जितं ते स्तोत्रम्
॥ श्रीः ॥
श्रीमते रामानुजाय नमः ।
श्रीपाञ्चरात्रे श्री जितन्तेस्तोत्रम् ।
प्रथमं जितन्तेस्तोत्रम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १॥
देवानां दानवानां च सामान्यमधिदैवतम् ।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ २॥
एकस्त्वमसि लोकस्य स्रष्टासंहारकस्तथा ।
अध्यक्षश्चानुमन्ता च गुणमाया समावृतः ॥ ३॥
संसार सागरं घोरमनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ ४॥
न ते रूपं न चाकारो नायुधानि न चास्पदम् ।
तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥ ५॥
नैव किञ्चित्परोक्षन्ते प्रत्यक्षोऽसि न कस्यचित् ।
नैव किञ्चिदसिद्धन्ते न च सिद्धोऽसि कस्यचित् ॥ ६॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ ७॥
अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे ।
पाहि मां पुण्डरीकाक्ष न जाने शरणं परम् ॥ ८॥
कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।
शरीरे च गतौ चापि वर्तते मे महद्-भयम् ॥ ९॥
त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि ।
निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥ १०॥
विज्ञानं यदिदं प्राप्तं यदिदं स्थानमार्जितम् ।
जन्मान्तरेऽपि मे देव माभूत्तस्य परिक्षयः ॥ ११॥
दुर्गतावपि जातायां त्वद्गतो मे मनोरथः ।
यदि नाशं न विन्देत तावतास्मि कृती सदा ॥ १२॥
न कामकलुषं चित्तं मम ते पादयोस्स्थितम् ।
कामये वैष्णवत्वं तु सर्वजन्मसु केवलम् ॥ १३॥
इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने ।
किङ्करोऽस्मीति चात्मानं देवायैवं निवेदयेत् ॥ १४॥
सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः ॥ १५॥
यच् चापराधं कृतवानज्ञानात्पुरुषोत्तम ।
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ १६॥
अहङ्कारार्थकामेषु प्रीतिरद्यैव नश्यतु ।
त्वां प्रपन्नस्य मे देव वर्धतां श्रीमति त्वयि ॥ १७॥
क्वाहमत्यन्तदुर्बुद्धिः क्व चात्महितवीक्षणम् ।
यद्धितं मम देवेश तदाज्ञापय माधव ॥ १८॥
सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्र मनोवृत्तिः प्रसीद मे ॥ १९॥
उपचारापदेशेन कृतान् अहरहर्मया ।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥ २०॥
द्वितीयं जितन्तेस्तोत्रम्
जितन्ते पुण्डरीकाक्ष पूर्णषाड्गुण्यविग्रह ।
परानन्द परब्रह्मन्नमस्ते परमात्मने ॥ १॥
नमस्ते पीतवसन नमः कटकधारिणे ।
नमो नीलालकाबद्धवेणीसुन्दरविग्रह ॥ २॥
स्फुरद्वलयकेयूरनूपुराङ्गदभूषणैः ।
शोभनैर्भूषिताकार कल्याणगुणराशये ॥ ३॥
करुणापूर्णहृदय शङ्खचक्रगदाधर ।
अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ॥ ४॥
कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् ।
अपराधसहस्राणामाकरं करुणाकर ॥ ५॥
कृपया मां केवलया गृहाण मधुराधिप ।
विषयार्णवमग्नं मामुद्धर्तुं त्वमिहार्हसि ॥ ६॥
पिता माता सुहृद्बन्धुः भ्राता पुत्रस्त्वमेव हि ।
विद्या धनं च काम्यं च नान्यत्किञ्चित्त्वया विना ॥ ७॥
यत्र कुत्र कुले वासो येषु केषु भवोऽस्तु मे ।
तव दास्यैकभोगे स्यात्सदा सर्वत्र मे रतिः ॥ ८॥
मनसा कर्मणा वाचा शिरसा वा कथञ्चन ।
त्वां विना नान्यमुद्दिश्य करिष्ये किञ्चिदप्यहम् ॥ ९॥
पाहि पाहि जगन्नाथ कृपया भक्तवत्सल ।
अनाथोऽहमधन्योऽहमकृतार्थः कथञ्चन ॥ १०॥
नृशंसः पापकृत्क्रूरो वञ्चको निष्ठुरस्सदा ।
भवार्णवनिमग्नं मामनन्य करुणोदधे ॥ ११॥
करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय ।
त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥ १२॥
मया कृतानि पापानि त्रिविधानि पुनः पुनः ।
त्वत्पादपङ्कजं प्राप्तुं नान्यत्त्वत्करुणां विना ॥ १३॥
साधनानि प्रसिद्धानि यागादीन्यब्जलोचन ।
त्वदाज्ञया प्रयुक्तानि त्वामुद्दिश्य कृतानि वै ॥ १४॥
भक्त्यैकलभ्यः पुरुषोत्तमोऽसौ
जगत्प्रसूतिस्थितिनाशहेतुः ।
अकिञ्चनोऽनन्यगतिश्शरण्य
गृहाण मां क्लेशिनमम्बुजाक्ष ॥ १५॥
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
त्वत्पादपङ्कजास्वादजीवितं दीयतां मम ॥ १६॥
कामये तावकत्वेन परिचर्यानुवर्तनम् ।
नित्यं किङ्करभावेन परिगृह्णीष्व मां विभो ॥ १७॥
लोकं वैकुण्ठनामानं दिव्यं षाड्गुण्यसंयुतम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ १८॥
नित्यसिद्धैस्समाकीर्णं त्वन्मयैः पाञ्चकालिकैः ।
सभाप्रासादसंयुक्तं वनैश्चोपवनैर्युतम् ॥ १९॥
वापीकूपतटाकैश्च वृक्षषण्डैस्सुमण्डितम् ।
अप्राकृतं सुरैर्वन्द्यं अयुतार्कसमप्रभम् ॥ २०॥
प्रकृष्टसत्त्वसम्पन्नं कदा द्रक्ष्यामि चक्षुषा ।
क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवम् ॥ २१॥
मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ।
उन्नसं चारुवदनं बिम्बोष्ठं शोभिताननम् ॥ २२॥
विशालवक्षसं श्रीशं कम्बुग्रीवं जगद्गुरुम् ।
आजानुबाहुपरिघमुन्नतांसं मधुद्विषम् ॥ २३॥
विशालनिम्ननाभिं तमापीनजघनं हरिम् ।
करभोरुं श्रियः कान्तं कदा द्रक्ष्यामि चक्षुषा ॥ २४॥
शङ्खचक्रगदापद्मैरङ्कितं पादपङ्कजम् ।
शरच्चन्द्रशताक्रान्तनखराजिविराजितम् ॥ २५॥
सुरासुरैर्वन्द्यमानं ऋषिभिर्वन्दितं सदा ।
कदा वा देव मूर्धानं मामकं मण्डयिष्यति ॥ २६॥
कदा गम्भीरया वाचा श्रिया युक्तो जगत्पतिः ।
चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यति ॥ २७॥
कदाऽहं राजराजेन गणनाथेन चोदितः ।
चरेयं भगवत्पादपरिचर्यानुवृत्तिषु ॥ २८॥
शान्ताय च विशुद्धाय तेजसे परमात्मने ।
नमो भगवते विष्णो वासुदेवामितद्युते ॥ २९॥
नमस्सर्वगुणातीत षड्गुणायादिवेधसे ।
सत्यज्ञानानन्तगुण ब्रह्मणे परमात्मने ॥ ३०॥
चतुःपञ्चनवव्यूह दशद्वादशमूर्तये ।
नमस्ते वासुदेवाय ब्रह्मणे चतुरात्मने ॥ ३१॥
नमोऽनन्ताय विश्वाय विश्वातीताय चक्रिणे ।
नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ॥ ३२॥
पञ्चकालैकमनसां त्वमेव गतिरव्ययः ।
परे व्योम्नि स्थितं देवं निरवद्यं निरञ्जनम् ॥ ३३॥
अप्रमेयमजं विष्णुमब्जनाभं सुरेश्वरम् ।
वागतीतं परं शान्तं शरणं त्वां गतोऽस्म्यहम् ॥ ३४॥
वर्यं द्वन्द्वातिरिक्तं त्वां कौस्तुभोद्भासिवक्षसम् ।
विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ॥ ३५॥
मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ।
इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत ॥ ३६॥
सकलावरणातीत किङ्करोऽस्मि तवानघ ।
पुनः पुनः किङ्करोऽस्मि तवाहं पुरुषोत्तम ॥ ३७॥
आसनाद्यनुयागान्तमर्चनं यन्मया कृतम् ।
भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् ॥ ३८॥
तत्सर्वं क्षम्यतां देव दीनं मामात्मसात्कुरु ।
इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् ॥ ३९॥
यागावसानसमये देवदेवस्य चक्रिणः ।
नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत् ॥ ४०॥
तृतीयं जितन्तेस्तोत्रम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १॥
विज्ञापनमिदं देव शृणु त्वं पुरुषोत्तम ।
नरनारायणाभ्यां च श्वेतद्वीपनिवासिभिः ॥ २॥
नारदाद्यैर्मुनिगणैः सनकाद्यैश्च योगिभिः ।
ब्रह्मेशाद्यैस्सुरगणैः पञ्चकालपरायणैः ॥ ३॥
पूज्यसे पुण्डरीकाक्ष दिव्यमन्त्रैर्महर्षिभिः ।
पाषण्डधर्मसङ्कीर्णे भगवद्भक्तिवर्जिते ॥ ४॥
कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते ।
कथं त्वामसमाचारः पापप्रसवभूरहम् ॥ ५॥
अर्चयामि दयासिन्धो पाहि मां शरणागतम् ।
तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥ ६॥
त्राहि मां पुण्डरीकाक्ष केवलं कृपया तव ।
जन्ममृत्युजराव्याधिदुःखसन्तप्तदेहिनम् ॥ ७॥
पालयाशु दृशा देव तव कारुण्यगर्भया ।
इन्द्रियाणि मया जेतुमशक्यं पुरुषोत्तम ॥ ८॥
शरीरं मम देवेश व्याधिभिः परिपीडितम् ।
मनो मे पुण्डरीकाक्ष विषयान् एव धावति ॥ ९॥
वाणी मम हृषीकेश मिथ्यापारुष्यदूषिता ।
एवं साधनहीनोऽहं किं करिष्यामि केशव ॥ १०॥
रक्ष मां कृपया कृष्ण भवाब्धौ पतितं सदा ।
अपराधशतं चैव सहस्रमयुतं तथा ।
अर्बुदं चाप्यसङ्ख्येयं करुणाब्धे क्षमस्व मे ॥ ११॥
यच् चापराधं कृतवान् अज्ञानात्पुरुषोत्तम ।
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ १२॥
अज्ञत्वादप्यशक्तत्वादालस्याद्दुष्टभावनात् ।
कृतापराधं कृपणं क्षन्तुमर्हसि मां विभो ॥ १३॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
तानि सर्वाणि मे देव क्षमस्व मधुसूदन ॥ १४॥
यज्जन्मनः प्रभृति मोहवशङ्गतेन
नानापराधशतमाचरितं मया ते ।
अन्तर्बहिश्च सकलं तव पश्यतो मे
क्षन्तुं त्वमर्हसि हरे करुणावशेन ॥ १५॥
कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मान्तरेष्वपि ॥ १६॥
चतुर्थं जितन्तेस्तोत्रम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्ते वासुदेवाय शान्तानन्तचिदात्मने ॥ १॥
अध्यक्षाय स्वतन्त्राय निरपेक्षाय शासते ।
अच्युतायाविकाराय तेजसां निधये नमः ॥ २॥
प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम ।
क्लेशकर्माद्यसंस्पृष्ट पूर्णषाड्गुण्यमूर्तये ॥ ३॥
त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने ।
त्रियुगाय नमस्तेऽस्तु नमस्ते चतुरात्मने ॥ ४॥
चतुःपञ्चनवव्यूह दशद्वादशमूर्तये ।
अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये ॥ ५॥
नारायण नमस्तेऽस्तु पुण्डरीकायतेक्षण ।
सुभ्रूललाट सुनस सुस्मिताधरपल्लव ॥ ६॥
पीनवृत्तायतभुज श्रीवत्सकृतलक्षण ।
तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते ॥ ७॥
विलासविक्रमाक्रान्तत्रैलोक्यचरणाम्बुज ।
नमस्ते पीतवसन स्फुरन्मकरकुण्डल ॥ ८॥
स्फुरत्किरीटकेयूर हारकौस्तुभभूषण ।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ॥ ९॥
पञ्चकालपरैकान्तियोगक्षेममहाप्रभो ।
नित्यज्ञानबलैश्वर्यभोगोपकरणाच्युत ॥ १०॥
नमस्ते ब्रह्मरुद्रादिलोकयात्रापरिच्छद ।
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ॥ ११॥
त्वं च स्वामी गुरुर्माता पिता च मम माधव ।
अपि त्वां भगवन् ब्रह्मा शर्वश्शक्रो महर्षयः ।
द्रष्टुं यष्टुमपि स्तोतुं न हि स्मर्तुमपीशते ॥ १२॥
तापत्रयमहाग्राहभीषणे भवसागरे ।
मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता ॥ १३॥
अनाथाय जगन्नाथ शरण्य शरणार्थिने ।
प्रसीद सीदते मह्यं नमस्ते भक्तवत्सल ॥ १४॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम् ।
तत्क्षन्तव्यं प्रपन्नानामपराधसहो ह्यसि ॥ १५॥
अज्ञानाद्यदि वा ज्ञानादशुभं यत्कृतं मया ।
क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम् ॥ १६॥
सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः ॥ १७॥
पञ्चमं जितन्तेस्तोत्रम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १॥
नमस्ते वासुदेवाय शान्तानन्तचिदात्मने ।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधये नमः ॥ २॥
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥ ३॥
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥ ४॥
अनेकमूर्तये तुभ्यमक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥ ५॥
चिन्मात्ररूपिणे तुभ्यं नमस्त्रय्यन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥ ६॥
नेदिष्ठाय यविष्ठाय सर्वान्तर्यामिणे नमः ।
वर्षिष्ठाय जपिष्ठाय कनिष्ठाय च ते नमः ॥ ७॥
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणे नमः ।
कल्पनाऽपोढरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ८॥
नमस्ते गुणरूपाय गुणरूपातिवर्तिने ।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥ ९॥
आदिमध्यान्तशून्याय तत्त्वस्थाय नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥ १०॥
लोकयात्राप्रसिद्ध्यर्थं सृष्टब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे ॥ ११॥
विपाकैः कर्मभिः क्षोभैरस्पृष्टवपुषे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥ १२॥
नित्यसाधारणानेकलोकरक्षापरिच्छिदे ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ॥ १३॥
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नम इज्यादिशीलिने ॥ १४॥
नमः परमहंसाय नमस्सत्त्वगुणाय च ।
स्थिताय परमव्योम्नि भूयो भूयो नमो नमः ॥ १५॥
संसारे विषयावर्तसङ्कुले च महाभये ।
अपारदुस्तरेऽगाधे पतितं कर्मभिस्स्वकैः ॥ १६॥
अनाथमगतिं भीरुं दयया परया हरे ।
मामुत्तर दयासिन्धो सिन्धुरस्मात्सुदुस्तरात् ॥ १७॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनं
तत्सर्वं क्षम्यतां देव दीनं मामात्मसात्कुरु ॥ १८॥
अहं हितं न जानामि त्वां व्रजाम्येव केवलम् ।
बुध्वैवं नय गोविन्द मुक्त्युपायेन वर्त्मना ॥ १९॥
त्वमेव वेत्सि श्रेयो मे नेदमेतदितीति च ।
बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् ॥ २०॥
षष्ठमं जितन्तेस्तोत्रम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १॥
श्रीमद्द्वारवतीनाथ वर्धतां विजयी भवान् ।
दिव्यं त्वदीयमैश्वर्यं निर्मर्यादविजृम्भितम् ॥ २॥
देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः ।
सत्त्वोत्तरैस्त्वदीयैश्च सङ्गस्थाभिरसस्तव ॥ ३॥
प्राकारगोपुरवरप्रासादमणिमण्डपाः ।
शालिमुद्गतिलादीनां शालाशैलकुलोज्ज्वला ॥ ४॥
रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः ।
शय्यागृहाणि पर्यङ्कवर्यास्स्थूलासनानि च ॥ ५॥
कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः ।
छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ६॥
अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव ।
पक्षे पक्षे विजृम्भन्तां मासि मासि महोत्सवाः ॥ ७॥
मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च ।
काश्मीरसारकस्तूरि कर्पूराद्यनुलेपनम् ॥ ८॥
कोमलानि च दामानि कौसुमैस्सौरभोद्गमैः ।
धूपाः कर्पूरदीपाश्च सन्तु नित्याः परिच्छदाः ॥ ९॥
नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् ।
श्रोत्रेषु नस्सुधाधाराः कल्पन्तां काहलस्वनाः ॥ १०॥
कन्दमूलफलोदग्रं काले काले चतुर्विधम् ।
सूपापूपघृतक्षीरशर्करासहितं हविः ॥ ११॥
घनसारशिरोदग्रं क्रमुकाष्टदलान्वितम् ।
विमलानि च ताम्बूलदलानि स्वीकुरु प्रभो ॥ १२॥
प्रीतिभीतियुतो भूयान्नित्यं परिजनस्तव ।
भक्तिमन्तोपभुञ्जन्तु पौरजानपदैस्सह ॥ १३॥
धरणीधनरत्नानि वितरन्तु चिरं तव ।
कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ १४॥
प्रेमदिग्धदृशं स्मेरं प्रेक्षमाणास्त्वदाननम् ।
महान्तस्सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम् ।
पापमेवमवन्नित्यं पालयन् कुशली भवान् ॥ १५॥
इति श्री जितन्तेस्तोत्रं सम्पूर्णम् ।