वत्सपालो वनान्ते हत्वा दैत्यौ च वत्सं बकमपि विबुधैर्नन्दजो नन्दितोऽभूत् ॥ ११॥ कृष्णो गोपकुमारकाश्च विपिने क्रीडैकलोला गुहा- बुध्या ते शयुरूपिणोऽघदनुजस्यास्यं प्रविष्टा जवात् । देवानां मिषतां गतासुरसुरः सायुज्यमुक्तिं गतो बालाश्चापि मृताः पुनर्भगवतो दृष्ट्या त उत्थापिताः ॥ १२॥ कृष्णे गोपैः समेतेऽदति कबलमजो माययाऽऽच्छाद्य वत्सान् गोपांश्च व्योम्नि तस्थावथ हरिरदधाद्गोपवत्सादिरूपम् । द्वेधा वत्सांश्च गोपान् शतधृतिरितरत्रापि पश्यन् विमोहाद्- भूयो दृष्ट्वा च सर्वं हरिमयमुदितोत्कण्ठमस्तौद्विनम्रः ॥ १३॥ नौमीड्याभ्राभकृष्णं करधृतमुरलीवेत्रश‍ृङ्गं ममाघः सर्वं भूमन् क्षमस्व प्रभुरसि जगतां देव भूयो नमस्ते । एवं स्तुत्वा गतेऽस्मिन् सरसमुपविशन् गोपसङ्घैः समेतो भुक्त्वा क्रीडन् हरिः स्वैः कथितनिजयशा वन्यभूषो निवृत्तः ॥ १४॥ गोवत्सैः सहितस्तु धेनुकवनं प्राप्तो बलो लीलया तालान् कम्पयति स्म धेनुकमहादैत्यं खरं सानुगम् । हत्वा तालफलानि वै निजसुहृद्भ्योऽदात् स्तुतः स्वानुगैः कृष्णेन त्रिदशैश्च सायमटवीतोऽयं निवृत्तोऽभवत् ॥ १५॥ कालिन्दीविषतोयपानमृतगोगोपान् कटाक्षैर्निजै- रुत्थाप्यात्र जले निपत्य विहरन् सङ्क्षोभयन् कालियम् । कृष्णः कङ्कणकिङ्किणीकलरवैर्नृत्यन् फणेषूद्धतं चक्रे वान्तविषं नतं च भगवान् नागीभिरुच्चैः स्तुतः ॥ १६॥ पत्नीभिः सह कालियो रमणकद्वीपं गतः श्रीहरेः पादस्पर्शविधूतगारूडभयो सा निर्विषाऽभून्नदी । पित्रोरन्तिकमागतश्च भगवानूषुश्च रात्रौ वने गोपास्तं भयदं वनाग्निमपिबत्कृष्णो जगत्पालकः ॥ १७॥ द्वन्दीभूय यथायथं च सुहृदो लीलारणं चक्रिरे जेतॄनूहुरयं जिता इह मिथः कृष्णः सखायं जितः । श्रीदामानमधत्त तत्र विजितो दैत्यः प्रलम्बो वहन् रामं तूर्णमधावदेनमवधीद्रामः सुरैः पूजितः ॥ १८॥ गावः क्रीडनलोलुपेषु निखिलेष्वाप्ताश्च मुञ्जाटवीं सद्यः काननवह्निमेव परितो दृष्ट्वा भयाकम्पिताः । कृष्णो मीलितलोचनेषु सकलेष्वापीय दावानलं भाण्डीरं च निनाय ता उरुकृपो गोपा भृशं विस्मिताः ॥ १९॥ वर्षर्तौ गगनं घनावृतमपो भूमाववर्षद्यथा कृष्णो भक्तजने कटाक्षमचला वर्षेण नो बाधिताः । भक्ताश्च व्यसनै यथा शरदृतौ निर्मेघमभ्रं मनो भक्तानामिव राजते स्म हरिणा चानन्दितं गोकुलम् ॥ २०॥ कृष्णो रामेण सार्धं शरदृतुकुसुमालङ्कृतो वेणुगीतै- र्गोवत्सान् गोपबालान् हरिणखगनगान् किञ्च गोवर्धनार्द्रिम् । सर्वांश्चानन्दयामास च कलनिनदैर्गोपनार्यस्तु कृष्णं स्मारं स्मारं सकामाः प्रतिदिनममला वर्णयन्त्यो बभूवुः ॥ २१॥ हेमन्ते किल गोपिका भगवतीं सम्पूज्य सम्प्रार्थयन् कृष्णो मे पतिरस्तु सुन्दर इति श्रद्धाविशुद्धान्तराः । ता ज्ञात्वा च शरीरमानरहिता वस्त्रापहारेण स प्रोचे रात्रिषु वः स्पृहाः शरदृतौ साध्या इतो गच्छत ॥ २२॥ क्षुत्पीडाहतगोपबालकगणैरन्नं द्विजा याचिता न प्रत्यूचुरतः स्त्रियः ससुहृदे कृष्णाय गत्वा वनम् । बह्वन्नं प्रददुस्तदा पतिनिरुद्धैका शरीरं विहा- याप्ता तत्पदमृत्विजः सुमनसः प्रत्युद्ययुस्ताः स्त्रियः ॥ २३॥ कृष्णो दृष्ट्वेन्द्रयागोत्सुकमखिलजनं नन्दमूचे पितः किं कर्तासीन्द्रेण नः किं भवतु गिरिमखः पूज्यतां विप्रसङ्घः । गोपाश्चक्रुर्यथोक्तं सकलमचलरूपोऽघसत् स्थूलकायः कृष्णो दत्तं बलिं तैर्गिरिवरमनमन् सादरं ते सकृष्णाः ॥ २४॥ ज्ञात्वेदं कुपितो वृषा स्ववचसा गोपांश्च निन्दन् हरिं मेघान् प्रेरयति स्म वर्षजलतो गोगोपकाः पीडिताः । कृष्णश्छत्रमिवोद्वहन् गिरिवरं सप्ताहमासारतः सर्वान् पालयति स्म वृत्ररिपुणा मेघास्ततो वारिताः ॥ २५॥ पृष्टो नन्द उवाच विस्मयवतो गोपान् कुमारं प्रति श्रीगर्गो मुनिराह विष्णुसदृशो बालोऽयमस्याऽश्रिताः । शत्रोर्बिभ्यति नो पुरा च वसुदेवस्यात्मजोऽयं सतो रक्षन् कर्म सदा करोति विविधं ज्ञेयश्च न स्यादिति ॥ २६॥ लज्जानम्रमुखो वृषा हृतमदः प्राप्तो व्रजं नन्दजं स्तुत्वा प्राणमदच्युतस्य मधुरालापेन चाऽश्वासितः । गोविन्दं पयसाऽभ्यषिञ्चदधुना श्रीकामधेनुस्तदा सर्वे तुष्टुवुरच्युतं समभवत्सर्वत्र सन्मङ्गलम् ॥ २७॥ एकादश्युपवासिनं व्रजपतिं स्नातं जले चासुरो लोकं वारुणमानयद्धरिरपि प्रत्यानयत्तं व्रजम् । गोपानां च सनातनं निजपदं सत्यं परं दर्शितं कृष्णेन व्रजवासिनः पररसे मग्नास्ततश्चोद्घृताः ॥ २८॥ वृन्दारण्ये दिनान्ते शशिकरधवले वेणुगीतैः स्मरार्ता गोपीराहूय कृष्णः पतिगृहसुतदेहादिकं विस्मरन्तीः । निस्सङ्गो योगमायी स्मरविजयमहानाटके मारलीलाः कुर्वन्नानन्दयामास स सुभगतया चोन्मदास्ता बभूवुः ॥ २९॥ कृष्णश्चान्तर्दधे तत्क्षणमतिविवशा वृक्षवल्लीमृगादीन् पप्रच्छुः किं सुहृद्वो नयनसुमधुरो गोपिकाचित्तचोरः । यत्र क्वापीह दृष्टः स इति यदुवरान्वेषणव्यग्रचित्ताः श्रीकृष्णाराधिकां ता ददृशुरपि जगुः कृष्णमुच्चै रुदन्त्यः ॥ ३०॥ दयित तव कथाम्भस्नानशुद्धा वयं त्वं व्रजजनभयहन्ता दृश्यसे न क्व गन्ता । अधरमधुरसो नो दीयतां ते करौ नः शिरसि किमु निधेहि त्वत्सुखान्नः सुखं स्यात् ॥ ३१॥ तासामाविरभून्मृदुस्मितमुखः पीताम्बरो माधव- स्ताभिस्तत्र निषण्ण आह दयिताः श्रान्ता भवत्यो वृथा । युष्माभिःसममासमत्र न मया त्यक्ता भवत्यो ध्रुवं न त्यक्ताः स्युरिदं कृतं तु मयि वः सत्प्रेमपुष्ट्यै भृशम् ॥ ३२॥ एवं ताः स तु सान्त्वयन् मधुरवाग्लीलाविलोलः स्वयं प्रत्येकं किल गोपिकासु मिलितः सम्बद्धबाहुर्मिथः । गाढालिङ्गनचुम्बनादिभिरयं सम्पूजितो नर्तकः कूजन्नूपुरकङ्कणाः स्वरतिरेवाऽनन्दयद्गोपिकाः ॥ ३३॥ गोपाः सादरमम्बिकावनमुपेत्यानर्चुरम्बां शिवं नन्दं मोचयति स्म सर्पमुखतः कृष्णः स विद्याधरः । हित्वा सर्पवपुः स्तुवन् हरिमगात्स्वर्गं व्रजस्त्रीमुषं हत्वा गुह्यकमाहृतं हरिरदाद्रामाय चूडामणिम् ॥ ३४॥ कृष्णे याते वनं ता विरहतरलिताः सञ्जगुर्गोपनार्यो- लीलागोपालवेषं खगमृगसरितो बालवल्यश्च दिव्याः । नेत्रश्रोत्राभिरामं सुमधुरमुरलीलोलमालोकयन्ति स्फीतानन्दं दिवा स व्रजशुभकृदयं दर्शनीयः सुपुण्यैः ॥ ३५॥ दैत्येऽरिष्टे ककुद्मत्यजितकरहते सादरं कंसमेत्य प्रोक्तं श्रीनारदेन व्रजभुवि वसतो रामकृष्णौ रिपू ते । विध्येतौ शौरिपुत्रौ कलय हितमिति प्रोच्य याते मुनौ स प्राहाक्रूरं रिपू मे पुरमिह वसुदेवात्मजावानयेति ॥ ३६॥ दैत्यं केशिनमश्वरूपमवधीत् कृष्णोऽथ देवर्षिणा प्रोक्तस्त्वं जगतां पतिः कुरु विभो भूमिं समाश्वासिताम् । द्रक्ष्याम्यर्जुनसारथिं यदुपते तुभ्यं नमोऽस्त्वित्ययं यातः कश्चिदथासुरो मयसुतो व्योमो हतः शौरिणा ॥ ३७॥ अक्रूरः कंसवाक्यादुषसि रथवरेणैव गच्छन् स्वकीयं भाग्यं सञ्चिन्त्य कृष्णस्मृतितरलहृदा नन्दगेहे प्रदोषे । दृष्ट्वा रामं च कृष्णं प्रमुदितहृदयस्तत्पदान्ते प्रणम्य द्वाभ्यामालिङ्गितः सन् व्रजविभवरसैः सादरं मानितोऽभूत् ॥ ३८॥ त्यक्त्वा नो याति कृष्णः प्रति मधुपुरमित्याकुला गोपनार्यो गायन्त्यः कृष्णनाम प्रियविरहशुचा सास्रमुच्चैर्विलेपुः । अक्रूरो बालकाध्यासितरथमनयत्सूरजायां स भक्तो मज्जन् पश्यन्ननन्तं तदुपरि कमलानाथमप्येवमस्तौत् ॥ ३९॥ भूमन् नौमि भवन्तमादिपुरुषं त्वन्नाभिपद्मोत्थितो ब्रह्मा लोकपितामहोऽपि भवतो रूपं न जानात्यहो । नानारूपधरोऽर्पितं सकलमप्यादाय कारुण्यतो भक्तानां च हितं ददासि खलु मां पाहि प्रपन्नं प्रभो ॥ ४०॥ कृष्णोऽक्रूरेण नीतो मधुपुरमखिलैः पूजितः संस्तुतः सन् पृष्टं चादत्तवस्त्रं रजकमुरुमदं रूक्षवाचं निहत्य । वस्त्राण्यादाय भक्ते प्रकटितकरुणो वायके वासगेहं गत्वा तुष्टः सुदाम्नो बलधनसुखकीर्त्यादि सर्वं ददौ च ॥ ४१॥ गच्छन्नङ्गविलेपदानमुदितः कुब्जां जगन्मोहिनीं कृत्वा काममवाप्स्यसीति विसृजन्नेतां वणिग्भिः पथि । नानोपायनतोऽर्चितः स धनुषः स्थानं समेत्याच्युत- स्तत्सज्यं प्रबभञ्ज कंसहृदये भीतिं च संवर्द्धयन् ॥ ४२॥ मञ्चारूढेषु नन्दादिषु च समुपकर्ण्यारवं मल्लरङ्गाद्- रङ्गद्वारं गतः सन् निहतकुवलयापीडनागो नृसिंहः । कृष्णस्तद्दन्तपाणिः सदसि बहुजनैर्भिन्नभावेन दृष्ट- श्चाणूरोक्तः सरामः समरभुवि विभुर्मल्लवेद्यां व्यलासीत् ॥ ४३॥ चाणूरे निहते रणेऽत्र हरिणा रामोऽप्यहन् मुष्टिकं कूटाद्येषु हतेषु कंसनृपतिं जल्पन्तमुच्चै रुषा । मञ्चादाशु निपात्य तं भुवि हरिः संहृत्य संसारत- श्चक्रे मुक्तमसान्त्वयच्च विधवाः पित्रोरगाच्चान्तिकम् ॥ ४४॥ बद्धांस्तत्र निरागसोऽपि स जनान् कारागृहान्मोचयन् कृत्वा भूपतिमुग्रसेनमजितो नन्दं निवर्त्य व्रजम् । विद्यां ज्ञाननिधिस्त्ववाप्य च गुरोः सान्दीपने दक्षिणां दत्वाऽस्मै सुतमाहृतं यमपुरात्प्राप्तः स्वकीयं गृहम् ॥ ४५॥ धीमान् भक्तवरो हरेर्वचनतो गत्वा व्रजं चोद्धवो नन्दं सादरमर्चितः सुतवियोगार्तौ यशोदामपि । प्राहास्ते नगरे हरिः सुखमिहाप्यस्माकमन्तर्बहि- र्नायं वां सुत ईश्वरो न च वियोगोऽनेन वां स्यादिति ॥ ४६॥ गोपीः कृष्णैकचित्ता विरहतरलिताः कृष्णसन्देशवाक्यं संश्राव्याश्वास्य चायं हरिमहिमकथा वर्णयन् मोदयित्वा । तृप्तः प्रस्थापितश्च व्रजजननिवहैरुद्धवः स्नेहपूर्वं गोपीपादाब्जरेणुं सविनयमभिवन्द्यागतो वृष्णिदेशम् ॥ ४७॥ सैरन्ध्रीं स्मरतापितां हरिरगात्कामोपभोगैरिमां निस्सङ्गः समतर्पयच्च भगवानक्रूरगेहं गतः । सन्तुष्टं तमुवाच - हस्तिनपुरं गत्वा च पार्थान् पृथां दृष्ट्वा नः कथयाशु तत्स्थितिममी रक्ष्या मया सर्वथा ॥ ४८॥ गत्वा हस्तिपुरं च भीष्मविदुरौ दृष्ट्वा पृथां दुखितां पार्थान् कृष्णकटाक्षशीर्णकदनानन्धं च भूपालकम् । ज्ञात्वा तद्गरदानकर्म विमना राज्ञे हितं प्रोच्य स प्रत्यागत्य सुधीर्न्यवेदयदरं कृष्णाय सर्वाण्यपि ॥ ४९॥

अथ दशम स्कन्धः १० (उत्तरार्धः)

कृष्णद्वेषी चिकीर्षुर्भुवमयदुकुलां मागधो भीमसैन्यै- रायातः पिष्टसैन्यो रणभुवि हरिणा चाग्रजेनापि मुक्तः । एवं युद्धेषु भूयो बहुषु सहबलो भग्नदर्पोऽभवत्सः द्वीपेऽथ द्वारकाख्ये यदुजनमनयत् सत्पुरं वासुदेवः ॥ ५०॥ शक्राल्लब्धवरं चिराय मुचुकुन्दाख्यं प्रसुप्तं पदा युद्धार्थी यवनस्तताड हरिबुध्यैष क्षणादुत्थितः । दग्ध्वा तं नयनाग्निनाऽथ करुणासिन्धुं स दृष्ट्वा हरिं स्तुत्वा चानुगृहीत एव बदरीं गत्वा च चक्रे तपः ॥ ५१॥ आप्तो विप्रः कदाजिद्धरिमवददहं कुण्डिनादागतस्त्वं सन्देशं राजपुत्र्याः श‍ृणु महितगुणैस्तेऽनुरक्तां त्वदीयाम् । अत्रागत्य प्रभो मां स्वबलिमिव हरेः केसरी भूपवर्यान् निर्मथ्येमां त्यजश्चेद्व्रतकृशमचिराद्देहमेतं विजह्याम् ॥ ५२॥ रुक्मिण्या वाक्यामेतद्यदुपतिरुपकर्ण्याशु वैदर्भराज्यं सम्प्राप्तो मानितोऽभूद्विजवरवचनै रुक्मिणी तोषिता च । क्षेत्रस्यान्तः प्रविष्टां द्रुतमयि कुरु मां देवि कृष्णस्य पत्नी- मित्थं सम्प्रार्थ्य यान्तीं बहिरहरदिमां कन्यकां वासुदेवः ॥ ५३॥ रुद्धः कृष्णः सकन्यः समरभुवि जरासन्धमुख्यैर्जितास्ते भीताश्चाश्वास्य चैद्यं प्रतिययुरबलाः स्वस्वगेहानि भूपाः । रुक्मी युद्धे विरूपोऽक्रियत हरिरथो भीष्मकस्यात्मजां ता- मानीय द्वारकायां विधिवदुदवहन्मोदमापुश्च सर्वे ॥ ५४॥ वैदर्भीतनयो हृतो जलनिधौ क्षिप्तोऽरिणा शम्बरे- णायं सूदवरैस्तु मीनजठरे दृष्टः शिशुश्चाक्षतः । रत्या पोषित एव नारदगिरा प्रद्युम्ननामा युवा हत्वा तं दितिजं तया सह निजं गेहं पुनश्चागतः ॥ ५५॥ मार्ष्टुं स्वीयमृषापवादमजितो गच्छन् प्रसेनं वने सिंहं चापि मृतं निरीक्ष्य समरे सन्तोषितर्क्षाधिपः । गृह्णन् जाम्बवतीं स्यमन्तकमपि प्रीतोऽथ सत्राजिते तद्रत्नं प्रददौ तदर्पितवधूं भामां स जग्राह च ॥ ५६॥ सत्राजिच्छतधन्वनोश्च मरणं पार्थानुभूता विपत् श्वाफल्केर्वहतो मणिं च सभयं कुत्राप्यहो जीवनम् । रामस्यानुजविप्रयोगमिथिलावासौ च दुःसङ्गता सर्वा एव परम्परा हि विपदामर्थैकमूला नृप ॥ ५७॥ कालिन्दीं सूर्यकन्यां चिरकृततपसं मित्रविन्दामवन्तीं वीराग्र्यः सप्तमूर्तिर्युगपदतिबलान् गोवृषान् सप्त बद्ध्वा । सत्यां भद्रां च दत्तामथ निजसहजैः सायकैर्विद्धलक्ष्यो धन्वी तां मद्रकन्यामुदवहदजितो लक्ष्मणां चापि मुग्धाम् ॥ ५८॥ भित्वा दुर्गाणि शस्त्रैर्मुरमपि नरकं सत्यभामाद्वितीयो हत्वा स्वर्गं गतः सन्नसुरहृतमदात्कुण्डलं देवमात्रे । हृत्वा तत्पारिजातं नरकभवनतो मोचिताश्चानुरक्ता- स्तावद्रूपी त्वसक्तोऽप्युदवहदयुतं षट्सहस्रं स कन्याः ॥ ५९॥ पत्नीं प्राह हरिः कदाचिदनघे वैदर्भि मे पौरुषा वित्ताद्याश्च गुणा न सन्ति गुणवान् भूपस्त्वया गम्यताम् । पत्न्या नाशितगर्वया तु कथितं वित्तं भवान् सर्वदा सर्वेषामभयं शरण्य इति च प्रेम्णाथ साऽऽलिङ्गिता ॥ ६०॥ पत्नीनां भावहावादिभिरमथितहृन्निःस्पृहोऽभूदसङ्गः कृष्णो जाताश्च तासां दश दश तनयाः पुत्रिणस्तेऽप्यभूवन् । प्राद्युम्ने रोचनाया उपयमसदसि द्यूतवैराद्धतोऽभूद्- रुक्मी क्रुद्धेन रामेण तु परिहसितेनारिवर्गा अधावन् ॥ ६१॥ बाणाख्यस्तु सहस्रबाहुरसुरश्चक्रे प्रसन्नं शिवं स्वप्ने तत्तनयाऽनिरुद्धमनुभूयोषा प्रबुद्धा पुनः । आक्रन्दद्विरहेण चित्ररचने दक्षा सखी चित्रले- खाऽऽज्ञायैनमथानिनाय पुरुषं कामिन्युषा तोषिता ॥ ६२॥ बद्धो वीरोऽनिरुद्धो युधि बलितनयेनाच्युतो वृष्णिवीरै- र्युद्धे जित्वा शिवं च ज्वरमसुरकरच्छेदनोत्कण्ठितेन । रुद्रेण प्रार्थितः सन् करयुगमुभयत्रापि शिष्टं तु कृत्वा भक्तं तं चानुगृह्य स्वसुतसुतमुषां चापि लब्ध्वा निवृत्तः ॥ ६३॥ इक्ष्वाकोस्तनयो नृगः सुचरितः कर्मैकदोषात्पतन् प्राप्तः सन् कृकलासजन्म हरिणा स्पृष्टोऽथ दिव्याकृतिः । उक्त्वा स्वीयकथां हरिं कृतनुतिर्नत्वा परिक्रम्य तं प्राप्तो नाकमुपादिशद्विजजने भक्तिं यदूनां हरिः ॥ ६४॥ रामो गोकुलमाप गोपसुहृदः प्रीत्या परिष्वज्य तं पप्रच्छुः कुशलं नमन् स पितरौ नन्दं यशोदामपि । गोपीः कृष्णवियोगतापतरला आनन्दयन् रात्रिषु प्रीतः सूर्यसुतां चकर्ष हलतः कान्त्या च सम्मानितः ॥ ६५॥ कृष्णोऽस्मीति सदा विचिन्त्य मनसा दुस्सङ्गतः पौण्ड्रको मूढः कृत्रिमकृष्णवेषमदधाद्युद्धाय तं चाह्वयत् । कृष्णेनैष हतो रणेऽथ सुकृती सारूप्यमुक्तिं गतो मर्त्यः कृष्णनिरन्तरस्मृतिबलात्सायुज्यमाप्नोति हि ॥ ६६॥ कश्चित्कपिर्द्विविदनामक आर्त्तिकारी सत्कर्मिणां नरकमित्रमरिर्मुरारेः । वृक्षच्छिदुत्पथग उद्धत एव रामं निन्दन्ननेन दृढमुष्टिहतो मृतोऽभूत् ॥ ६७॥ साम्बः कृष्णसुतः सुयोधनसुतां हर्तुं प्रवृत्तो रणे बद्धः कौरवपुङ्गवैरथ बलो यातः कुरूणां पुरम् । क्रुद्धः कौरवनिन्दितः करिपुरं चोद्धर्तुकामः स्तुतः साम्बं मोचयिता वधूं च बलवान् नीत्वाऽऽगतो द्वारकाम् ॥ ६८॥ साश्चर्यं द्वारकायामजसुतमुनिना त्वेकतो धर्ममार्गं वक्ता यात्रोत्सुकोऽन्यत्र च निजसचिवैर्मन्त्रयन् राज्यकार्यम् । ध्यायन् ब्रह्मैव जुह्वन् हुतभुजि स पुराणेतिहासादि श‍ृण्वन् सन्ध्योपास्त्यादि कुर्वन् प्रतिगृहमजितस्तत्र तत्रापि दृष्टः ॥ ६९॥ बद्धानष्टशताधिकायुतयुगं कारागृहे पीडितान् राज्ञो मागधभूमिपेन भगवान् विज्ञाय दूतोक्तितः । पार्थानां च मखोद्यमं सुरमुनेः कार्यद्वयव्याकुलः पप्रच्छोद्धवमत्र कार्यमिह किं ब्रूहीत्ययं चाब्रावीत् ॥ ७०॥ यष्टव्यो मख एष दिग्जयकृता भूपेन तं मागधं हन्ता वायुसुतो रणे करुणया ते रक्षितव्या नृपाः । गन्तव्यं तु गजाह्वयं पुरमिदं श‍ृण्वन् निजैः प्रस्थितः प्राप्तो हस्तिपुरं युधिष्ठिरमुखैः प्रत्युद्गतो माधवः ॥ ७१॥ यज्ञोत्साहिनमच्युतो कृतनृपं कृष्णः सभीमार्जुनः प्राप्तो विप्रमिषेण मागधनृपं युद्धं ययाचे च तम् । भीमो भीमरणाङ्गणे तु जरसः पुत्रं हरेः सूचनात् शत्रुं पाटयति स्म वृक्षविटपं दन्तीव वीर्योद्धतः ॥ ७२॥ मुक्ता बन्धनतो नृपास्तु विवशा दृष्ट्वा हरिं तुष्टुवुः देहि त्वत्पदभक्तिमेव न धने राज्येऽपि वा नः स्पृहा । तुभ्यं देव नमोऽस्तु पाहि सततं संसारघोरार्णवा- दित्थं संस्तुवतोऽनुगृह्य भगवान् प्राप्तो गजाख्यं पुरम् ॥ ७३॥ देवास्तद्राजसूयेऽप्यजगिरिशमुखा भागभाजः प्रहृष्टा आसन् धर्मात्मजस्तु क्रतुसदसि हरिं पूजयामास भक्त्या । सञ्जाता पुष्पवृष्टिः हरिमहिमकथाकीर्तनैरिद्धकोपः कृष्णद्वेषी तु चैद्यः सदसि हरिहतः प्राप्त सायुज्यमुक्तिम् ॥ ७४॥ भीमाद्यैरनुजैः सुहृद्भिरपि च प्रेम्णा नृपस्याध्वरे कर्तव्यं कृतमन्ततस्त्ववभृथस्नानं द्युनद्यां कृतम् । दृष्ट्वा धर्मजभूतिमत्र कुरुराट् सेर्ष्यश्च मानी गतः शक्रप्रस्थसभां पतन् स्थलजलभ्रान्त्या गतो हास्यताम् ॥ ७५॥ इच्छन् कर्तुमयादवीं वसुमतीं साल्वो विमानं हरा- ल्लब्ध्वा सौभमरिन्दमो यदुपुरं मायी बभञ्जोद्धतः । कृष्णे हस्तिपुरे स्थिते रिपुगणं वीरो निरुन्धन् बलात् प्रद्युम्नो द्युमता तु साल्वसचिवेनोग्रं चकाराहवम् ॥ ७६॥ प्रद्युम्नेन हतो द्युमान् कुरुपुरात्प्रत्यागतः श्रीहरिः मायाशौरिशिरः पुरोभुवि हरेः साल्वेन कृत्तं त्वभूत् । आक्रन्दत्सु जनेषु सर्वविदयं नैवाकुलो नाशयन् सौभं साल्वशिरो जहार च रुषा तं दन्तवक्त्रोऽभ्यगात् ॥ ७७॥ सोऽयं कृष्णगदाऽऽहतो निपतितः सायुज्यमुक्तिं गतः संरम्भात्कुरुपाण्डवोत्कटरणोद्योगं समाकर्ण्य सः । तीर्थं तीर्थमभिव्रजन् हलधरः स्नात्वा गतो नैमिषं चाप्रत्युत्थितमात्तकोपमवधीत्सूतं सतां पश्यताम् ॥ ७८॥ तत्स्थाने कल्पयंस्तत्सुतमृषिवचसा बल्वलं तत्र हत्वा रक्षन् सत्रं मुनीनां श्रुतनुतिवचनः पुण्यतीर्थाप्लुतश्च । अन्ते तं भीमदुर्योधनरणमशमं वीक्ष्य खिन्नो निवृत्तः सम्प्राप्तो नैमिषं तन्मुनिजनपरमज्ञानदोऽत्रास्त रामः ॥ ७९॥ आसीत् कृष्णस्य विप्रः सुहृदधिकदरिद्रोऽपि वित्ताद्यसक्तः पत्न्या सम्प्रेषितो यः करधृतपृथुको द्वारकामाप भक्तः । सम्पूज्यैनं सतीर्थ्यं निजमणिभवने पूर्ववृत्तं समस्तं वक्ता प्रेम्णा गृहीत्वा करमकृत हरिर्विस्मितं चातिहृष्टम् ॥ ८०॥ आदायादत्तमिष्टं पृथुकमुरुकृपो भक्षयन्नेकमुष्टिं कृष्णश्चाभूत्सुतृप्तः प्रियसुहृदपरेद्युश्च तुष्टो निवृत्तः । प्राप्तः स्वं भूतिपूर्णं गृहमथ दयितां तोषितां भूषिताङ्गीं दृष्ट्वा कृष्णस्य लीलाः सकलमिति विदन्निद्धभक्तिर्बभूव ॥ ८१॥ सुस्नातास्तपनोपरागसमये भीष्मादयो वृष्णयो नन्दाद्याश्च समन्तपञ्चकमहातीर्थेषु ते सङ्गताः । गोप्यः कृष्णमभिप्रणेमुरजितः सास्रं समालिङ्गितो नन्देनापि यशोदया यदुजनस्त्रीभिश्च तौ नन्दितौ ॥ ८२॥ पार्थास्तुष्टिमुपागता द्रुपदपुत्र्यैकत्र पृष्टा हरेः पत्न्यः स्वस्वविवाहमङ्गलकथा लज्जां विहायोचिरे । साम्राज्यादिषु नः स्पृहा न भगवद्दास्यो वयं कुर्महे प्रेम्णा तद्गृहमार्जनादि सततं तद्ध्येव नो वाञ्छितम् ॥ ८३॥ सम्प्राप्ता मुनयः सबन्धुसहजो नत्वा मुनीन् श्रीहरिः सत्सङ्गस्य महत्वमाकथितवान् भक्तास्तु ते योगिनः । लीलामानुषमच्युतं च नुनुवुः श्रीनारदोक्त्या यजन् शौरिः साश्रु समालिलिङ्ग सुहृदं नन्दं च पत्न्या समम् ॥ ८४॥ पौत्राः कस्य विकोपतो दितिकुले जाताः षडेते पुन- र्जाताः शौरिसुता हताश्च सुतले जाताः पुनस्ते बलेः । कृष्णस्तांस्तु सुतानदीदृशदहो मात्रे स्नुतं तत्स्तनं पीत्वा ते हरिपीतशेषमखिलान्नत्वा प्रयाता दिवम् ॥ ८५॥ पार्थो व्याजयतिः स्वसारमहरद्गूढं सुभद्रां हरेः श्रीकृष्णो युगपद्विमूर्तिऋषिभिः साकं गृहं मैथिलम् । सम्प्राप्तः श्रुतदेवगेहमपि च स्वीकृत्य पूजां तयोः सन्मार्गं प्रतिबोधयन् करुणया द्वाभ्यां च मुक्तिं ददौ ॥ ८६॥ पृष्टः श्रीशुक आह नारदमुनेर्नारायणोक्तं जगत्- सृष्ट्यादौ नृपतिस्तु वन्दिभिरिव प्रातर्नुतः श्रीहरिः । आद्याभिः श्रुतिभिस्तमेव सततं ध्यायेन्मुमुक्षुः सृजन् रक्षन्नेतदु संहरन् जगदहो लीलायते यः प्रभुः ॥ ८७॥ सत्त्वं वा निर्गुणं वा भजति यदि पुमान् निर्गुणः स्यान्मुरारिं भक्त्या ध्यायन् विमुक्तो भवति निजतपस्तोषिताच्छूलपाणेः । शीर्षस्पर्शेन मृत्युं वरमभिलषितं लब्धवान् शाकुनेयो विष्णोर्मायाविमुग्धो निजशिरसि करं साधु कृत्वा हतोऽभूत् ॥ ८८॥ ब्रह्मा रुद्रो गुणाभ्यामपि परिकलितौ शुद्धसत्त्वस्तु विष्णुः सत्यं त्वेतत्परीक्ष्य स्फुटमवददृषीन् पूज्यपादान् भृगुस्तत् । पार्थो वीर्याभिमानी द्विजशिशुपरिरक्षार्थमोघप्रयत्नः कारुण्येनैव विष्णोर्धुतसकलमदः सत्यवाग्रक्षितोऽभूत् ॥ ८९॥ पूर्णं ब्रह्मैव विष्णुः कमलभवमृडाद्यर्थितो वासुदेवः संहर्ता भूमिभारं जगदभिरमयन् द्वारवत्यां विरेजे । गायन् यन्नाम यत्पावनचरितमहातीर्थमग्नो यदर्थं सर्वं कर्मार्पयन् वा परमपदमवाप्नोति मर्त्योऽमृतत्वम् ॥ ९०॥

अथ एकादश स्कन्धः ११

भूम्नः सङ्कल्पमात्रात्परिहसितमुनीन्द्राभिशापोरुभीता अब्धौ साम्बस्य गर्भोद्भवमुसलमरं चिक्षिपुश्चूर्णयन्तः । वृष्णिश्रेष्ठा न चोचुर्हरिमिदमथ तच्चूर्णजालं तरङ्गै- र्नीतम् तीरे प्ररूढं यदुकुलजमहानाशमूलं बभूव ॥ १॥ शौरिर्नारदमाह मे वद परान् धर्मान् यतः सद्गतिः स प्रत्याह पुराऽऽर्षभाः कविमुखाः प्राप्ताश्च सत्रं निमेः । पृष्टाः प्राहुरिमे हरेः पदयुगं ध्यायन् निरुन्धन् मनः श‍ृण्वन् भागवतीः कथाश्च कथयन् प्रोच्चैरभीतो भवेत् ॥ २॥ भक्ताः प्राकृतमध्यमोत्तमतया त्रेधा तितीर्षुहरेः मायां सद्गुरूमाश्रितो हरिपदं चाध्यात्मशास्त्रं पठन् । नो कुर्वन् परनिन्दनं च सुमना ध्यायन् परं ब्रह्म तत्- प्रीत्यर्थं विहितं करोतु सकलं कर्म स्वयं निःस्पृहः ॥ ३॥ बिभ्रद्रूपाण्यरूपो नट इव विविधान्यच्युतो धर्मपुत्रौ भूत्वा नारायणाख्यो नर इति च बदर्याश्रमे तापसेन्द्रः । कामक्रोधादि जित्वा निजयुवतिगणैर्मोहयन् दिव्ययोषित्- कामादीनन्वगृह्णाद्भजतु हरिमिमं स्वीयरीत्या मनुष्यः ॥ ४॥ कुर्वन् काम्यानि कर्माण्यपि हरिविमुखो भक्तनिन्दाघभारात् क्लिश्यत्येवैति तुष्टिं खलु कलिसमये रामकृष्णेति गायन् । जायेरन् भक्तवर्या द्रविडभुवि कलावार्षभैरेवमुक्तं कृष्णं सर्वेशमाराधय नियतमनाः सर्वमुक्तो भवेति ॥ ५॥ ब्रह्माद्यैर्दिविषद्भिरीडितयशाः कृष्णो यदून् प्राह भो मोक्षार्थं मुनिशापतो वयमितो यामः प्रभासं जवात् । श्रुत्वैतत्तु जगत्प्रभुं यदुजना हित्वा च तीर्थं गता धीमन्तं शरणागतं सविनयं प्रोचे हरिस्तूद्धवम् ॥ ६॥ नश्येद्वारवती जवाद्यदुकुलं चापि व्रजाम्येष मां स्मृत्वा गां विचरस्व दृश्यमखिलं चावेहि मायामयम् । धीमन् विप्रमुखात्पुरा यदुरिव श्रेयः पथं मच्छृणु क्षित्यम्ब्वादिगुरूपशिक्षिततितिक्षाद्यैर्भवेस्तापसः ॥ ७॥ गम्भीरापारपूर्णो जलाधिरिव भवेस्तुष्टचित्तो यदृच्छा- लाभेन स्या महासर्पवदमितरसावेशतो मत्स्यवच्च । मृत्युं मा गच्छ बद्धो भव न च करिणीस्पर्शलुब्धेभवत् स्या निस्सङ्गः पिङ्गलावत्सकलविषयतो निःस्पृहत्वात्सुखी च ॥ ८॥ निश्चिन्तो बालवत् स्या वलय इव कुमार्याश्च निश्शब्दयोगी वर्तस्वैकाग्रबुद्धिः परमिषुकृदिव ब्रह्मणीदं यतोऽभूत् । ऊर्णावाप्यूर्णनाभेर्भवति परपदप्राप्तये मर्त्यजन्म स्रष्टा वृक्षाद्यतुष्टः किल विधिरभवन्मर्त्यसृष्ट्या च तुष्टः ॥ ९॥ हित्वा कर्म प्रवृत्तं मयि निहितमनाः कर्म कुर्वन् यमादी- नभ्यस्वैको गुरूपासननिरतमतिर्निर्ममोऽमत्सरश्च । लोकः पुण्यार्जितो नश्वर इति च विदन् दारूणोऽग्निर्यथाऽन्यो देहादेर्भिन्न आत्मा स्वदृगिति च सखे सर्वमुक्तो भव त्वम् ॥ १०॥ बन्धो मोक्षोऽपि जीवस्य न यदि स करोमीति भोक्ताहमित्थं मन्वानो बद्ध एव प्रकृतिरिह करोतीति जानन् स मुक्तः । कर्ता भोक्ता न चाहं प्रकृतिरनुभवत्येव दुःखं सुखं चे- त्येतज्ज्ञानाप्तये मां स्मर भज सततं साधुसङ्गं च कुर्याः ॥ ११॥ यज्ञाद्यैरपि दुर्गमोऽहमजितः प्राप्यश्च सत्सङ्गतो मर्त्या येन रजस्तमःप्रकृतयो दैत्याश्च रक्षांसि च । नाधीतश्रुतयश्च गोपवनिताः प्राप्ता हि मां तत्सखे सत्सङ्गेन निकृत्तसंसृतिभयो भूयाश्च विद्यामयः ॥ १२॥ बुद्धेः सत्त्वरजस्तमांसि च गुणा नैवात्मनो नाशयेः सत्त्वोद्वृद्धतयेतरेऽथ तदप्यन्ते भवेर्निर्गुणः । चित्तं च ग्रथितं गुणा अपि मिथः प्रगेव तद्रोधने तुर्ये मय्यतिभक्तिमेव शरणं हंसस्त्वभाषे मुनीन् ॥ १३॥ श्रेयोमार्गेषु भक्तिर्बहुषु निरूपमा जन्मकर्माणि श‍ृण्वन् गायन् नामानि भद्राणि च मम सुमना लोकमेतं पुनाति । भक्तो नो मोक्षसिद्धिं त्वभिलषति स मां मेघवर्णं शुभाङ्गं ध्यायन् देशे विविक्त्ते वसति सुखमहं विद्धि भक्तैकगम्यः ॥ १४॥ चित्तं धारयतो मुनेर्मयि जितश्वासस्य चाष्टादशा- निष्टाः सिद्धय आपतन्ति विदिता या मत्प्रधानाश्च ताः । अष्टैवाप्यणिमादयोऽथ च दश स्वच्छन्दमृत्यादयो गौणा आभिरहो न वञ्चितमतिर्वर्तस्व भक्तो मयि ॥ १५॥ रुआष्टा पालयिताऽहमेव जगतां हर्ता मदन्यज्जगद्- दृश्यं नैव विभूतियोगमिह मे धीमन् श‍ृणु श्रद्धया । भक्तेषु त्वमहं युगेषु च कृतं द्वैपायनः कीर्तितो व्यासेषु त्वमुपासनं कुरु मनो वाचोऽपि यच्छन् यतिः ॥ १६॥ भेदो वर्णाश्रमाणामपि न कृतयुगे तत्र हंसा मनुष्याः कुर्वन्ति स्वस्वकर्माण्यनिशमुरुतरश्रद्धया भक्तिभाजः । त्रेतायां भेदबुद्धिर्भवति च गुणकर्मानुसारेण विप्र- क्षत्रादि ब्रह्मचर्यादि च विदितमिदं निश्चिताचारवच्च ॥ १७॥ निस्सङ्गः समदर्शनः सुविमलो लब्धेन तुष्टो मुनिः षड्वर्गं च विजित्य काननपुरग्रामाश्रमादीन् विशन् । दृश्यं सर्वमिदं जगन्मम विदन् मायेति तर्केण मां सर्वव्यापिनमेव चिन्तय सखे भक्त्या विमुक्तो भवेः ॥ १८॥ धर्मानुष्ठानशुद्धीकृतहृदि विमलं ज्ञानमाभाति तत्स- त्त्रैकाल्येष्वपि मृदिव घटे शास्त्रतो ज्ञेयमेतत् । ?? भक्तिर्वर्द्धेत नूनं दमशमनियमैस्त्यागशौचादिभिश्च ज्ञात्वा बन्धुः सखाहं गुरुरिति गुणदोषैकदृष्टिं त्यजेश्च ॥ १९॥ दोषं माऽऽत्यन्तिकं पश्य च गुणमपि मत्प्राप्तये कर्म भक्ति- र्ज्ञानं चैतन्मयोक्तं धनतनयकलत्रादिसक्तस्य कर्म । ज्ञानं वैराग्यभाजो निखिलविषयतः स्वल्परक्तस्य भक्ति- र्योगा वेदप्रसिद्धा विविधमभिहिताश्चाधिकारिप्रभेदात् ॥ २०॥ मार्गेण स्वेन कार्यं मम भजनमिदं वेद काण्डत्रयोक्तं विद्यन्ते ह्यर्थवादाः श्रुतिषु मुनिजना भाषमाणाः परोक्षम् । मत्स्मृत्या चित्तशुद्धिर्भवति विषयसङ्गेन कामः क्रमेण क्रोधो बुद्धेर्विनाशोऽपि च विषयनिवृत्तिस्तु सत्क्षेमदात्री ॥ २१॥ तत्त्वान्युक्तानि सिद्धैर्विविधमृषिवरैस्तानि सर्वाणि साधू- न्येषां भेदः प्रकृत्याश्रय उत विदुषां शोभनं सर्वमुक्तम् । जीवो ब्रह्मैव नान्यः पुरुषमिममवेह्यत्र देहादिभिन्नं नित्यं शुद्धं च बुद्धं प्रकृतिविषयतो मा स्म भूर्वञ्चितस्त्वम् ॥ २२॥ नष्टे क्लेशार्जितार्थे सममतिरमलो द्रुह्यमाणो जनौघैः कश्चित्प्रागाह दुखं सुखमपि मनसा कल्पितं तस्य हेतुः । कालः कर्म ग्रहा नो मनसि नियमिते नापि संसारचक्रं प्राप्स्यामीशं नियन्ता मन इति दृढधीर्योगिवर्यो बभूव ॥ २३॥ आदौ ब्रह्मैव सत्यं प्रकृतिपुरुषभेदेन तच्च द्विधाऽभूद्- धीमन् दृश्यं समस्तं प्रकृतिपरिणतिः पूरुषो निर्विकारः । जातं सर्वं विलीनं भवति सति लये ब्रह्मणीदं च नाना- रूपेणाभासमानं जगदखिलमिदं त्वेकमेवाद्वितीयम् ॥ २४॥ सर्वं वै त्रिगुणात्मकं जगदिदं सत्त्वे प्रवृद्धे मृतः स्वर्गं याति भुवं रजस्यपि तमस्युग्रं पदं नारकम् । धर्मिष्ठस्तु मदानृतादि च विहायैकं परं निर्गुणं भक्त्या मां तपसा भजन् जनिमृतिक्लेशात्पुमान् मुच्यते ॥ २५॥ दुस्सङ्गाच्चित्तदोषो भवति बहुतरः सोऽपि भक्त्या विनाश्यो भुक्त्वैलस्तूर्वशीं प्राक् चिरमथ सुकृती चायमुद्यद्विवेकः । त्यक्त्वा भोगाभिलाषं दृढमतिरभवत्सङ्गदोषाद्विमुक्तः सत्सङ्गाच्छुद्धचित्तो मयि निहितमना योगिवर्यो भवेस्त्वम् ॥ २६॥ तन्त्रोक्तं कर्मयोगं श‍ृणु दृषदि हृदि स्थण्डिले क्वापि वा मां सश्रद्धं भावयित्वा स्थिरमति कुसुमैर्गन्धधूपादिभिश्च । उच्चैर्गायंश्च नृत्यन् श्रुतिसुखदकथाः स्तोत्रपाठांश्च श‍ृण्वन् सम्पूज्य प्रेमपूर्वं कृतनतिरमलो भक्तलोकोत्तमः स्याः ॥ २७॥ आत्मावास्यमिदं प्रभुः सृजति वा त्राताऽपि हर्ताऽपि वा सृष्टं त्रातमिदं हृतं च स विभुर्नान्यत्ततो वस्तुतः । नानात्वेन विराजितं तु जलधौ कल्लोलवद्योगिनः पश्यन्तीदृशमुद्धव स्थिरमतिर्योगीशचर्यां कुरु ॥ २८॥ चरेयं दुश्चरा चेन्मम चरितकथाः कीर्तयन् नाम गायन् श‍ृण्वन् भक्त्या स्मरन् मां मुहुरपि बदरीं याहि मुक्तिं लभस्व । एवं श्रुत्वोद्धवस्तु स्वगुरूमुपनमन् प्रार्थ्य भक्तेर्विवृध्यै बिभ्रत्तत्पादुके द्वे शिरसि स बदरीं प्राप्य सिद्धिं प्रपेदे ॥ २९॥ नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ (भाग ११-२९-४०) तीर्थस्नानेन नष्टं त्वघमिति यदवो मद्यपानाभिमत्ताः शस्त्रौघैरेरकाभिर्भुवि कलितरणा विप्रशापान्निपेतुः । रामे स्वं धाम याते हरिरुरुकरुणो येन विद्धं पदं स्वं तस्यादाल्लुब्धकस्य त्रिदिवमथ निजं सारथिं चान्वगृह्णात् ॥ ३०॥ देवांस्तत्र समागतान् दिवि विरिञ्चादीन् कृपालुर्हरिः पश्यन्नेष निमीलिताक्षियुगलस्त्यक्त्वा शरीरं निजम् । दिव्यं धाम ययौ सुराश्च ववृषुः पुष्पाणि यत्सेवको नूनं पापविमुक्तिमेति पुरुषः सायुज्यमाप्नोति च ॥ ३१॥ न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते (श्वेताश्वतरोपनिषत् अध्यायं ६ मन्त्र ८) स्वाभाविकी ज्ञानबलक्रिया च ॥ ३२॥

अथ द्वादश स्कन्धः १२

श्रीकृष्णे तु गते भवेत् कलियुगारम्भः कलौ दुर्बला राजानो बहुवंशजाः स्युरवनौ नन्दस्तु शूद्रीसुतः । सर्वक्षत्रविनाशकृत्स च भवेच्छूद्रादयो भूभृतो लुण्ठन्तश्च परस्त्रियः परधनं हन्युः स्त्रियश्चार्भकान् ॥ १॥ हतरीश्च? जन्माचारगुणोदयः कलियुगे वित्ताश्रयो भूमिपा धर्मन्यायदयाक्षमादिरहिताश्चौर्यादिकं सर्वतः । एवं क्लिश्यति सर्वजीवनिवहे कल्किर्भवन् श्रीहरि- र्हन्ता दोषकरांस्ततः कृतयुगे धर्मं पुनः स्थापयेत् ॥ २॥ पृथ्वीं जेतुमिमे नृपाः पितृसुहृद्भ्रातॄन् वृथा ध्नन्ति ते सर्वे यान्ति च पञ्चतां परपदं प्राप्स्यन्नरो बुद्धिमान् । विष्णुं ध्यायति तं कृते च यजते त्रेतायुगे द्वापरे भक्त्या पूजयते कलौ च भजते नामादि सङ्कीर्तनैः ॥ ३॥ चत्वार्येव युगानि विद्धि सुमते तेषां सहस्रं विदुः कल्पं तद्दिनमेकमम्बुजभवस्यैतस्य चान्ते लयः । नित्यादिः स चतुर्विधो भगवतो लीला हि सृष्ट्यादिकं तल्लीलारसमज्जनेन मनुजः संसारमुक्तो भवेत् ॥ ४॥ भीतः किं तक्षकात्त्वं जहि मरणभयं त्वं न जातः कथं ते मृत्युर्जातस्तु देहः परिणमति विनश्येच्च न त्वं स देहः । आत्मा नित्योऽव्ययः सन् भवति सकलगश्चेतनो वासुदेवः स त्वं ब्रह्मैव स त्वं जनिमृतिरहितं सर्वथा तेऽस्तु भद्रम् ॥ ५॥ इत्युक्त्वा भूपतिं तं शुकमुनिरनुगृह्यागमद्योगिवृन्दै- र्ब्रह्म ध्यायन् नृपोऽगात्परपदमहिना तक्षकेणास्य देहः । दृष्टो भस्मीकृतोऽभूत्कुपितसुतकृते सर्पसत्रे त्वनन्ताः सर्पा दग्धा विवेकी सुरगुरुवचनेनैष सत्राद्व्यरंसीत् ॥ ६॥ वेदो धातृमुखादभूदिममृषिर्व्यासो विभज्य स्वयं शिष्येभ्यः प्रददौ पुराणनिवहान् वेदार्थसारानथ । चक्रे तान् लभते स्म मे गुरु रिमे ज्ञाता मयैषां द्विजाः सर्गादीनि च लक्षणानि सकलं ब्रह्माश्रयं वर्तते ॥ ७॥ मार्कण्डेयो मुनीन्द्रो हरिभजनरतः पुष्पभद्रातटे षण्- निन्ये मन्वन्तराणि त्रिदशयुवतिभिर्मोहिनीभिः स्मरास्त्रैः । नैव व्यामोहितोऽभूदथ नरसहितं तत्र नारायणं तं दृष्ट्वा स्तुत्वा च मायामनुभवितुमनाः प्राप योगी वरं सः ॥ ८॥ ध्यायन् ब्रह्माश्रमस्थः प्रलयजलनिधौ सम्भ्रमन् वर्षकोटीः पादाङ्गुष्ठं धयन्तं वटदलशयनं बालमेकं तु दृष्ट्वा । प्राप्तोऽन्तःश्वासवातैस्त्रिभुवनमाखिलं वीक्ष्य मुह्यन्लयाब्धौ क्षिप्तो भूयोऽपि पश्यन् किमपि न स मुनिः स्वाश्रमे विस्मितोऽभूत् ॥ ९॥ ज्ञात्वा दृष्टं तु माया भगवत इति स श्रीपतिं सेवमानो दृष्ट्वा शम्भुं च गौरीं निकटभुवि नमन् प्राह विष्णोः पदाब्जे । त्वत्पादे भक्तवर्येष्वपि मम रतिरस्त्वेवमाकर्ण्य पृष्टं ज्ञानाद्यं चाप्यपृष्टं बहु सदयमदाद्योगिने ज्ञानमूर्तिः ॥ १०॥ विष्णुर्विप्र चतुर्दशात्मकजगद्रूपः समाराध्यतां मार्गैर्वैदिकतान्त्रिकैः स हि जगत्सृष्ट्यादिलीलाकरः । सूर्यात्मा सगणो बिभर्ति विधिवद्धात्रादि नामानि यः कुर्वन् कालविभागमेष मुनिभिः संस्तूयते सर्वदा ॥ ११॥ वर्ण्यन्ते जन्म कर्माण्यपि श‍ृणुत हरेर्यत्र यन्मोक्षशास्त्रं श‍ृण्वन् गायन् पुमान् यद्भगवति रतिमाप्नोति निर्धूतपापः । यत्स्वादु स्वादु नूनं प्रतिपदमखिलैः सर्वतो यच्च गेयं तस्याचार्यं पुराणस्य तु मुनितिलकं व्याससूनुं नतोऽस्मि ॥ १२॥ ज्ञानं योऽदाद्विधात्रे परममृषिगणः स्तौति यं वेदमन्त्रैः द्रष्टारो योगिनो यं हृदि विविधपुराणेषु यस्य प्रभावः । व्यासेनोच्चैश्च गीतः परममरगणैः स्तूयते यः सदुक्तैः सर्वेशोऽस्मान् स पातु स्वयमुरुकरुणः श्रीहरिं तं नमामः ॥ १३॥ इति पलेलि नम्बूदिरिविरचितं ह्रस्वभागवतं समाप्तम् ॥ Hrasva Bhagavatam is composed by Paleli Namboodiri, the author of Devi Narayaneeyam. It contains 337 verses, one verse each for every chapter of Bhagavatam. Proofread by PSA Easwaran
% Text title            : hrasvabhAgavatam
% File name             : hrasvabhAgavatam.itx
% itxtitle              : hrasvabhAgavatam (paleli nambUdiri virachitam)
% engtitle              : hrasvabhAgavatam
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Texttype              : stotra
% Author                : Paleli Namboodiri, author of Devi Narayaneeyam
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Translation)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org