अर्जुनकृतम् श्रीकृष्णस्तोत्रम्
पुलस्त्य उवाच -
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् ।
तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥ १९॥
अर्जुन उवाच -
नमोऽस्तु ते चक्रधरोग्ररूप नमोऽस्तु ते शार्ङ्गधरारुणाक्ष ।
नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र नमोऽस्तु विभ्रान्तगदान्तकारिन् ॥ २०॥
भयेन सन्नोऽस्मि सवेपथेन नाङ्गानि मे देव वशं प्रयान्ति ।
वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥ २१॥
कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् ।
क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥ २२॥
प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय ।
स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥ २३॥
न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः ।
पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥ २४॥
स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव ।
यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥ २५॥
सा मे स्मृतिर्दर्शनभाषणादि प्रकुर्वतो नाथ गता प्रणाशम् ।
कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥ २६॥
कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप ।
आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥ २७॥
ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ ।
विष्णुः स्थितौ पालनबद्धकक्षो रुद्रो भवान्संहरणे प्रजानाम् ॥ २८॥
एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि ।
वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥ २९॥
यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् ।
परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥ ३०॥
यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः ।
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥ ३१॥
मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु ।
दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥ ३२॥
हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः ।
काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥ ३३॥
त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम ।
ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥ ३४॥
यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूगः ।
नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥ ३५॥
बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् ।
तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषमनुष्यतायाः ॥ ३६॥
तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्य जातः ।
पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥ ३७॥
अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् ।
त्वया यथा स्तन्यमतीव बाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥ ३८॥
विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मानुषोऽन्यः ।
ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥ ३९॥
सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् ।
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥ ४०॥
प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः ।
तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥ ४१॥
बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः ।
सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥ ४२॥
कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः ।
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥ ४३॥
हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः ।
जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥ ४४॥
स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः ।
मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥ ४५॥
हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः ।
येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥ ४६॥
इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः ।
स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः ॥ ४७॥
एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् ।
मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥ ४८॥
त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश ।
एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥ ४९॥
प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो ।
मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥ ५०॥
न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य ।
यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥ ५१॥
देवदेव जगन्नाथ सर्वपापहरो भव ।
हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥ ५२॥
प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च ।
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥ ५३॥
वयमन्ये च गोविन्द नराः क्रीडनकास्तव ।
मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥ ५४॥
यदत्र सदसद्वापि किञ्चिदुच्चारितं मया ।
भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥ ५५॥
इति विष्णुधर्मेषु पञ्चत्रिंशोऽध्यायान्तर्गतं अर्जुनप्रोक्तं
श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran