श्रीकृष्णप्रोक्तं पुरुषोत्तमकथावर्णनम्

श्रीकृष्णप्रोक्तं पुरुषोत्तमकथावर्णनम्

श्रीकृष्ण उवाच । यश्चाऽस्ति दिव्येऽक्षरधाम्नि दिव्यो ह्यनन्तमुक्ताऽभिसुसेव्यमानः । परेऽक्षराद्धाम्नि विराजमानः सोऽयं पृथिव्यां समवाततार ॥ २९॥ श्रीकृष्णनारायणनामधेयो ह्यनादिकृष्णः परमेश्वरश्च । गोलोकवैकुण्ठनिवासिभिश्च प्रगेऽर्चने वै हृदि चिन्त्यमानः ॥ १.३०॥ सोऽयं कृपाभिः पृथिवीतले कुङ्कुमाख्यवाप्यां हि सुराष्ट्रदेशे । श्रीकम्भरालक्ष्मिसतीगृहेऽत्र गोपालकृष्णात्मजतामवाप ॥ ३१॥ यस्मादहं पूर्णतमोऽपि कृष्णो राधापतिश्चाप्यभवं पुराणः । लक्ष्मीपतिश्चाप्यभवद्यतो वै वैकुण्ठधामाधिपतिर्महात्मा ॥ ३२॥ कैलासवासोऽपि यतोऽभवच्चामृताधिवासोऽपि यतोऽभवच्च । अव्याकृतेशोऽपि यतोऽभवच्च हिरण्यगर्भोऽपि यतोऽभवच्च ॥ ३३॥ श्रीबद्रिकेशोऽपि यतोऽभिजातः क्षीरोदवासी च यतोऽस्ति जातः । श्वेताख्यधामेश नरायणोऽपि यतोऽस्ति जातः कमलापतिर्वै ॥ ३४॥ असङ्ख्यधामाधिपरेश्वराश्च यतो भवन्त्येव हरेस्तु राधे । तस्यात्मदेवस्य गुणानुकीर्तिं वदामि राधे परमेश्वरस्य ॥ ३६॥ त्वया स्तुतः श्रीपुरुषोत्तमो यः परात्परः कारणकारणं च । सर्वावताराधिपतिः पुराणः स्मरामि तं श्रीपुरुषोत्तमेशम् ॥ ३६॥ द्विषट्कयुक्तं कथितं च यत् शतं त्वया परेशस्य तु मुख्ययोषिताम् । दिव्याङ्गनानां चरणान्यहं सदा नमामि तासां पतये नमो नमः ॥ ३७॥ अहं पुरोद्भाव्य विलोकितस्त्वया साकं परेशेन निवासनाय वै । गोलोकसंज्ञं मम धाम चार्पितं राधे विहारार्थमनेन ते नमः ॥ ३८॥ ततः परं येन नरायणः कृतो लक्ष्म्या सुयुक्तश्च विलोकितश्च सः । वैकुण्ठसंज्ञं प्रददौ च धाम यत्तस्मै प्रदात्रे परमात्मने नमः ॥ ३९॥ अथापि रूपं च विधाय शाम्भवं सत्या समं यत्प्रविलोकितं पुनः । कैलाससंज्ञं प्रददौ च धाम यत् निवासदात्रे गुणधारिणे नमः ॥ १.४०॥ इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय प्रथमाध्यायान्तर्गतं श्रीकृष्णप्रोक्तं पुरुषोत्तमकथावर्णनम् । लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १/२९-४०॥ lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 1/29-40.. Proofread by PSA Easwaran
% Text title            : Shri Krishnaproktam Purushottamakathavarnanam
% File name             : kRRiShNaproktaMpuruShottamakathAvarNanam.itx
% itxtitle              : puruShottamakathAvarNanam (kRiShNaproktaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : kRRiShNaproktaM puruShottamakathAvarNanam
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 2 | adhyAya 1/29-40||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org