श्रीकृष्णप्रोक्ता कृष्णनारायणस्तुतिः
भजध्वं भावतो भक्त्या शाश्वतालयदो यतः ।
प्रपद्ये परमेशानं तं ह्यजं वैष्णवप्रियम् ॥ ५३॥
परब्रह्म महात्मानं विश्वस्य जगतः पतिम् ।
नमस्तस्मै देवदैत्येश्वरमुक्तादिसेविने ॥ ५४॥
सर्वाक्षाय सर्वव्याप्तात्मनेऽन्तर्यामिणे नमः ।
गायन्ति यं गायत्रिणोऽर्चयन्त्येनं समर्पिताः ॥ ५५॥
यत्र सर्वं कारणं च कार्यं क्रिया च साधनम् ।
दैवतं सदसश्चापि नमस्तस्मै विलासिने ॥ ५६॥
नमः शान्ताय वरिणे शङ्खचक्रध्वजाब्जिने ।
शूलिने शार्ङ्गिणे चापि वज्रिणे शरिणे नमः ॥ ५७॥
स्वस्तिमते मीनवते नमस्ते प्रभविष्णवे ।
नमोऽस्त्वप्रतिरूपाय स्वरूपध्वजधारिणे ॥ ५८॥
नमो नानाभिरामाय नमः पटुतराय च ।
नमः साङ्ख्यप्रवक्त्रे ते योगवक्त्रे च ते नमः ॥ ५९॥
नमः श्रुतिप्रवक्त्रे ते न्यायवक्त्रे नमो नमः ।
नमो मुक्तिप्रवक्त्रे ते नमः शिक्षाप्रदाय च ॥ ६०॥
नमो मीमांसनवक्त्रे नमोऽमृतप्रदाय च ।
नमो हिरण्यवपुषे नमश्चम्पकवर्चसे ॥ ६१॥
नमः स्तुत्याय मन्त्राय सर्वभूतशरीरिणे ।
नमो होत्रे नमः शीलव्रतस्थायाऽतिरूपिणे ॥ ६२॥
नमो दीर्घाक्षिणे तुभ्यं सर्वकामप्रदायिने ।
नभश्चान्तरनेत्राय सर्वनेत्राय ते नमः ॥ ६३॥
भेदाऽभेदप्रभिन्नाय नमस्ते व्यतिरेकिणे ।
छायातपनरूपाय शान्तसत्त्वाय ते नमः ॥ ६४॥
यज्ञभागप्रियायैकमूर्तये ब्रह्मणे नमः ।
पञ्चालपुत्रीरक्षाय भगुपुत्रीप्रवाहिने ॥ ६५॥
अनरण्यसुतेशाय नमो नारायणीशिने ।
अन्नदायाऽन्नपतये कोशात्मकाय ते नमः ॥ ६६॥
बालानुरूपगोत्रे च बाललीलाविलासिने ।
नमो बालाय वृद्धाय मञ्जुकेशाय ते नमः ॥ ६७॥
नमः षट्कर्मतुष्टाय सहस्राभरणाय च ।
धर्मार्थकाममोक्षाणामाश्रयाय च ते नमः ॥ ६८॥
नमोऽनन्तगुणैश्वर्यविभूत्याश्रयिणे नमः ।
मेघशोभाय चन्द्रार्कताराप्रभाय ते नमः ॥ ६९॥
त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोऽनलः ।
वारि त्वं त्वं तथातृप्तिः सुखमानन्द ते नमः ॥ ७०॥
जरायुजाऽण्डजाश्चापि स्वेदोद्भिज्जास्त्वया कृताः ।
त्वमेव चावतारेश भूतग्रामश्चतुर्विधः ॥ ७१॥
स्रष्टा चराचरस्याऽस्य पाता हन्ता त्वमेव ह ।
त्वामाहुर्ब्रह्म विद्वांसः परं ब्रह्मविदां गतिः ॥ ७२॥
मनसः परमं ज्योतिर्ज्यातिस्त्वं ज्योतिषामपि ।
हंसो वृक्षो मधुकरः प्राहुस्त्वां ब्रह्मवादिनः ॥ ७३॥
यज्ञेष्टकृत् फलनरत्वं त्वामाहुर्मुनयस्तथा ।
पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥ ७४॥
नरा नार्यः स्थावरा जङ्गमास्तिर्यञ्च इत्यपि ।
त्वमेव विद्यसे कृष्णनारायण जगत्प्रभो ॥ ७५॥
त्वमेव मेघसङ्घाश्च विद्युतोऽशनिगर्जितम् ।
संवत्सरस्त्वमृतवो मासो मासार्धमेव च ॥ ७६॥
युगानिमेषाः काष्ठाश्च नक्षत्राणि ग्रहास्तथा ।
त्वं शरी त्वं गदी चक्री खड्गी वज्री शरासनी ॥ ७७॥
छेत्ता भेत्ता प्रहर्ताऽसि मन्ता नेता सनातनः ।
समुद्राः सरितः शैला वृक्षाः सरांसि भूस्तराः ॥ ७८॥
लतातृणौषधिवल्लीपशवो मृगपक्षिणः ।
पृथुकर्मगुणारम्भः कालः पुष्पफलोदयः ॥ ७९॥
मध्यं बीजं चांऽकुरं च पत्रं काण्डं च ग्रन्थिका ।
नालं पुष्पं फलं चापि रसो गन्धस्त्वमेव च ॥ ८०॥
पिष्टं मिष्टं सदेष्टं च त्वमेव परमेश्वर ।
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ ८१॥
उदयानामुदयाग्र्यं त्वमेव परमा गतिः ।
प्राणा निमेषा जृम्भश्च क्षुतं चाऽभ्याहतिस्तथा ॥ ८२॥
ब्रह्मकालयमाग्नीनां शास्ता बोधयिता भवान् ।
चनुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः ॥ ८३॥
चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।
