श्रीकृष्णस्तवनम्
(गीतिवृत्तम्)
केशव! के शवतुल्या न स्वयि विमुखाः स्वला मलाकाराः ?
भक्तास्तव सक्ताः स्तवनतिपूजासु प्रभो! न के धन्याः? ॥ १॥
माधव! साधव एव त्वयशसि रता न दुर्जना मलिनाः ।
(१)हंसा इव नो दृष्टा मौक्तिककवलारता बकाः काकाः ॥ २॥
यत्यादृकथ! भगवन्नत्यादरतस्त्वमुपगताछरणम्(२) ।
नत्या सकृदपि कृतया सत्यानन्दप्रदो भवसि सद्यः ॥ ३॥
यस्साधुगीतया त्वं कीर्त्या निजयापि देव! । मुदमेषि ।
तत्तां तब प्रियार्थं गातुमहं प्रेमतः प्रवृत्तोऽस्मि ॥ ४॥
दत्वा विषमपरिमितं लब्धं त्वत्तोऽमृतं नु पूतनया ।
(३)पूतनयाऽध वृतस्त्वं कीर्त्या तत एव नित्यनूतनया ॥ ५॥
(४)यः सति साधुः स तथा न यथाऽसति साधुरीड्य एष सताम् ।
सदसि कथयन्ति कवयः पापोद्धृतिमेव विस्मरन्ति न ताम् ॥ ६॥
अयि ! के त्वयि केशव! न हि विनता (५)विनतातनूजवाह! जनाः ।
कंसारे! कं सारे पीते ते यशसि न च (६)पुमर्थमिताः ॥ ७॥
अजगरमज(७) गरनिधिमरिमत्युग्रं प्रस्तसारमशिशुवरसम् ।
अकरोरमृतनिधिं किं न करो दाता जनायते सुहृदे ॥ ८॥
अमुना यमुनामिव मे मतिमपदोषां पदा(८) कदा कर्ता ।
वद भो मदभोगिमथन ! पृच्छामि यतस्त्वमादृतो यशसि ॥ ९॥
कुरु कुरुवर(९) इव पतिते मयि शरतल्प इव देव! । संसारे ।
करुणां करुणावरुणालय ! वरदगुरो! मुकुन्द ! कंसारे! ॥ १०॥
जानन्नप्यहमहितैः प्रसभं विषयैर्जनैः स (१०)धर्म इव ।
क्रीडितुमलं प्रवृत्तस्त्वं दीनानां स एव बन्धुरसि ॥ ११॥
कामादिभिरहितैर्मे मतिरुग्रैः कौरवैरिव प्रसभं ।
धर्मस्य वधूरिव हाऽन्यायाद्विवशीकृता त्वया रक्ष्या ॥ १२॥
कंसाराते! कीर्तिः कं सारा ते जनं न पातुमलम् ।
(११) वसुधाधाराद्य विभो! न (१२)सुधाधारा क्षमावितुं रुग्णम् ॥ १३॥
य उपायनं प्रदातुं (१३)पृथुकप्रसूति त उपगतो, भवता ।
अवता स दीनबन्धोऽकारि सुदामा पदं मुदामाशु ॥ १४॥
कविना न विना व्रजति ख्यातिं, बह्वपि यशः प्रभोर्जातु ।
मुदितमतः कुरु मां कविमविगीतकथा यथासुखं गातुम् ॥ १५॥
पीतांशुक ! गीता शुककविना वाल्मीकिनेव रामस्य ।
रसिकाः पियन्ति भवतः कीर्तिं देवाः सुधामिवाजस्रम् ॥ १६॥
साधु शुकेनेव पुनर्गीतानि यशांसि ते मयूरेण ।
ख्यातिं प्रयान्तु लोके भोः ! के बद्धादरा न (१४)नव्यरसे ? ॥ १७॥
स्तोतुमनसमकरोः किल गल्ले स्पृष्ट्वा ध्रुवं ध्रुवं दरतः(१५)
तद्वन्मामादरतः कुरु पुरुकरुणार्य निजनुतौ निपुणम् ॥ १८॥
नुतिकृतिकृतादरस्त्वं सदसि सतां श्रुतमिति श्रुतिज्ञानां ।
त्वां तेन ते नमजनमन्दारं प्रार्थये नमन्नङ्घ्रिम् ॥ १९॥
ननु ते न नुतेरधिकं मतमन्यद्यदि तदिष्टमेव तव ।
वितर वरं मय्याश्रितहित रवरञ्जितजगत्स्ववंशेन(१६) ॥ २०॥
स्तुत्वास्तु त्वामयमिह संसारे भोः प्रभो! । जनो धन्यः ।
याचे यतस्त्वमिच्छां पूरयसि सुखं वदान्यमूर्धन्यः ॥ २१॥
येनार्थिकामपूर्तिः क्रियते वलु झटिति पारिजातन ।
स मया कथं नु रमया पूजितमपहाय ते पदं सेव्यः? ॥ २२॥
भवदाश्रितैः स (१७) लभ्यस्त्वं तु न जात्वपि तदाश्रितैर्भगवन्! ।
भामाद्वारि स सततं न भवान् स्थित इन्द्रमदिरान्तरपि ॥ २३॥
तं जडमविवेकिनमगमस्वाधीनं(१८) समाश्रयिष्यति कः ।
त्वां प्रभुमपास्य सर्वगमादिकविं करुणमखिलकामकरम् ॥ २४॥
अन्तर्बहिरपि कठिनश्चितामणिरुपक एव खल्वेषः ।
कामधुगपि पशुरशुभं भवतोऽन्यन्नाथ सर्वमस्माकम् ॥ २५॥
ब्रह्मादयोऽपि देवाः कृच्छ्रे(१९) त्वां देवदेवमुपयान्ति ।
सगदा(२०) जगदाधार! (२१)प्राज्यामृतपाणिमिव गुरुं भिषमाम् ॥ २६॥
यः पुरदाहं चक्रे शक्रेण प्रार्थितः प्रभुः(२२) सपदि ।
सोऽपि वृकव्यसनास्किल विलयं गत एव रक्षितो भवता ॥ २७॥
भीतांस्त्रातुं दातुं वरमभिलषितं समस्तमर्थिभ्यः ।
अनलसमनलसमं (२३) खलशलभलये त्वां वदन्ति सत्कवयः ॥ २८॥
गजमम्बुजन्तुशक्रान्नकाच्चक्रायुधावता(२४) भवता ।
दत्तमनुक्त्वाप्यभयं संसारग्राहपीरितेभ्यो(३२५) नः ॥ २९॥
नारायणेत्यजामिल आक्रुश्यापत्यमत्यपत्यमतिः ।
त्वां प्राप पापनिलयः किल यः (२६)शतकल्पनिरयवासार्हः ॥ ३०॥
त्वामहमनिशं (२७)कलये कलये यहत्तसाध्वसोऽसि त्वं ।
(२८)प्रणतेर्यत्ना अवमा अव मामित्यानतं दयालुमणे! ॥ ३१॥
एकस्त्वमेव शाश्वत आस्से सुखमब्जनाभ! । यदनल्पे ।
कल्पेऽखिललोकानां भो भगवन् ! भोगिभोगमयतल्पे ॥ ३२॥
नाथ कथङ्कारं ते महिमानमगाधमिममहो! । ब्रूमः ।
यत्वत्तत्वविचारेऽचाद्यास्ते प्रभुरचञ्चल भ्रूमः ॥ ३३॥
गोप्या कोऽप्याप्तस्ते पांसुलयापि प्रसाद ईश्वरतः ।
सत्याप्यत्यादृतया (२९) न मया न मयाद(३०) उच्यतेऽप्यखिलैः ॥ ३४॥
बद्धोऽस्युलूखले त्वं गोप्या हन्त! । व्रजे स दाम्ना यं ।
ज्ञातुं कवयो न वयोगतमपि पश्यन्ति खलु सदाऽऽन्नायम् ॥ ३५॥
(३१)अवतारातिभ्यो जगदवतारा देव! । ये गृहीतास्ते ।
माधुरतः साधुरतः कोऽपि नतेष्विह तु सूद्धृता बहवः ॥ ३६॥
इह गोकुलं व्रतं ते शिशवोऽप्यसवः कुमारिकाः श्रुतयः ।
गोपा गुरवः परमेश्वर किं बहुनारयः प्रियातिथयः ॥ ३७॥
(३२)माथुरमवतारामिमं मन्येऽखिलकामकरुपतरुमेव ।
वस्तु सकलमेकरसीकर्तुं द्रुतमस्ति जगति न रुमेव ॥ ३८॥
भुक्तं सह पशुपशिशुभिरुक्तं कृतमेव गोपवामदृशां ।
मुक्तं चाश्रु वियोगे युक्तं भगवत्यदः किमात्मरते ? ॥ ३९॥
भक्तानां पुरतस्वां नर्सयतीत्थं स्वभक्तवत्सलता ।
न व्यापूतो भवानिव कोऽपि कुटुम्बी क्वचित् कुटुम्बे स्वे ॥ ४०॥
पार्थसहायस्य न ते का वा रीतिः कुटुम्बिरीतिरिव?
दूतत्वं सूतत्वं भजतो व्रजतोऽनृतेन चापि पथा ॥ ४१॥
सक्तं सपत्नमथनं भक्तं भजता किरीटिनं पार्थं ।
व्यक्तं निजमाहितत्वं त्यक्तं स्वीकृत्य साधु सारथ्यम् ॥ ४२॥
सोढ्वाप्यायासमरं समरं गत्वाऽसुसंशयं प्राप्य ।
लुब्धेनेव स्वार्थः पार्थः परिरक्षितस्त्वया व्यसने ॥ ४३॥
भङ्गे श्रीकान्त ! नवे शान्तनवे(३३) प्रकुपिते प्रतिज्ञायाः ।
प्राप्तस्तथा न कम्पं त्वं पङ्कजनेत्र ! हृदि यथा सख्युः ॥ ४४॥
उपनिषदां सर्वस्वं मूर्तं श्रेयः श्रियः सतां सत्वं ।
(३४)वपुरापगेयसमरेऽनादृतमिषुविक्षतं न ते मित्रम् ॥ ४५॥
श्रितमवतस्तव भीष्माद्रथचक्रभृतः क्षतप्रतिज्ञभ्य ।
अद्यापि सत्यसन्धैरप्युच्चैर्गीयते यशः सदसि ॥ ४६॥
(३५)भगवन्नूनं नूनं श्रितसमवनतोऽन्यदखिलमपि कर्म ।
परिपालयन्यदेकलमर्जुनमसि सर्वथा सतामीड्यः ॥ ४७॥
भक्तं नक्तन्दिवमपि (३६)कपिकेतुं नेतुमीप्सितां पदवीं ।
किं किं न रक्षता कृतमुप्त किं किं कारितं न वान्यैस्ते ॥ ४८॥
धर्मों यदवददनृतं यदकाण्डेऽदर्शनं जगाम रविः ।
यदभजदिषुतल्पं कुरुगुरुरन्यद्यच्च तत्तवैव मतम् ॥ ४९॥
धर्मद्विषोऽनुसरणे न रणेऽपि धनुभृतां गुरोर्विजयः ।
धर्मस्य तु ध्रुवं सोऽशस्त्रस्यापीति त उपदिष्टमिह ॥ ५०॥
यद्यत्कृतं त्वयेश्चर जीवानामाशु तत्समुद्धृतये ।
श्रुतवेच्छया नृमूर्त्या श्रीसख्या शृण्वतः सतां धृतये(३७) ॥ ५१॥
बद्गोप्या राधिकयाराधि (३८)कयाधूसुतेन चाप्यन्तः ।
हृतभवगदं पदं ते ध्यायन्ति विमुक्तिपदमपि न सन्तः ॥ ५२॥
राधामाधायोरसि बाधा माधाम्नि कामजा हृत्वा ।
सुप्तं गुप्तं सतमःपुञ्जे कुञ्जे स्मरन्ति यतयस्त्वाम् ॥ ५३॥
गोपीर्भुक्त्वापि विटैः कृत्वापि न दस्युभिः (३९)सम स्तेयं ।
हृत्वापि धातुकैस्त्वं जगति गुणस्तेऽद्भुतः समस्तेऽयम् ॥ ५४॥
यासां स्वया सुसञ्चितमपहृतमेकान्ततोऽपि नवनीतं ।
ताभिरबलाभिरपि वद मनसि हृते देव! किं न तव नीतम् ॥ ५५॥
राधास्तननिहितदृशं गलदमलस्तन्यबिन्दुवदनेन्दुं ।
त्वां ध्यायत्यन्तःश्रीः साधुसभा साश्रु (४०)सात्मकुस्समपि ॥ ५६॥
त्वामधिकदम्बमबलापटुपटपाटश्चरं(४१) विलिख्य यथा ।
सत्यः प्रत्यहमात्मवतसंसिद्ध्यै भजति पतिमस्यः ॥ ५७॥
दीपमिव त्वां स्नेहादुद्भासितरूपसम्पदं गोप्यः ।
अभजन्पतङ्गिका इव मरणभयमपास्य रुचिररुचिरुचयः ॥ ५८॥
(४२) मृत्स्नाशनागसि विभो! । भीताया विश्वदर्शनान्मातुः ।
स्वस्मिन्दुर्लभपुत्रस्नेहापायात्वमेव बहुभीतः ॥ ५९॥
