इन्द्रद्युम्नकृतं २ विष्णुस्तोत्रम्
इन्द्रद्युम्न उवाच ।
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ५३-१०॥
निर्मलांशुकसङ्काश नमस्ते पुरुषोत्तम ।
सङ्कर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ ५३-११॥
नमस्ते हेमगर्भाय नमस्ते मकरध्वज ।
रतिकान्त नमस्तुभ्यं त्राहि मां शम्बरान्तक ॥ ५३-१२॥
नमस्ते मेघसङ्काश नमस्ते भक्तवत्सल ।
अनिरुद्ध नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ५३-१३॥
नमस्ते विबुधावास नमस्ते विबुधप्रिय ।
नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ५३-१४॥
नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध ।
नमस्ते विबुधश्रष्ठ नमस्ते कमलोद्भव ॥ ५३-१५॥
चतुर्मुख जगद्धातस्त्राहि मां प्रपितामह ।
नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित ॥ ५३-१६॥
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ।
प्रलयानलसङ्काश नमस्ते दितिजान्तक ॥ ५३-१७॥
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ।
यथा रसातलाच्चोर्वी जले मग्नोद्धृता पुरा ॥ ५३-१८॥
तथा महावराह त्वं त्राहि मां दुःखसागरात् ।
तवाङ्गमूर्तयः कृष्ण वरदाः संस्तुता मया ॥ ५३-१९॥
त्वं चेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ।
अङ्गानि तव देवेश गरुडाद्यास्तथा प्रभो ॥ ५३-२०॥
दिक्पालाः सायुधाश्चैव वासवाद्यास्तथाच्युत ।
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ॥ ५३-२१॥
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ।
ये वार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ॥ ५३-२२॥
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ।
भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः ॥ ५३-२३॥
तव पूजार्थसम्बद्धास्ततस्त्वयि समाश्रिताः ।
न भेदस्तव देवेश विद्यते परमार्थतः ॥ ५३-२४॥
विविधं तव यद्रूपं युक्तं तदुपचारतः ।
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः ॥ ५३-२५॥
एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ।
परमं तव यद्रूपं भावाभावविवर्जितम् ॥ ५३-२६॥
निर्लेपं निर्मलं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।
सर्वोपाधिविनिर्मुक्तं सत्तामात्रं व्यवस्थितम् ॥ ५३-२७॥
तद्देवोऽपि न जानाति कथं जानाम्यहं प्रभो ।
अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् ॥ ५३-२८॥
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ।
श्रीवत्सवक्षसा युक्तं वनमालाविभूषितम् ॥ ५३-२९॥
तदर्चयन्ति विबुधा ये चान्ये त्वत्समाश्रयाः ।
देव सर्वसुरश्रेष्ठ भक्तानामभयप्रद ॥ ५३-३०॥
त्राहि मां चारुपद्माक्ष मग्नं विषयसागरे ।
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ॥ ५३-३१॥
त्वामृते कमलाकान्त प्रसीद मधुसूदन ।
जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ॥ ५३-३२॥
हर्षशोकान्वितो मृढः कर्मपाशैः सुयन्त्रितः ।
पतितोऽहं महारौद्रे घोरे संसारसागरे ॥ ५३-३३॥
विषयोदकदुष्पारे रागद्वेषसमाकुले ।
इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले ॥ ५३-३४॥
निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ।
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ॥ ५३-३५॥
नानाजातिसहस्रेषु जायमानः पुनः पुनः ।
मया जन्मान्यनेकानि सहस्राण्ययुतानि च ॥ ५३-३६॥
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ।
वेदाः साङ्गा मयाधीताः शास्त्राणि विवधानि च ॥ ५३-३७॥
इतिहासपुराणानि तथा शिल्पान्यनेकशः ।
असन्तोषाश्च सन्तोषाः सञ्चया बहवो व्ययाः ॥ ५३-३८॥
मया प्राप्ता जगन्नाथ क्षयवृद्ध्युदयेतराः ।
भार्यामित्रस्वबन्धूनां वियोगाः सङ्गमास्तथा ॥ ५३-३९॥
पितरो विविधा दृष्टा मातरश्च तथा मया ।
