श्रीकृष्णनामकरणप्रस्तवः

श्रीकृष्णनामकरणप्रस्तवः

गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः ॥ ४८॥ नारायणो यो वैकुण्ठे कमलाकान्त एव च । श्वेतद्वीपनिवासी यः पिता विष्णुश्च सोऽप्यजः ॥ ४९॥ कपिलोऽन्ये तदंशाश्च नरनारायणावृषी । सर्वेषां तेजसां राशिर्मूर्तिमानागतः किमु ॥ ५०॥ तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह । साम्प्रतं सूतिकागारादाजगाम तवालयम् ॥ ५१॥ अयोनिसम्भवश्चायमाविर्भूतो महीतले । वायुपूर्णं मातृगर्भे कृत्वा च मायया हरिः ॥ ५२॥ आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह । युगे युगे वर्णभेदो नामभेदोऽस्य बल्लव ॥ ९३॥ शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः । शुक्लवर्णः सत्ययुगे सुतीव्रतेजसा वृतः ॥ ५४॥ त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः । कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ॥ ५५॥ परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः । ब्रह्मणो वाचकः कोऽयमृकारोऽनन्तवाचकः ॥ ५६॥ शिवस्य वाचकः षश्च नकारो धर्मवाचकः । अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ॥ ५७॥ नरनारायणार्थस्य विसर्गो वाचकः स्मृतः । सर्वेषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ॥ ५८॥ सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः । कर्मनिर्मूलवचनः कृषिर्नो दास्यवाचकः ॥ ५९॥ अकारो दातृवचनस्तेन कृष्ण इति स्मृतः । कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ॥ ६०॥ अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः । कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ॥ ६१॥ अकारो दातृवचनस्तेन कृष्ण इति स्मृतः । नाम्नां भगवतो नन्द कोटीनां स्मरणेन यत् ॥ ६२॥ तत्फलं लभते नूनं कृष्णेति स्मरणे नरः । यद्विधं स्मरणात्पुण्यं वचनाच्छ्रवणात्तथा ॥ ६३॥ कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात् । विष्णोर्नाम्नां च सर्वेषां सारात्सारं परात्परम् ॥ ६४॥ कृष्णेति सुन्दरं नाम मङ्गलं भक्तिदायकम् । ककारोच्चारणाद्भक्तः कैवल्यं मृत्युजन्महम् ॥ ६९॥ ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम् । नकारात्सहवासं च तत्समं कालमेव च ॥ ६६॥ तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः । ककारोच्चारणादेव वेपन्ते यमकिङ्कराः ॥ ६७॥ ऋकारोक्तेर्न तिष्ठन्ति षकारात्पातकानि च । नकारोच्चारणाद्रोगा अकारान्मृत्युरेव च ॥ ६८॥ ध्रुवं सर्वे पलायन्ते नामोच्चारणभीरवः । स्मृत्युक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ॥ ६९॥ रथं गृहीत्वा धावन्ति गोलोकात्कृष्णकिङ्कराः । पृथिव्या रजसः सङ्ख्यां कर्तुं शक्ता विपश्चितः ॥ ७०॥ नाम्नः प्रभावसङ्ख्यानं सन्तो वक्तुं न च क्षमाः । पुरा शङ्करवक्त्रेण नाम्नोऽस्य महिमा श्रुतः ॥ ७१॥ गुणान्नामप्रभावं च किञ्चिज्जानाति मद्गुरुः । ब्रह्माऽनन्तश्च धर्मश्च सुरर्षिमनुमानवाः ॥ ७२॥ वेदाः सन्तो न जानन्ति महिम्नः षोडशीं कलाम् । इत्येवं कथितो नन्द महिमा च सुतस्य च ॥ ७३॥ यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम् । कृष्णः पीताम्बरः कंसध्वंसी च विष्टरश्रवाः ॥ ७४॥ देवकीनन्दनः श्रीशो यशोदानन्दनो हरिः । सनातनोऽच्युतोऽनन्तः सर्वेशः सर्वरूपधृक् ॥ ७५॥ सर्वाधारः सर्वगतिः सर्वकारणकारणम् । राधाबन्धू राधिकात्मा राधिकाजीवनं स्वयम् ॥ ७६॥ राधाप्राणो राधिकेशो राधिकारमणः स्वयम् । राधिकासहचारी च राधामानसपूरणः ॥ ७७॥ राधाधनो राधिकाङ्गो राधिकासक्तमानसः । राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ॥ ७८॥ परिपूर्णतमं ब्रह्म गोविन्दो गरुडध्वजः । नामान्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धृदि ॥ ७९॥ जन्ममृत्युहराण्येव रक्ष नन्द शुभेक्षण । कृतं निरूपणं नाम्नां कनिष्ठस्य यथा श्रुतम् ॥ ८०॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे द्वादशाध्यायान्तर्गतः नामकरणप्रस्तावः समाप्तः । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १३/४८-८०॥ brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 13/48-80.. Proofread by PSA Easwaran
% Text title            : Shri Krishnanamakaranapra Stava
% File name             : kRRiShNanAmakaraNaprastavaH.itx
% itxtitle              : kRiShNanAmakaraNaprastavaH (brahmavaivartapurANAntargataH)
% engtitle              : kRRiShNanAmakaraNaprastavaH
% Category              : vishhnu, vishnu, krishna, brahmavaivartapurANa, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, pUrvabhAga | adhyAya 13/48-80||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 22, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org