हा! । बत! हन्त! पिबन्तं त्वाममृतनिधिं द्रुतं निरस्य भुवि ।
याता माता बहुमतदुग्धा, मुग्धाः खलु मियो जात्या ॥ ६०॥
दुग्धे मुग्धे किमधिकमम्ब! । त्वं बत! सुवञ्चितासीति ।
ज्ञापयितुमेवमेव त्वं गोरसभाजनेऽकरोः कोपम् ॥ ६१॥
गुरुभिरपि गुरुवरेण च भवता ये बोधिताः क्रतौ गुरवः ।
हत कथं तेऽप्यन्धा बन्धावहमेव यैर्वृतं कर्म ॥ ६२॥
धन्या मन्यामह इह ता रामाः(४३) सस्कृतोऽसि मामिस्त्वं ।
अज्ञपतीनां नौकाः सत्यः सत्यः स्तुतिर्न माहिमासाम् ॥ ६३॥
श्रीकरधृतो जडोऽपि प्राप यशो जगति (४४)पर्वतः स (४५) ततं ।
(४६)तद्दुर्दिनमप्यभवत्साधुमतं पुण्यपर्वतः सततम् ॥ ६४॥
करुणामृतधन ! करुणामृतवृष्ट्या ते जितैव सा वृष्टिः ।
(४७)जडजाप्यधः पतन्ती हेतुः पङ्कस्य या च कम्पस्य ॥ ६५॥
गोवर्धनधर! तव (४८)भुजवीक्षाक्षणविस्मृतात्मना स्त्रीणां ।
अपि (४९) खरशब्दा अब्दाः शम्पाः कम्पाय नाभवन्मनसः ॥ ६६॥
त्रासेन सहोस्खातः सुहृदां सममुद्धृतो गवां पुच्छैः ।
अवतारितः पुनर्गिरिरिन्द्रमदभरेण साकमीश्वर ! ते ॥ ६७॥
(५०)भूगोलभृद्भुजगमनमनुकुर्वन्(५१) लीलया धृताहार्यः ।
उच्चैर्बभौ भुजस्ते छत्रस्य महेन्द्रनीलदण्ड इव ॥ ६८॥
वपुषः कान्त्या मेघास्तव करकाराशयः(५२) स्मितप्रभया ।
तरितोऽपि वाससा खलु पीता (५३) भीता भुजाद् ध्रुवं वाताः ॥ ६९॥
पर्वतधरेण भवता वनधरो लीलयाद्रिभिद्विजितः ।
आस्तां गिरिरपि हरिरपि जेतुमलं त्वं तृणेन कालमपि ॥ ७०॥
(५४)गोत्रारेर्वज्रभृतः क्रुद्धाद्गिरिरेकलोऽप्यपक्षोऽपि(५५)
प्राप्तो जयं न भङ्गं सत्पुरुषभुजाश्रितो न को विजयी? ॥ ७१॥
अमितापराधशमनं नमनं तव पादयोः सकृद्विहितं ।
व्यतिरेकोऽर्थान्तरन्यासश्च ।
किं द्रागिन्द्राहूरीकर्तुमघमतोऽन्यदद्भुतं तीर्थम् ॥ ७२॥
आगस्कृत्सु नमत्सु द्राक्कुरुषे त्वं क्षमां भृशं करुणः ।
अपराधिना न चेत्किं कवचं तव चण्डकालभीतिजुषाम् ॥ ७३॥
त्रातो न कस्तृणादिर्जीवस्ते स्वपदरेणुना दरतः ।
कश्च चरः संसारान्मशकादिर्मधुरवेणुनादरतः ॥ ७४॥
यश्चुंवितस्त्वयानिशमीश्वर! । परमादृतेन वंशस्तं(५६)
मन्ये रमाधराद्धरमिह माधुर्यं सदा नवं शस्तम् ॥ ७५॥
जगता सममनुभूतं माधुर्य चुम्बता त्वया यस्य ।
स वरं श्रियोऽधरादिति वदता कविना श्रियः किमपराद्धं ? ॥ ७६॥
कास्ताः स्त्रियो न नीता वंशेन (५७)स्थाणुभावममुना याः ।
अन्यासां कैव कथा? सुकविशुक (५८)स्तम्भमाह यमुनायाः ॥ ७७॥
एणो(५९) न केवलं तव वेणो रवमोहितो भुजङ्गोऽपि ।
हिंस्रोऽपि देव! बहुना किं (६०)स्रोतश्चारिजन्तुनिकरोऽपि ॥ ७८॥
(६१) द्युसदां सुमोहिता रवमधु पाययता च वेणुना सत्यः ।
पिदधे श्रुती शयाभ्यां यासां मुखमीक्ष्य मङ्क्षु नामत्यः ॥ ७९॥
वंशो राकाजानेरंशोरपि(६२) तापनाशको मधुरः ।
कोऽप्योघ (६३) एष वहता गोप्यो दूरं हृता रसैर्येन ॥ ८०॥
भगदं जगदन्तर्वहिरस्तु सम्मुत्तव(६४) यशोऽमृतं पीत्वा ।
इति भगवत्यपराद्धं विधिना खलु वत्सवत्सपान्हरता ॥ ८१॥
तदनुभवाक्तोर्ब्रूमो वयमद्भुतमेव हन्त मोहस्तं ।
निन्ये वशमाकृष्य द्युमणिमिव निजं गृहं तमोहस्तम् ॥ ८२॥
पित्रा गवां रसास्ते तव पुत्रेण तु सपालका वत्साः ।
तच्चरितेन तु सकला गोपा गोप्यो वयं सुराश्च हृताः ॥ ८३॥
स कथं निद्यः कविभिः संस्थापयितुं पदे प्रशस्ते नः ।
(६५)योऽमृतसागरफेनस्तेनमिह ततान ते यशस्तेनः ॥ ८४॥
(६६)कृच्छाद्यददित्यातं दुर्लभमतुलैस्तपोव्रतैश्चीर्णैः ।
प्राप्ता गोप्यो गावस्तच्छ्रभूत्वं भियो जगन्मातुः ॥ ८५॥
यदोगोप्यो गावस्त्वामापुरपस्यमीश्वरं जगतः ।
न गतः किमिहोत्कर्षं विध्यपराधोऽपि(६७) नाकिनां नगतः ॥ ८६॥
अङ्गीकृता यदा ते गोगोपीनां जगद्गुरो! । सुतता ।
मूर्तिर्न केवलं तव जाता सत्कीर्तिरपि जगत्सु तता ॥ ८७॥
विधिपशुपशुपसमदृशा (६८) गोपकरायत्तबन्धमोक्षण ।
वसायितेन भगवन् ! दाम्न्यर्पितकन्धरेण तृणमशितम् ॥ ८८॥
तेषां यत्स्वतनुभुवा(६९) धनमपहृतमीश! । सत्यपतिनापि ।
तेषां तदनूनाधिकमात्मधनं तेऽर्पितं सदीड्येन ॥ ८९॥
(७०)सवसंस्कृतहविषोऽपि प्रापितमुच्चैः पदं त्वया यवसं ।
भवसन्तरणेच्छुरहं हन्त तृणेष्वपि तदा नतेश्ववसम् ॥ ९०॥
हा हन्त ! । तं तमन्तर्भावयतोऽनुग्रहं बजे भवतः ।
मम तदपात्रस्य मनः किं तां चिन्ता ब्रवीमि यां यातम् ॥ ९१॥
वत्सीभूतं ब्रह्म ब्रह्मप्रमुखैर्महात्मभिविश्चिन्त्यं ।
त्वां गोगोपीगोपाः पुपुषुः प्रेम्णान्तनौ च रोमाञ्चम् ॥ ९२॥
स्वर्गाद्गुरु सस्यपदं सत्यपदाद्गुरुतरं च वैकुण्ठं ।
वैकुण्ठादपि गुरुतममवनौ वृन्दावनं वनं मन्ये ॥ ९३॥
याः पूर्वं न क्वचिदपि कस्मैचिदपि प्रदर्शिताः प्रभुणा ।
अत्रैव पीतपट! ता अटता नटता त्वया कलाः सकलाः ॥ ९४॥
यौ कमलावक्षस्यपि वक्षोजस्पर्शभूरिरक्तत लौ ।
तौ तव वृन्दावनभुवि चङ्क्रमणं चक्रतुश्चिरं चरणौ ॥ ९५॥
वृन्दावनेऽनुभूतं गोपैर्गोपीभिरपि च यद्गोभिः ।
तन्नन्दनेऽपि न सुरैर्नानन्दवनेऽपि पण्डितैः शर्म ॥ ९६॥
