इन्दरद्युम्नेन कृतं जगन्नाथस्तोत्रम्
इन्द्रद्युम्न उवाच ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
प्रणतार्तिविनाशाय चतुर्वर्गैकहेतवे ॥ २॥
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥ ३॥
इत्युच्चरन्स्तुतिं भूपः सानन्दाश्रुविलोचनः ।
प्रदक्षिणं पुनः कुर्वन्ननाम च पुनः पुनः ॥ ४॥
ततोऽन्या देवता या वै तत्रागच्छन्मुदान्विताः ।
तुष्टुवुः प्रणता देवं कृताञ्जलिपुटा मुदा ॥ ५॥
देवा ऊचुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतो व्याप्य अत्यतिष्ठद्दशाङ्गुलम् ॥ ६॥
यः पुमान्परमं ब्रह्म परमात्मेति गीयते ।
भूतं भव्यं भविष्यं च सर्वं पुरुष एव तत् ॥ ७॥
एतावानस्य महिमा ज्यायानेष पुमान्प्रभुः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ८॥
छन्दांसि जज्ञिरे त्वत्तस्त्वत्तो यज्ञपुमानपि ।
त्वत्तोऽश्वाश्च व्यजायन्त गावो मेषादयस्तथा ॥ ९॥
ब्राह्मणा मुखतो जाता बाहुजाः क्षत्रियास्तव ।
विशस्तवोरुजा पद्भ्यां तथा शूद्राः समागताः ॥ २.२४.१०॥
मनसश्चन्द्रमा जातश्चक्षुषस्ते दिवाकरः ।
कर्णाभ्यां श्वसनः प्राणैर्जिह्वाया हव्यवाडपि ॥ ११॥
नाभितो गगनं द्यौश्च मूर्ध्नस्ते समवर्त्तत ।
पादाभ्यां ते धरा जाता दिशश्चाष्टौ श्रुतेर्गताः ॥ १२॥
सप्तासन्परिधयस्त्वत्त एकविंशत्समिच्च वै ।
चराचराः सर्वभावास्त्वत्त एव हि जज्ञिरे ॥ १३॥
त्वमेव जगतां नाथस्त्वमेव परिपालकः ।
उग्ररूपश्च संहर्ता त्वमेव परमेश्वर ॥ १४॥
त्वमेव यज्ञो यज्ञांशस्त्वं यज्ञेशः परात्परः ।
शब्दब्रह्मपरं त्वं हि शब्दब्रह्मासि विश्वराट् ॥ १५॥
स्वराट् संराड्जगन्नाथ विराडसि जगत्पते ।
अधश्चोर्ध्वं च तिर्यक्त्वं त्वया व्याप्तं जगन्मय ॥ १६॥
प्राप्नुवन्ति परं स्थानं त्वां यजन्तश्च याज्ञिकाः ।
भोज्यं भोक्ता हविर्होता हवनं त्वं फलप्रदः ॥ १७॥
समस्तकर्मभोक्ता त्वं सर्वकर्मात्मकः प्रभो ।
सर्वकर्मोपकरणं सर्वकर्मफलप्रदः ॥ १८॥
कर्मप्रेरयिता त्वं हि धर्मकामार्थसिद्धिदः ।
त्वामृते मुक्तिदः कोऽन्यो हृषीकेश नमोऽस्तु ते ॥ १९॥
नमोऽस्त्वनन्ताय सहस्रमूर्त्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ २.२४.२०॥
वयं च्युताधिकारास्त्वां प्रपन्नाः शरणं प्रभो ।
त्राहि नः पुण्डरीकाक्ष अगतीनां गतिर्भव ॥ २१॥
संसारपतितस्यैको जन्तोस्त्वं शरणं प्रभो ।
त्वत्सृष्टौ त्वादृशो नास्ति यो दीनपरिपालकः ॥ २२॥
दीनानाथैकशरणं पिता त्वं जगतः प्रभो ।
पाता पोष्टा त्वमेवेश सर्वापद्विनिवारकः ॥ २३॥
त्राहि विष्णो जगन्नाथ त्राहि नः परमेश्वर ।
त्वामृते कमलाकान्त कः शक्तः परिरक्षणे ॥ २४॥
अन्तर्यामिन्नमस्तेऽस्तु सर्वतेजोनिधे नमः ॥ २५॥
इति स्तुवन्तस्ते देवाः प्रणिपत्य पुनःपुनः ।
इन्द्रद्युम्नेन सहिता बहिर्भूय द्विजोत्तमाः ॥ २६॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
चतुर्विंशाध्यायान्तर्गतं इन्द्रद्युमानादिकृतं जगन्नाथस्तोत्रं
समाप्तम् ।
(देवैः कृतं जगन्नाथस्तोत्रम्)
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय २४/२-२६॥
skandapurANa . vaiShNavakhaNDa . puruShottamakhaNDa . adhyAya 24/2-26..
Proofread by PSA Easwaran