श्रीकृष्णस्तोत्रम्

श्रीकृष्णस्तोत्रम्

कृष्ण त्वद्गुणवृन्दवर्णनपरा दृष्टाः श्रुतीनां गणा यैर्निर्लज्जमभाणि वाङ्मनसयोर्नो गोचरस्त्वं ततः । ध्यानं संस्तवमर्चनं प्रविनतिं कर्तुं न शक्तोऽस्म्यहं तस्मादेव कृपणं कुरुष्व भगवन्नापन्नबन्धो मयि ॥ १॥ ता लीला यदुनन्दनस्य जगतीरक्षापरा गोपिका- नन्दिन्यः श्रुतिवाङ्मधूत्करझरीरिङ्खत्तरङ्गायिताः । निध्याता मुनिभिः शिवाय महते ख्याता जगन्मण्डले भूयासुर्मम चित्तवृत्तिकलुषक्षान्त्यै श्रियै कीर्तये ॥ २॥ श्रीकृष्ण त्वदपाङ्गदुग्धजलधेरल्पाः कणा याञ्जनान् प्राप्तास्तान् हि समुद्धरन्ति महदापज्जन्मवार्धेः क्षणात् । भूयस्त्वत्पदपद्मचिन्तनभवानन्दाब्धिमध्ये भृशं मग्नांस्तान्न समुद्धरन्ति सकृदेवैषां बलं किं वद ॥ ३॥ कृष्ण त्वं बहुवाभिकल्पिततनुस्त्वद्भक्तजन्मापह- स्त्वं गोपीरमणोऽसि भक्तहृदये वैराग्यमायच्छसि । दिव्यं रूपमवाप्तवानसि परं भक्तस्त्वरूपः कृतः सत्यं किं नु निरञ्जनश्रुतिवचःसन्दिग्धमस्मन्मनः ॥ ४॥ आदित्यासुरयातुधानमनुजा नागैणिकाः पत्रिणः सम्प्राप्ताः परमां गतिं यदुपते त्वत्कीर्तनात् सन्ततम् । अद्यापि त्वयि साधुभक्तिसहिता धर्मेण कीर्त्या श्रिया दीव्यन्ते विदितं मया तदपि मे सक्तं न चित्तं त्वयि ॥ ५॥ लोकानन्दनवेणुनादसुधया कन्दर्पधिक्कारणा रूपेणाप्रतिमेन सर्वजगतीक्षेमङ्करैश्चेष्टितैः । स्वप्ने वा मम सन्निधेहि सकृदप्येतावतालं हरे काणायापि हि दर्शितं तव वपुर्दिव्यं द्विषे स्मर्यताम् ॥ ६॥ छत्रीकृत्य महीधरेन्द्रमतनुं गोवर्धनं लीलया गा गोपांश्च तथा हरेऽवितवतः कीर्तिश्चिरा ज्यायसी । धृत्वा पृष्ठतलेन मन्दरगिरिं हत्वासुरान् रक्षितो यो भ्राता स निरस्त एव करुणा न स्थेयसी ते विभो ॥ ७॥ मत्स्यैरव्भवकल्मषैर्बहुविधैर्मुस्ताभरैः शोणितै- र्भैक्षैः क्षत्रियजीवितैर्वनफलैर्माध्वीरसैः श्रीहरे । कारुण्यप्रतिपादकोक्तिमधुभिर्लेच्छासुभिर्नागत- स्तृप्तिं खादसि यन्मखाश्रुतिगणैर्गीतोऽजिघत्सः कथम् ॥ ८॥ एकस्तल्पमथापरो नटनभूरन्यः स्वजायासनं भिन्नाः स्वाश्रयरथ्यरश्मिनिवहा एवं भुजङ्गैः सदा । सक्तोऽपि व्रजसुन्दरीविटतया ख्यातोऽपि दुग्धादिक- स्तेनाऽपि त्वमभिष्टुतोऽसि महिमाहो श्रीमतः किं ब्रुवे ॥ ९॥ लीलानिर्मितगुप्तसंहृतजगत्स्तोमाय मायाजुषे बालायाखिललोकपावनपटुस्वास्यामृतायासताम् । कालायादिमपूरुषाय महते क्षोणीभृदुद्धारिणे कोलाकारविदीर्णभूतलमुषे कृष्णाय तुभ्य नमः ॥ १०॥ यद्दण्डोऽपि विमुक्तये भवति यद्वेषोऽपि पापापहो यद्दासाङ्घ्रिरजःकणोऽपि मुनिभिर्देवैश्च सम्पूज्यते । यन्नामोच्चरतः स्थले निवसतो जन्तोर्बिभेत्यन्तकः स्वान्तं तन्मह आविरस्त्वतिजवाच्छ्रीकृष्णनामाद्य नः ॥ ११॥ पुन्नागद्रुमवाटिकास्वपि लताकुञ्जेषु भूभृद्गुहा- स्वालीनं कपटेन नैव ददृशुर्गोपाङ्गनास्त्वामिति । नैतद् वाच्यममायमास्थितमहो ओङ्कार एकाक्षरे प्रत्यक्षेऽपि चिरन्तना मुनिवरा नाद्यापि जानन्त्यहो ॥ १२॥ सूतत्वं पशुपालतामनुजतां दौत्यं वधूत्वं समा- श्रित्याप्यच्युत रक्षिता हि भवतानेके जगन्नायक । याचे त्वामधुना ममान्त्यसमये स्वान्ताख्यसिंहासने राजत्वं भज तावता जनिभवं दुःखं भवेन्नैव मे ॥ १३॥ कृष्णानन्त मुकुन्द माधव हरे गोविन्द दामोदरे- त्याख्याभिर्मुहुराह्वयामि यदि मे क्षेमं भवेत् त्वां ध्रुवम् । मिथ्यासज्जनदूषणाधमनुतिस्वाद्वन्नरामाधरे- ष्वासक्तां रसनां करोति भवतो माया न ते नाम्न्यहो ॥ १४॥ ब्रह्मद्वेषिणि राज्ञि कुक्षिभरणश्रान्ता द्विजाद्यास्तवो- पास्तिं कर्तुमलं न कर्मभिरथ ज्ञानस्य का वा कथा । नाम्नां कीर्तनमेकमेव शरणं त्वन्मायया विघ्नितं तच्चेन्नारककोटिकल्पनभवः खेदो महांस्ते कलौ ॥ १५॥ दारिद्र्येण रुजा भरेण कुधिया दुश्चेष्टया दुर्जनै- र्गाढं योजय मामितोऽपि कुरु वा क्रौर्यं महदू भीर्न मे । यन्नारायणनामपूतसुजनाह्वन्नेन लब्धं फलं रोद्धुं नैव कृती भवान् खलु मया नाजामिलो विस्मृतः ॥ १६॥ कामस्त्वज्जनितो नृसिंहवपुषि क्रोधो महान् दर्शितो लुब्धोऽतीव नवोद्धृतादिषु भृशं गोपीषु मोहाकुलः । मत्तः शत्रुनिबर्हणे यदुपते मात्सर्यवान् दुर्जने ज्ञानाचार्यतया त्वमेव महितो नास्मान्महान् विस्मयः ॥ १७॥ मायावी भववार्धिमध्यवसतिर्व्यालावृतोऽनुत्तमो देवानाम्प्रिय उत्सुकः पुरभिदोद्योगे कुकान्ताश्रितः । त्वत्तुल्योऽहमनन्त तावककथाश्लाघापरो मां भवान् नैवाङ्गीकुरुते मयाद्य विदितं ते निर्गुणप्राभवम् ॥ १८॥ बालः प्रौढवधूनितान्तनिरतश्चोरः सतामग्रणी- र्गोपालो जगतां पतिर्विटतरः ख्यातो महापूरुषः । नीरूपोऽप्यतिसुन्दरो बलिकृते भिक्षुः स लक्ष्मीपति- र्भूयान्मे महते शिवाय पुरुषः कश्चित् पुराणोऽधुना ॥ १९॥ दध्नाक्तं क्वचिदिन्दिराकुचतटीकस्तूरिकाकुङ्कुमै- रालिप्तं व्रजसुन्दरीसुललितापाङ्गच्छटाशैवलैः । जुष्टं देवगणार्चितैः सुरभिलैः पुष्पैः परीतं शिशुं चित्रं कञ्चन कालिमादिमगुरुं चित्ते चिरं भावये ॥ २०॥ नक्षत्रेशदिवाकरात्मकदृशे रक्षःप्रभुश्रीमुषे मैक्षावाप्यपदाय वल्लवकुलाध्यक्षत्वलीलाजुषे । रूक्षव्यालमदापहारपटवेऽत्यक्षस्वरूपाय ते वक्षःसंश्रितवल्लभाय नमसां लक्षं प्रकुर्मो वयम् ॥ २१॥ लीलोत्कव्रजसुन्दरीघनकुचक्ष्माभृच्छिरोलम्बितं लोकानां मृदुवेणुनिःस्वनसुधावर्षैः परानन्दकृत् । नीलं दूरितधार्तराष्ट्रकुतुकं भूषालसद्रत्नभा- विद्युद्रञ्जितमभ्रमस्तु परमं सन्तापशान्त्यै मम ॥ २२॥ भूषामौक्तिकतारराशिरुचिरं गङ्गाप्रवाहास्पदं गोपस्त्रीकुचकुम्भकुङ्कुमरजोरागाञ्चितं च क्वचित् । नेत्रीभूतसरोजबन्धुशशभृज्जुष्टं ततं सर्वतः कृष्णाख्यं गगनं व्रजामि शरणं दुःखौघविच्छित्तये ॥ २३॥ आभीरप्रमदासुवर्णलतिकासंवीतमूर्तिर्निज- च्छायासङ्गतखेदनोदनपटुः प्राज्ञद्विजैकाश्रयः । श‍ृङ्गारप्रथमानमानसवधूकेलिप्रियाभावुकः कृष्णाख्यः स तिरस्करोतु तिलकद्रुस्तापसूर्यं मम ॥ २४॥ श‍ृङ्गारप्रथमावतारसरणिः करुणयाकेलीगृहं शुभ्रान्यद्युतिसम्प्रदायगुरुराट् कारुण्यकादम्बिनी । कालुष्यौघतरङ्गिणी व्रजवधूप्रेमाश्रममञ्जूपिका बालः कश्चन सञ्चकास्तु हृदि नो बालात्मजश्रेयसे ॥ २५॥ वेणुध्वानसुधारसैः स्मितमयज्योत्स्नाप्रवाहैः पयः- पारावारतरङ्गबन्धुललितापाङ्गच्छटामेदुरैः । कायेनापि जगद्वशीकृतिमहासिद्धाञ्जनेनाञ्जसा गोपस्त्रीर्भृशमोहिता विरचयञ्जाराग्रणीः पातु नः ॥ २६॥ कान्तारे कलभो यथा रविसुतातीरे तमालो यथा गोपालप्रमदालतापरिसरे लोलम्बकूटो यथा । कस्तूरीतिलकाञ्चितः सुजनतानेत्रे प्रमोदावहो गायन् मञ्जुलवेणुना च जगतीरक्षापरोऽव्याद्धरिः ॥ २७॥ वन्दारुत्रिदिवेशमूर्धमकुटीरत्नारुणप्रस्फुरद् गोपस्त्रीकचभारलग्नसुमनोमालारजोवासितम् । मोक्षश्रीसदनं सनातनवचोमाध्वीरसास्कन्दितं त्वत्पादाम्बुजमातनोतु भगवन् मन्मस्तकालङ्कृतिम् ॥ २८॥ कालिन्दीह्रदरूढकुण्डलिफणारङ्गस्थलीनर्तकी निःशेषश्रुतिसागरोद्धृतमहागीतामृतस्राविणी । श‍ृङ्गारं करुणां रसादभिनयन्त्याभीरयोषाजने श्यामा मे सुखमातनोतु रुचिरा काचिद् वृषप्राचुरी ॥ २९॥ लोलत्कुण्डलशोभिगण्डयुगलं बिम्बाधरप्रोल्लसद्- वेणुध्वानसुखार्धमीलितदृशं गोधूलिनद्धालकम् । गोपस्त्रीकुचकुम्भकुङ्कुमरजःपाटीरपङ्काङ्कितं बालं गोरसनावलीढचरणं ध्यायामि चित्ते सदा ॥ ३०॥ मन्दस्मेरमुखाम्बुजं मधुरवागाबद्धगीतामृतं कन्दर्पायुतसुन्दरं कमलभूमुख्यामरासेवितम् । कुन्दश्रेणिसदृग्रदं कुनृपतिप्रध्वंसवीक्षारतं नन्दद्गोपकुलावृतं नवघनश्यामं शिशुं भावये ॥ ३१॥ प्रेम्णा भक्तिभरेण पञ्चधनुषा स्पृष्टान्तरङ्गा हृदि ध्यायन्त्यो यदुनन्दनं प्रविगलद्बाष्पाम्बुपूर्णाननम् । त्यक्त्वा सर्वमवापुरेव शरणं धन्या हि गोपाङ्गना- स्तासां पादरजांसि मामकमलङ्कुर्युर्वराङ्गं कदा ॥ ३२॥ ध्वस्तानेकसुरारयः सुमुरलीनादप्रकृष्टव्रज- स्त्रीवृन्दाः समुदक्तगोत्रविधुतस्वाराडहन्ताः क्षणात् । सम्यग्वर्धितकामशास्त्रविभवाः कारुण्यवारान्निधे- र्लींला गोपकिशोरकस्य रुचिराः कुर्वन्तु भद्राणि नः ॥ ३३॥ उद्ग्रीवैः पशुभिः सुविस्मयभरस्तब्धैर्व्रजस्त्रीगणैः सोत्कण्ठैः स्वरभक्तिसाधुगमकग्राहैकबद्धस्पृहैः । गन्धर्वैः कलुषापनोदनपरैर्ब्रह्मर्षिभिर्वेणवी गीतिर्गोपसखस्य सानुरसिता निःश्रेयसायास्तु नः ॥ ३४॥ गोविन्द त्वदुदारनादमुरली गोपीजनस्याञ्जसा मानं दूर उदस्य हन्त कुरुते तापं मनोभूद्भवम् । हेतुस्तत्र किलैतयोर्भगवतो बिम्बाधरपेक्षता- नन्दाब्धौ ननु मज्जयत्यपि नरानेषा ह्यसारान्तरा ॥ ३५॥ सिद्धान्तः श्रुतिमस्तकस्य यतिनां भाग्यं व्रजौकस्ततेः पुण्यौघस्य महत् फलं प्रविततं मोक्षस्य चैकाननम् । सौन्दर्यस्य परावधिः प्रणमतामानन्दभूमोदयो बालो बद्ध उलूखले भवतु नो बन्धस्य विच्छित्तये ॥ ३६॥ कालिन्दीव तमालभूरुह इवाम्भोदावलीवालिनां श्रेणीव द्विपराडिवाहिहमणीदामेव यो राजते । कान्तारेषु नदीतटेषु शिखरिशान्तेषु वल्लीगृहे- प्वब्जोद्भासिसरःसु गोपरमणीवक्षःसु चित्तेऽस्तु नः ॥ ३७॥ कालिन्दीपुलिनस्थली भगवतः पादारविन्दोल्लसद्- रेखामण्डलमण्डिता व्रजवधूखेलाच्युतैः कुङ्कुमैः । पुष्पौघैश्च विराजिता नतजनाहन्तापिशाचीसमु- त्सारे यन्त्रमिवाच्युतेन लिखितं पुष्णातु भाग्यं मम ॥ ३८॥ मैरेयं पिबतो गुरोरपि सतीं शाठ्यात् समागच्छतो भ्रूणान् संहरतः सुवर्णमधिकं लोभान्मुहुर्मुष्णतः । देहासङ्गवशात् पुनाति सहसा भागीरथी यद्भवा तत् ते पादसरोरुहं कृतवतामन्तर्न मुक्तिः कथम् ॥ ३९॥ संसारोदधिनाविकेन कलुषव्राताटवीवह्निना गाढाज्ञानतमिस्रचण्डमहसा श्रुत्यन्तसीमाजुषा । मोक्षश्रीप्रियनायकेन निभृतानन्दप्रदात्रा हरेः पादाब्जेन हृदम्बुजे निवसता दूरीकृतो ह्यन्तकः ॥ ४०॥ मूढान् दुर्धनगर्वितान् प्रतिदिनं धिक्कुर्वतः सज्जनान् स्तुत्वाभीक्ष्णमहो वृथैव रसने श्रान्तासि मर्त्याधमान् । लक्ष्मीनायकमब्जभूहरिमुखैः संसेविताङ्घ्रिद्वयं कृष्णं संस्तुहि धन्यतां गमय मां किं वस्त्वसाध्यं तव ॥ ४१॥ इति श्रीकृष्णस्तोत्रं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (५३) Proofread by Rajesh Thyagarajan
% Text title            : Krishna Stotram
% File name             : kRRiShNastotram.itx
% itxtitle              : kRiShNastotram (kRiShNa tvadguNavRindavarNanaparA dRiShTAH)
% engtitle              : kRiShNastotram
% Category              : vishhnu, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org