चरणसरोजरजोभिर्देवसरिस्कतिपयैः पुरा प्राप्तैः ।
महिमानमियन्तमिता वृन्दावनभूः किमङ्किता पदकैः ॥ ९७॥
तृणगुल्मव्रततिद्रुमदृषदो वृन्दावनेऽत्र धूलिरपि ।
सर्वं तीर्थशताधिकमीश्वर! (७१)तीर्थाघ्रिंणा कृतं भवता ॥ ९८॥
भोः ! कतमो लोकतमो बाह्यं हर्तुं क्षमोऽन्य आदित्यात् ।
तेजस्विपूज्यपादात् आन्तरमपि लोकबन्धुतस्त्वत्तः ॥ ९९॥
कुम्भ(७२)भुवाम्भोधिरिव स्वेन निरुपमेन तेजसा यशसा ।
शौरिभुवा भवता द्रागप्ययमप्ययमलं भवो नीतः ॥ १००॥
गोपोऽपि पण्डितानां सर्वेषां सम्मतः सदा नन्दः ।
यत्तैरलब्धगन्धस्स्वमपि तदङ्कं गतः सदानन्दः ॥ १०१॥
जगति यशोदानन्दौ धन्यौ शिशुना त्वया जगद्गुरुणा ।
(७३)उक्तावाश्लिप्य गले यौ शतकृत्वस्त्वयाम्ब! तातेति ॥ १०२॥
वृद्धैरलमन्यैर्नो मैत्री भवतैव गोपशिशुनाऽस्तां ।
वृद्धसखा यामाप्तास्त्वत्तो मुदमाश्वपीह पिशुनास्ताम् ॥ १०३॥
(७४)यमभृतमुचो वरं निजकिसलयतोऽमंस्त देवविटपी तं ।
तं घोषयोपिदधरं विटेन भवता पीतं धन्यं ।
किं घोषयोपिदधरं धन्यं ब्रूमो न देव विटपीतम् ॥ १०४॥
द्रारद्रवति धीः श्रुते ते यशसि यथा नस्तथा न वेदान्ते ।
लब्धरतिः स्वपिति भुवि न पल्यङ्केऽपीतरा(७५) न वेदान्ते ॥ १०५॥
त्वां सगुणं ब्रह्म वयं निर्गुणमपि नाथ संश्रिताः कवयः ।
रुचिवैचित्र्यादेकेऽलङ्कृतिमिव हेम केवलमिवान्ये ॥ १०६॥
कैवल्यं पदमाप्ता ये भक्ता ये च विद्विषस्तव ते ।
तेन श्रिता वयं त्वां ब्रूमो भगवन्! प्रभो! नमो भवते ॥ १०७॥
सकलं(७६) स्ववयः कवयस्तव यत्र वयस्यममृतकरमहसः ।
सुयशः काले देशे व्यवहारे तनयन्ति तत्रैव ॥ १०८॥
सरसि सरोजमिव त्वयि हृदयमिदं नः सुजीवने वसतु ।
तत्र(७७) श्रीरिव भक्तिश्चात्रापि परन्तु मात्र सेव चला ॥ १०९॥
गीत्या मृग इव कुशलैः कामी प्रभुरिव सुरूपयार्पितया ।
भक्त्या भागवतैस्त्वं भगवन् ! बहुभिर्वशीकृतोऽस्याशु ॥ ११०॥
हृश्रस्तं(७८) कस्य कवेः कालाच्छ्रुतरत्नसानुकम्पस्य ।
तव संश्रयेग्र पादौ श्रितचिन्तारत्नसानुकम्पस्य ॥ १११॥
इति श्रीरामनन्दनमयूरविरचितं श्रीकृष्णस्तवनं सम्पूर्णम् ।
टिप्पणि
१। यथा हंसा मौक्तिकानां कवलेच्चादृता दृष्टास्तथा दुर्जना इव बकाः मलिना इव काकाश्च नो दृष्टा न दृष्टाः इत्यन्वयः ।
२। उपगतान् शरणमिति पदच्छेदः ।
३। पूतनया पवित्रया । पवित्रार्थे पूतनशब्दो न कुत्रापि दृष्टचरः ।
४। यथा असति दुर्जने साधुः सतामीड्यो भवति न तथा सति सत्पुरुषे साधुरित्यन्वयः ।