दुःखानि चानुभूतानि मया सौख्यान्यनेकशः ॥ ५३-४०॥
प्राप्ताश्च बान्धवा स्वसृभ्रातरो ज्ञातयस्तथा ।
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छिले ॥ ५३-४१॥
गर्भवासे महादुःखमनुभूतं तथा प्रभो ।
दुःखानि यान्यनेकानि बाल्ये यौवनगर्विते ॥ ५३-४२॥
वार्द्धक्ये च हृषीकेश तानि प्राप्तानि वै मया ।
मरणे यानि दुःखानि गुप्तमार्गे यमालये ॥ ५३-४३॥
मया तान्यनुभूतानि नरके यातनाकुले ।
क्रिमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ॥ ५३-४४॥
महिषाणां गवां चैव तथान्येषां वनौकसाम् ।
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ॥ ५३-४५॥
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ।
नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् ॥ ५३-४६॥
गृहे तेषां समुत्पन्नो देव चाहं पुनः पुनः ।
गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ॥ ५३-४७॥
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ।
हता मया हतश्चान्यैर्हतं मे घातिता मया ॥ ५३-४८॥
दत्तं मेऽन्यैरथान्येभ्यो मया दत्तमनेकशः ।
पितृमातृसुहृद्वर्गकलत्राणां कृतेन च ॥ ५३-४९॥
अहं हृष्टोऽसकृद्दैन्यैश्चाश्रुधौताननो गतः ।
देवतिर्यङ्मनुष्येषु चरेषु स्थावरेषु च ॥ ५३-५०॥
न विद्यते च तत्स्थानं यत्राहं न गतः प्रभो ।
कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ५३-५१॥
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ।
जलयन्त्रे तथा चक्रे कदाऽवटनिबन्धने ॥ ५३-५२॥
पातितोऽधस्तथोर्द्ध्वं च कदा मध्ये स्थितस्त्वहम् ।
तथा चाहं सुरश्रेष्ठ कर्मवल्लीं समाश्रितः ॥ ५३-५३॥
एवं संसारचक्रेऽस्मिन्भैरवे लोमहर्षणे ।
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् ॥ ५३-५४॥
न जाने किं करोम्येष हरे व्याकुलितेन्द्रियः ।
शोकतृष्णाभिभूतश्च कान्दिशीको विचेतनः ॥ ५३-५५॥
इदानीं त्वामहं देव विकलः शरणं गतः ।
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ॥ ५३-५६॥
कृपां कुरु जगन्नाथ भक्तोऽहं यदि मन्यसे ।
त्वामृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति ॥ ५३-५७॥
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ।
जीविते मरणे चैव योगक्षेमे तथा प्रभो ॥ ५३-५८॥
ये तु त्वां विधिवद्देव नार्चयन्ति नराधमाः ।
सुगतिस्तु कथं तेषां भवेत्संसारबन्धनात् ॥ ५३-५९॥
किं तेषां कुलशीलेन विद्यया जीवितेन च ।
येषां न जायते भक्तिर्जगद्धातरि केशवे ॥ ५३-६०॥
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ।
पतन्ति नरके घोरे जायमानाः पुनःपुनः ॥ ५३-६१॥
न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवात् ।
ये दूषयन्ति दुर्वृत्तास्ते देव पुरुषाधमाः ॥ ५३-६२॥
यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ।
तत्र तत्र हरे भक्तिस्त्वयि स्तादक्षता सदा ॥ ५३-६३॥
आराध्य त्वां परं दैत्या नराश्चान्येऽपि सङ्गताः ।
अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् ॥ ५३-६४॥
न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां प्रकृतेः परम् ।
यथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥ ५३-६५॥
तत्क्षमस्वापराधान्मे यदि तेऽस्ति दया मयि ।
कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ५३-६६॥
तस्मात्प्रसीद देवेश भक्त्या स्नेहं समाश्रितः ।
स्तुतोऽसि यन्मया देव भक्तिभावेन चेतसा ॥ ५३-६७॥
साङ्गं भवतु तत्सर्वं वासुदेव नमोऽस्तु ते ॥ ५३-६८॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये
इन्द्रद्युम्नकृतं विष्णुस्तोत्रं)त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥
बृहन्नारदीयपुराण । उत्तरभाग । अध्याय ५३/१०-६८॥
bRihannAradIyapurANa . uttarabhAga . adhyAya 53/10-68..
Proofread by PSA Easwaran