इन्द्रद्युम्नकृतं कारुण्यस्तववर्णनम्
इन्द्रद्युम्न उवाच ।
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ १॥
निर्मलाम्बरसङ्काश नमस्ते पुरुषोत्तम ।
सङ्कर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ २॥
नमस्ते हेमगर्भाभ नमस्ते मकरध्वज ।
रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक ॥ ३॥
नमस्तेऽञ्जनसङ्काश नमस्ते विबुधप्रिय ।
नारायण नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ४॥
नमस्ते विबुधावास नमस्ते विबुधप्रिय ।
नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ५॥
नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध ।
चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ६॥
नमस्ते नीलमेघाभ नमस्ते त्रिदशार्जित ।
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ७॥
प्रलयानलसङ्काश नमस्ते दितिजान्तक ।
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ८॥
यथा रसातलादुर्वीं त्वया दंष्ट्रोद्धृता पुरा ।
तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ९॥
तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया ।
तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ १०॥
अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो ।
दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाऽच्युत ॥ ११॥
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ।
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ १२॥
मयाऽर्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ।
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ १३॥
भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः ।
तव पूर्जार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ १४॥
न भेदस्तव देवेश विद्यते परमार्थतः ।
विविधं तव यद्रूपमुक्तं तदुपचारतः ॥ १५॥
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः ।
एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ १६॥
परमं तव यद्रुपं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ १७॥
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् ।
तद्देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ १८॥
अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक्रगदापाणिमुकुटाङ्गदधारिणम् ॥ १९॥
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ।
तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ २०॥
देवदेव सुरश्रेष्ठ भक्तानामभयप्रद ।
त्राहि मां पद्मपत्राक्ष मग्नं विषयसागरे ॥ २१॥
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ।
त्वामृते कमलाकान्त प्रसीद मधुसूदन ॥ २२॥
जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ।
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ २३॥
पतितोऽहं महारौद्रे घोरे संसारसागरे ।
विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ २४॥
इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले ।
निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ॥ २५॥
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ।
नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ २६॥
मया जन्मान्यनेकानि सहस्राण्ययुतानि च ।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ॥ २७॥
वेदाः साङ्गा मयाऽधीताः शास्राण्ययुतानि च ।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ॥ २८॥
असन्तोषाश्च सन्तोषाः सञ्चयापचया व्ययाः ।
मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ २९॥
भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास्तता ।
पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ३०॥
दुःखानि चानुबूतानि यानि सौख्यान्यनेकशः ।
प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञतयस्तथा ॥ ३१॥
मयोषितं तथा स्त्रीणां कोष्ठे विण्मुत्रपिच्छले ।
गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ ३२॥
दुःखानि यान्यनेकानि बाल्ययौवनगोचरे ।
वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ३३॥
मरणे यानि दुःखानि यममार्गे यमालये ।
मया तान्यनुभूतानि नरके यातनास्तथा ॥ ३४॥
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ।
महिषोष्ट्रगवां चैव तथाऽन्येषां वनौकसाम् ॥ ३५॥
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ।
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ३६॥
नृपाणां नृपभृत्यानां तथाऽन्येषां च देहिनाम् ।
गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ ३७॥
गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ।
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ३८॥
हतो मया हताश्चान्ये घातितो घातितास्तथा ।
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ ३९॥
पितृमातृसुहृद्भ्रातृकलत्राणां कृतेन च ।
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४०॥
उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन ।
देवतिर्ङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४१॥
न विद्यते तथा स्थानं यत्राहं न गतः प्रभो ।
कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४२॥
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ।
जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४३॥
याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति ।
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४४॥
अधश्चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः ।
एवं संसारचक्रेऽस्मिन् भैरवे रोमहर्षणे ॥ ४५॥
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् ।
न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ ४६॥
शोकतृष्णाभिभूतोऽहं कान्दिशीको विचेतनः ।
इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ ४७॥
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ।
कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ ४८॥
त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति ।
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ॥ ४९॥
जीविते मरणे चैव योगक्षेमेऽथ वा प्रभो ।
ये तु त्वां विधिवद्देव नार्चयन्ति नराधमाः ॥ ५०॥
सुगतिस्तु कथं तेषां भवेत्संसारबन्धनात् ।
किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ ५१॥
येषां न जायते भक्तिर्जगद्धातरि केशवे ।
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ ५२॥
पतन्ति नरके घोरे जायमानाः पुनः पुनः ।
न तेषां निष्कृकिस्तस्माद्विद्यते नरकार्णवात् ॥ ५३॥
ये दूषयन्ति दुर्वृत्तास्त्वां देव पुरूषाधमाः ।
यत्र यत्र भवेज्जन्म मम क्रमनिबन्धनात् ॥ ५४॥
तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा ।
आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः ॥ ५५॥
अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् ।
न शक्नुवन्ति ब्रह्माद्याः स्तेतुं त्वां त्रिदशा हरे ॥ ५६॥
कथं मानुषबुद्ध्याऽहं स्तौमि त्वां प्रकृतेः परम् ।
तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥ ५७॥
तत्क्षमस्वापराधं मे यदि तेऽस्ति दया मयि ।
कृपापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ५८॥
तस्मात्प्रसीद देवेश भक्तस्नेहं समाश्रितः ।
स्तुतोऽसि यन्मया देव भक्तिभावेन चेतसा ।
साङ्गं भवतु ततसर्वं वासुदेव नमोऽस्तु ते ॥ ५९॥
(फलश्रुतिः)
ब्रह्मोवाच ।
इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः ।
ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ ६०॥
यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ।
स्तोत्रेणानेन मतिमान्स मोक्षं लभते ध्रुवम् ॥ ६१॥
त्रिसन्ध्यं यो जपेद्विद्वानिदं स्तोत्रवरं शुचिः ।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ६२॥
यः पठेच्छृणुयाद्वाऽपि श्रावयेद्वा समाहितः ।
स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥ ६३॥
धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ ६४॥
न नास्तिकाय मूर्खाय न कृतध्नाय मानिने ।
न दुष्टमतये दद्यान्नाभक्ताय कदाचन ॥ ६५॥
दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ।
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ ६६॥
इदं समस्ताघविनाशहेतुः कारुण्यसंज्ञं सुखमोक्षदं च ।
अशेषवाञ्छाफलदं वरिष्ठं स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ६७॥
ये तं सुसूक्ष्मं विमला मुरारिं ध्यायन्ति नित्यं पुरषं पुराणम् ।
ते मुक्तिभाजः प्रविशन्ति विष्णुं मन्त्रैर्यथाऽऽज्यं हुतमध्वराग्नौ ॥ ६८॥
एकः स देवो भवदुःखहन्ता परः परेषां न ततोऽस्ति चान्यत् ।
द्र(स्र)ष्टा स पाता स तु नाशकर्ता विष्णुः समस्ताखिलसारभूतः ॥ ६९॥
किं विद्यया किं स्वगुणैश्च तेषां यज्ञैश्च दानैश्च तपोभिरुग्रैः ।
येषां न भक्तिर्भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च ॥ ७०॥
लोके स धन्यः स शुचिः स विद्वान् मखैस्तपोभिः स गुणैर्वरिष्ठः ।
ज्ञाता स दाता स तु सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ७१॥
इति ब्रह्मपुराणे एकोनपञ्चाशत्तमाऽध्यायान्तर्गतं
इन्दरद्युम्नकृतं कारुण्यस्तववर्णनं समाप्तम् ।
ब्रह्मपुराण । अध्याय ४९/१-७१॥
brahmapurANa . adhyAya 49/1-71..
Proofread by PSA Easwaran