५। विनतातनूजो वैनतेयो वाहः वाहनं यस्य तत्सम्मुद्धौ ।
६। पुमर्थं पुरुषार्थं धर्मार्थकाममोक्षाख्यम् ।
७। अज हे कृष्ण । गरस्य विषस्य निधिम् ।
८। त्वपदसञ्चरणेन यमुनामिव त्वद्वसत्या मे मतिमपदोषां विगतदोषां कदा
कर्ता करिष्यसीति योजना ।
९। शरतल्पे पतिते कुरुवरे भीष्मे ।
१०। धमों युधिष्ठिरः । अहितैर्जनैः कौरवैः ।
११। वसुधाधार आद्य इति सम्बुद्धिस्थं पदद्वयम् ।
१२। सुधाधारा रुग्णमवितुं रक्षितुं क्षमा न किमिति प्रश्नः । क्षमैवेत्यर्थः ।
१३। पृथुकानां प्रसतिम् । ते उपगतस्त्वामुपगत इत्यर्थः ।
१४। नव्ये रसे सर्वेऽपि बद्धादरा इत्यर्थः ।
१५। शङ्खेन गले स्पृष्ट्वा त्वं ध्रुवाख्यं वालं ध्रुवं निश्चितं स्तोतुमनसमकरोरिति योजना ।
१६। स्ववंशेन स्ववेणुनिर्गतेन रवेण राजितं जगद्येन तत्सम्बुद्धौ । सापेक्षत्वेऽपि गमकत्वात्समासः ।
१७। स पारिजातः ।
१८। अगं वृक्षं पारिजातमिति यावत् । व्यतिरेकेण पारिजाताद्भगवानेव श्रेष्ठ इति सूच्यते ।
१९। कृच्छ्रे सङ्कटे ।
२०। सगदाः सातङ्का भीता इत्यर्थः ।
२१। अमृतहस्तं धन्वन्तरिमित्यर्थः ।
२२। प्रभुः शिवः । वृको भस्मासुरः ।
२३। खला एव शलभास्तेषां लये विनाशेऽनलसममग्निसदृशम् ।
२४। अम्बु-जन्तुषु जलजन्तुष शक्रात् श्रेष्ठात् ।
२५। ``षड़र्गग्राहपीडितेभ्यः'' इति पाठान्तरं। षड़र्गः कामादीनां समूहः ।
२६। शतं कल्पान् निरयवासं नरकवासमर्हतीति तादृशः ।
२७। कलये मनसि करोमि चिन्तयामीत्यर्थः ।
२८। प्रणतेर्यत्नाः अवमाः अपरित्याज्याः । सदा मया प्रणतिः कार्यैवेत्यर्थः ।
२९। ``अत्यानतया'' इति पाठान्तरम् ।
३०। मया अदः इति पदच्छेदः ।
३१। अरातिभ्यो रिपुभ्यः ।
३२। मथुरायां भवम् ।
३३। भीष्मे ।
३४। आपगेयो भीष्मस्तेन सह समरे ।
३५। भगवन् ऊनं इति पदच्छेदः ।
३६। अर्जुनम् ।
३७। प्रमोदाय ।
३८। कयाधूसुतः प्रह्लादः ।
३९। समः स्तेयमिति पदच्छेदः । विटैर्न दस्युभिः समः त्वं स्तेयं कृत्वापीति योजना ।
४०। सात्मकुत्समात्मनो निन्दया सहितं यथा स्यात्तथा ।
४१। स्तेनम् ।
४२। मृत्स्नाया मृत्तिकायाः अशनेन भक्षणेन यदागः योऽपराधस्तस्मिन् ।
४३। ऋषिपत्न्यः ।
४४। गोवर्धनगिरिः ।
४५। व्याप्तम् ।
४६। मेघच्छन्नमहः ।
४७। उलयोरभेदाज्जलजा । पङ्कस्य कम्पस्य च हेतुरित्यन्वयः ।
४८। भुजवीक्षायां क्षणं विस्मृतः आत्मा याभिस्तासाम् ।
४९। गर्जन्तः ।
५०। शेषं इत्यनेन नकारस्यानुनासिको लकारः कविना न प्रयुक्तः ।
५१। अत्र ``तोलिं''। इत्यनेन नकारस्यानुनासिका लकारः कविना न प्रयुक्तः ।
५२। करका वर्षोपलास्तासा राशयः ।
५३। पीताः पीतवर्णास्तडितः ।
५४। गोत्राणां पर्वतानामरेरिन्द्रात् ।
५५। पुरा पर्वतानां पक्षा आसंस्ते च महेन्द्रेण च्छिन्ना इति कथात्र लक्ष्यते ।
५६। वेणुः ।
५७। स्थाणोः स्तम्भस्य भावं धर्म स्तब्धतामिनि यावत् ।
५८। यमुनाया जलमपि निश्चलमासीदित्याहेत्यर्थः ।
५९। हरिणः ।
६०। जलचरसमूहः ।
६१। यासां मुखं वीक्ष्य पुरा नासत्योऽश्विनीकुमारः पाणिभ्यां मङ्क्षु सपदि श्रुती श्रोत्रे पिदधे पिहितवास्ता घुसदां देवानां सत्योऽपि स्त्रियोऽपि रवमधु पाययता वेणुना सुमोहिता नितरां मोहिता इत्यर्थः ।
६२। अंशोः किरणात् । ज्योत्स्नाया इत्यर्थः ।
६३। एष वेणुरवस्य कोऽप्यपूर्व एव ओघः प्रवाहः । येन वहता रसैः शृङ्गारादिभिर्जलैश्च गोप्यो दूरं हृताः ``दूरं गोप्यो वहता रसैर्हृता येन'' इति पाठान्तरम् ।
६४। मुदा सहितं यथा तथा ।
६५। अमृतसागरस्य दुग्धसागरस्य यः फेनस्तस्य स्तेनं चौर्यकरम् । ततोऽप्यधिकं धवलमित्यर्थः ।
६६। यत् अदित्या आप्तमिति पदच्छदः। देवजनन्या यत् कृच्छ्रादाप्तमित्यन्वयः ।
६७। विधेर्ब्रह्मणः अपराधस्त्वां गोपीनां पुत्रं विदधतो विधेरपराध एव । स तु तासां नाकिनां नगतः कल्पवृक्षादप्यधिकं फलमदादित्यपराधस्योत्कर्षः ।
६८। ``समकरुण'' इति पाठान्तरम् ।
६९। स्वपुत्रेण ब्रह्मणा ।
७०। सवे यो संस्कृताद हविषोऽपि । यवसं तृणम् ।
७१। तीर्थ क्षेत्रं अघ्री यस्य तेन ।
७२। कुम्भभुवा अगस्त्येन ।
७३। यौ यशोदानन्दौ त्वया अम्ब ! तात ! इति शतकृत्वो गले समाश्लिष्योक्तौ इत्यन्वयः ।
७४। यं देवविटपी कल्पवृक्षोऽमृतं मुञ्जता निजपल्लवाद्वरमंस्त न ब्रूमः किमिति प्रश्नः ।
७५। ``प्यन्यथा'' इति साधुः पाठः। (मयूरकविः)
७६। कवयो यत्रामृतकरमहसो वयस्यं तव सुयशो यत्र काले देशे
व्यवहारे च वर्तते तत्रैव तत्सकलं स्ववयो नयन्तीत्यन्वयः ।
७७। त्वयि श्रीरिव नो भक्तिर्वसतु । सा भक्तिस्तु सा श्रीरिवात्र त्वयि चला मास्तु इति योजना ।
७८। हे श्रितानां चिन्तारत्न चिन्तामणे ! श्रुतो रत्नसानोर्मेरोः कम्पो येन तादृशस्य कस्य कवेः पण्डितस्य कालान्मृत्योस्त्रस्तं भीतं हृन्मनः सानुकम्पस्य करुणावतस्तव पादौ न संश्रयेत् । सर्वस्यापि मनस्ते पादौ संश्रयेदेवेत्यर्थः ।
Proofread by Rajesh Thyagarajan