प्रशिल्पी गणको माता सर्वशिल्पप्रवर्तकः ॥ ८४॥
स्वाहा स्वधा वषट्कारो नमस्कारः स्तुतिस्तथा ।
प्रार्थना प्रार्थनीयं च त्वमेव ते नमो नमः ॥ ८५॥
गूढव्रतो गुह्यतपास्तारको भूमिसन्धरः ।
धाता विधाता सन्धाता त्वमेव ते नमो नमः ॥ ८६॥
ब्रह्मा शम्भुस्तथा विष्णुर्विराड्भूमा त्वमेव च ।
तपः सत्यं ब्रह्मचर्यमार्जवं त्वं प्रतोषणम् ॥ ८७॥
भूर्भुवः स्वं जीवसृष्टिरीशसृष्टिस्त्वमेव च ।
ब्रह्मसृष्टिः ऋतं दीक्षा दमनं त्वं जनार्दनः ॥ ८८॥
कान्तः प्रियः पतिः स्वामी नारायणस्त्वमेव च ।
बिन्दुर्नादो ध्वनिर्ब्रह्म विमर्शः स्फोट इत्यपि ॥ ८९॥
पश्यन्ती च परा मध्या विशिष्टा वाक् त्वमेव च ।
गौर्भूमिर्ब्राह्मभक्तश्च साधुः सती च किङ्करी ॥ ९०॥
वश्यः सर्वं त्वमेवाऽऽस्से त्वां विना नास्ति नास्त्यपि ।
शशाङ्कानलशीतोष्णक्षुत्तृषाश्च जरामयाः ॥ ९१॥
आधयो व्याधयः शान्तिर्भेषजं त्वं जनार्दन ।
सोमपास्त्वं च माधुर्यं मरुत्पतिर्जगत्पतिः ॥ ९२॥
अमृताशी जगन्नाथाः कुङ्कुमेशस्त्वमेव च ।
अक्षतेशो गणेशश्च मुक्तेशस्त्वं परेश्वरः ॥ ९३॥
विषाग्निपाः सोमपाश्च क्षीरपा नवनीतपाः ।
आज्यपा मधुपाः सर्वभोक्ता त्वं च पितामहः ॥ ९४॥
हिरण्यरेताः पुरुषश्रेष्ठस्त्वमेव चैकलः ।
त्वं स्त्रीपुमान् त्वं तृतीयो भावद्वयविवर्जितः ॥ ९५॥
भावत्रयातिगश्चापि भावत्रये प्रवर्तसे ।
बालो युवा स्थविरश्च जीर्णदंष्ट्रोऽसि विश्वकृत् ॥ ९६॥
चन्द्रादित्यौ चक्षुषी ते जिह्वा ते च सरस्वती ।
अहोरात्रे निमिषोभे आत्मानस्ते गृहालयाः ॥ ९७॥
न ब्रह्मा न शिवो विष्णुः पौराणा ऋषयो न ते ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन बालक ॥ ९८॥
पुंसामीशेश्वराणां मुक्तानां कोट्यर्बुदानि च ।
तिष्ठसे त्वं समावृत्य चान्तर्बहिस्त्वमेव सः ॥ ९९॥
महतस्तमसः पारेऽक्षरस्याऽपि परे सदा ।
परे धाम्नि परेशस्त्वं राजसे सोऽत्र मूर्तिमान् ॥ १००॥
यं विनिद्रा जितप्राणाः सत्त्वस्था ब्रह्मवर्तिनः ।
परं पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ १०१॥
या या मूर्तयः सूक्ष्मास्ते शक्या दर्शयितुं न ताः ।
ताभ्यः सर्वाभ्य एवाऽत्र त्वद्रूपाभ्यो नमो नमः ॥ १०२॥
भक्तानुकम्पी भगवान् भक्तेषु वर्तसे सदा ।
केशा मेघा यस्य नाड्यो नद्यः कुक्षौ महाब्धयः ॥ १०३॥
शयानाय जले हैमे तपस्यते च ते नमः ।
येऽङ्गुष्ठमात्राः पुरुषाश्चिदः स्थावरजङ्गमाः ॥ १०४॥
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ १०५॥
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ १०६॥
येऽपि पञ्चसु भूतेषु दिशासु विदिशासु च ।
चन्द्रे सूर्ये सत्यलोके वैकुण्ठाख्यचतुष्टये ॥ १०७॥
रसातलगता ये च ये च तस्मात् परङ्गताः ।
तव भक्तास्तव दासाः किङ्करास्तव केशव ॥ १०८॥
दास्यः सत्यस्तव भक्ताः किङ्कर्यस्तव माधव ।
नमस्तेभ्यो नमस्ताभ्य उभाभ्यां च नमोऽच्युत ॥ १०९॥
येषां न विद्यते सङ्ख्याः प्रमाणं रूपमेव च ।
असङ्ख्यास्ते मुक्तगणा नमस्तेभ्योऽस्तु नित्यशः ॥ ११०॥
प्रसीद बालरूप त्वं स्वकं भावं प्रदर्शय ।
त्वयि नो हृदयान्यत्र भवन्तु सत्कथाफलम् ॥ १११॥
इत्येवं राधिके! तेन स्तुतः कृष्णनरायणः ।
कथारम्भे प्रसन्नः सन्नात्मनो दर्शनं ददौ ॥ ११२॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ४०-अध्यायान्तर्गतं
श्रीकृष्णप्रोक्ता कृष्णनारायणस्तुतिः समाप्ता ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ४०/३८-११२॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 40/38-112..
Proofread by PSA Easwaran