श्रीकृष्ण लीला विंशतिकास्तोत्रम्
अरूप भूतोपि सुरूप धारिणे
भूभार संसार सुचारू कारिणे ।
भक्तान् सदानन्द रस प्रदायिने
नमोऽस्तु कृष्णाय सुवालरूपिणे ॥ १॥
भूम्यां यदाभारविवर्धते महान्
भूदेवि दुःखेन प्रपीडिताऽसीत् ।
रूरोद धातुः निकटेव गत्त्वा
मां पाहि देवेश जगन्निवास ॥ २॥
तां रूदतीं दीनमतीत दुखितां
दृष्ट्वा च वेधा गतवान् पयोनिधिम् ।
तत्रातिदिव्यं पुरुषस्य सूक्तं
जपन् परम्ब्रह्म हरिं समीडितः ॥ ३॥
तदासुसूक्ष्मं गगनेरितं वचो
श्रुत्वाऽथवेधातमवर्णयच्च ।
श्रुतम्मया ब्रह्ममयीं सुवाणीं
दुःखस्य नाशं भवतेव शीघ्रम् ॥ ४॥
ईशेन पूर्वं कृतवान्नुपायं
कृष्णावतारोहि ब्रजे भविष्यति ।
गृह्णान्तु जन्मान् ब्रजवासीनां गृहे
तत्रैव कृष्णस्य सुदर्शनं भवेत् ॥ ५॥
अजस्य वाक्यं श्रवणेन देवा
अति प्रसन्ना अगमन् व्रजं ते ।
देवाहि सर्वे व्रजवासीनोजनाः
जानिहि राजन् इति निश्चयम्मे ॥ ६॥
तदैव सर्वे व्रजवासीनां गृहे
देवादि गोपाल सुवालकाऽभवन् ।
तेषां तु देवी व्रजगोपिका भवन्
ता तत्र कृष्णस्य-अनन्य दासिकाः ॥ ७॥
स्वभक्तवृन्दाय प्रमोदनार्थं
साक्षात् परब्रह्म सुजात गोकुले ।
तदावभूवातिसुमङ्गलामही
साक्षात् हि वैकुण्ठ समाधरित्री ॥ ८॥
सानन्द सर्वं व्रजमण्डलेऽभूत्
कंसस्य सन्ताप सदाहि भूतले ।
जन्मर्क्षे योगे वसुदेव देवकी
समाश्रयित्वा भगवान् सुजायतः ॥ ९॥
सायोगमायाऽपि सदापरायणाः
कृष्णाय नेतुं कृतवान्नुपायम् ।
नीत्वाथतां गोकुलनन्दपत्न्यां
निधाय कृष्णं हि सुयोग माया ।
नीतं गता कंसपुरे रुरोद ॥ १०॥
दूतेन सन्देश श्रुतेतु कंसः
भयात् अधावच्च विमुक्त केशः ।
स्खन् पतन् वा गतवान् स्व स्वन्तिके
तां वालिकां योगमयीं सुमायाम् ॥ १०॥
हस्तौ गृहीत्वा कृतवान् प्रताडनं
सा तस्य हस्तात् समगाद्दिवाम्बरे ।
जगाद कंसाय शृणुस्व दुर्मतेः
पुरैव जातः तव मृत्यु बालकः ॥ ११॥
हिंसात्यजमाकुरु पाप दुष्टः
सादिव्यदेहाष्टभुजाभवानी ।
गतासु विन्ध्याचलवासिनीऽभूत् ॥ १२॥
श्रीकृष्ण जन्मोत्सवनन्दगोकुले
बभूव सर्वत्र समस्त मण्डले ।
तत्रैव गोपीजनगोपशङ्कुले
हर्षातिरेकेण सुगाम चक्रिरे ॥ १३॥
श्रीदेवकी पालित गर्भमध्ये
यशोदया लालित वाल्येक्रोडे ।
श्रीराधिकाऽऽलिङ्गित यौवनेऽपि
गोपाङ्गनानां रमयञ्चकार ॥ १४॥
श्रीकृष्ण चन्द्रेण सुपालिते व्रजे
गावश्च गोपाश्च सदा प्रसन्नाः ।
सुखं सदा स्वानुभवं विकुर्वन्
कृष्णं सदावाञ्छितदं प्रपन्नाः ॥ १५॥
कारागृहे जन्म व्रजे च वासः
गोचारणं याति करोति रासः ।
कंसाय लोके महतः सुत्रासः
तथाऽपि कृष्णकुरुते सुहासः ॥ १६॥
दैत्यान् सदा हि प्रकरोति नाशः
भक्ताय सानन्द करोति वासः ।
कालं विनाशाय प्रचण्ड हासः
वाञ्छामि मान्देहि स्वभक्तिदास्यः ॥ १७॥
माधुर्य राशीरसदः सदाऽसि
गोपीश विश्वेश व्रजेश कृष्णः ।
जपामि नित्यं प्रणमामि नित्यं
मामुद्धराऽऽशु सततं नमामि ॥ १८॥
हे कृष्ण मामुद्धरदीनबन्धो!
भवाग्नितापेन सुदारूणेन ।
तप्तोऽस्मि नित्यं शरणं विदेहि
नमामि नित्यं भवभुक्ति हेतुम् ॥ १९॥
वंशी वादन शीलाय कृष्णामपरमात्मने ।
वृषभानु सुतास्कन्धे न्यस्त हस्तायते नमः ॥ २०॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं लीलाविंशतिकास्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao