श्रीकृष्णस्तोत्रम्
कृष्ण त्वद्गुणवृन्दवर्णनपरा दृष्टाः श्रुतीनां गणा
यैर्निर्लज्जमभाणि वाङ्मनसयोर्नो गोचरस्त्वं ततः ।
ध्यानं संस्तवमर्चनं प्रविनतिं कर्तुं न शक्तोऽस्म्यहं
तस्मादेव कृपणं कुरुष्व भगवन्नापन्नबन्धो मयि ॥ १॥
ता लीला यदुनन्दनस्य जगतीरक्षापरा गोपिका-
नन्दिन्यः श्रुतिवाङ्मधूत्करझरीरिङ्खत्तरङ्गायिताः ।
निध्याता मुनिभिः शिवाय महते ख्याता जगन्मण्डले
भूयासुर्मम चित्तवृत्तिकलुषक्षान्त्यै श्रियै कीर्तये ॥ २॥
श्रीकृष्ण त्वदपाङ्गदुग्धजलधेरल्पाः कणा याञ्जनान्
प्राप्तास्तान् हि समुद्धरन्ति महदापज्जन्मवार्धेः क्षणात् ।
भूयस्त्वत्पदपद्मचिन्तनभवानन्दाब्धिमध्ये भृशं
मग्नांस्तान्न समुद्धरन्ति सकृदेवैषां बलं किं वद ॥ ३॥
कृष्ण त्वं बहुवाभिकल्पिततनुस्त्वद्भक्तजन्मापह-
स्त्वं गोपीरमणोऽसि भक्तहृदये वैराग्यमायच्छसि ।
दिव्यं रूपमवाप्तवानसि परं भक्तस्त्वरूपः कृतः
सत्यं किं नु निरञ्जनश्रुतिवचःसन्दिग्धमस्मन्मनः ॥ ४॥
आदित्यासुरयातुधानमनुजा नागैणिकाः पत्रिणः
सम्प्राप्ताः परमां गतिं यदुपते त्वत्कीर्तनात् सन्ततम् ।
अद्यापि त्वयि साधुभक्तिसहिता धर्मेण कीर्त्या श्रिया
दीव्यन्ते विदितं मया तदपि मे सक्तं न चित्तं त्वयि ॥ ५॥
लोकानन्दनवेणुनादसुधया कन्दर्पधिक्कारणा
रूपेणाप्रतिमेन सर्वजगतीक्षेमङ्करैश्चेष्टितैः ।
स्वप्ने वा मम सन्निधेहि सकृदप्येतावतालं हरे
काणायापि हि दर्शितं तव वपुर्दिव्यं द्विषे स्मर्यताम् ॥ ६॥
छत्रीकृत्य महीधरेन्द्रमतनुं गोवर्धनं लीलया
गा गोपांश्च तथा हरेऽवितवतः कीर्तिश्चिरा ज्यायसी ।
धृत्वा पृष्ठतलेन मन्दरगिरिं हत्वासुरान् रक्षितो
यो भ्राता स निरस्त एव करुणा न स्थेयसी ते विभो ॥ ७॥
मत्स्यैरव्भवकल्मषैर्बहुविधैर्मुस्ताभरैः शोणितै-
र्भैक्षैः क्षत्रियजीवितैर्वनफलैर्माध्वीरसैः श्रीहरे ।
कारुण्यप्रतिपादकोक्तिमधुभिर्लेच्छासुभिर्नागत-
स्तृप्तिं खादसि यन्मखाश्रुतिगणैर्गीतोऽजिघत्सः कथम् ॥ ८॥
एकस्तल्पमथापरो नटनभूरन्यः स्वजायासनं
भिन्नाः स्वाश्रयरथ्यरश्मिनिवहा एवं भुजङ्गैः सदा ।
सक्तोऽपि व्रजसुन्दरीविटतया ख्यातोऽपि दुग्धादिक-
स्तेनाऽपि त्वमभिष्टुतोऽसि महिमाहो श्रीमतः किं ब्रुवे ॥ ९॥
लीलानिर्मितगुप्तसंहृतजगत्स्तोमाय मायाजुषे
बालायाखिललोकपावनपटुस्वास्यामृतायासताम् ।
कालायादिमपूरुषाय महते क्षोणीभृदुद्धारिणे
कोलाकारविदीर्णभूतलमुषे कृष्णाय तुभ्य नमः ॥ १०॥
यद्दण्डोऽपि विमुक्तये भवति यद्वेषोऽपि पापापहो
यद्दासाङ्घ्रिरजःकणोऽपि मुनिभिर्देवैश्च सम्पूज्यते ।
यन्नामोच्चरतः स्थले निवसतो जन्तोर्बिभेत्यन्तकः
स्वान्तं तन्मह आविरस्त्वतिजवाच्छ्रीकृष्णनामाद्य नः ॥ ११॥
पुन्नागद्रुमवाटिकास्वपि लताकुञ्जेषु भूभृद्गुहा-
स्वालीनं कपटेन नैव ददृशुर्गोपाङ्गनास्त्वामिति ।
नैतद् वाच्यममायमास्थितमहो ओङ्कार एकाक्षरे
प्रत्यक्षेऽपि चिरन्तना मुनिवरा नाद्यापि जानन्त्यहो ॥ १२॥
सूतत्वं पशुपालतामनुजतां दौत्यं वधूत्वं समा-
श्रित्याप्यच्युत रक्षिता हि भवतानेके जगन्नायक ।
याचे त्वामधुना ममान्त्यसमये स्वान्ताख्यसिंहासने
राजत्वं भज तावता जनिभवं दुःखं भवेन्नैव मे ॥ १३॥
कृष्णानन्त मुकुन्द माधव हरे गोविन्द दामोदरे-
त्याख्याभिर्मुहुराह्वयामि यदि मे क्षेमं भवेत् त्वां ध्रुवम् ।
मिथ्यासज्जनदूषणाधमनुतिस्वाद्वन्नरामाधरे-
ष्वासक्तां रसनां करोति भवतो माया न ते नाम्न्यहो ॥ १४॥
ब्रह्मद्वेषिणि राज्ञि कुक्षिभरणश्रान्ता द्विजाद्यास्तवो-
पास्तिं कर्तुमलं न कर्मभिरथ ज्ञानस्य का वा कथा ।
नाम्नां कीर्तनमेकमेव शरणं त्वन्मायया विघ्नितं
तच्चेन्नारककोटिकल्पनभवः खेदो महांस्ते कलौ ॥ १५॥
दारिद्र्येण रुजा भरेण कुधिया दुश्चेष्टया दुर्जनै-
र्गाढं योजय मामितोऽपि कुरु वा क्रौर्यं महदू भीर्न मे ।
यन्नारायणनामपूतसुजनाह्वन्नेन लब्धं फलं
रोद्धुं नैव कृती भवान् खलु मया नाजामिलो विस्मृतः ॥ १६॥
कामस्त्वज्जनितो नृसिंहवपुषि क्रोधो महान् दर्शितो
लुब्धोऽतीव नवोद्धृतादिषु भृशं गोपीषु मोहाकुलः ।
मत्तः शत्रुनिबर्हणे यदुपते मात्सर्यवान् दुर्जने
ज्ञानाचार्यतया त्वमेव महितो नास्मान्महान् विस्मयः ॥ १७॥
मायावी भववार्धिमध्यवसतिर्व्यालावृतोऽनुत्तमो
देवानाम्प्रिय उत्सुकः पुरभिदोद्योगे कुकान्ताश्रितः ।
त्वत्तुल्योऽहमनन्त तावककथाश्लाघापरो मां भवान्
नैवाङ्गीकुरुते मयाद्य विदितं ते निर्गुणप्राभवम् ॥ १८॥
बालः प्रौढवधूनितान्तनिरतश्चोरः सतामग्रणी-
र्गोपालो जगतां पतिर्विटतरः ख्यातो महापूरुषः ।
नीरूपोऽप्यतिसुन्दरो बलिकृते भिक्षुः स लक्ष्मीपति-
र्भूयान्मे महते शिवाय पुरुषः कश्चित् पुराणोऽधुना ॥ १९॥
दध्नाक्तं क्वचिदिन्दिराकुचतटीकस्तूरिकाकुङ्कुमै-
रालिप्तं व्रजसुन्दरीसुललितापाङ्गच्छटाशैवलैः ।
जुष्टं देवगणार्चितैः सुरभिलैः पुष्पैः परीतं शिशुं
चित्रं कञ्चन कालिमादिमगुरुं चित्ते चिरं भावये ॥ २०॥
नक्षत्रेशदिवाकरात्मकदृशे रक्षःप्रभुश्रीमुषे
मैक्षावाप्यपदाय वल्लवकुलाध्यक्षत्वलीलाजुषे ।
रूक्षव्यालमदापहारपटवेऽत्यक्षस्वरूपाय ते
वक्षःसंश्रितवल्लभाय नमसां लक्षं प्रकुर्मो वयम् ॥ २१॥
लीलोत्कव्रजसुन्दरीघनकुचक्ष्माभृच्छिरोलम्बितं
लोकानां मृदुवेणुनिःस्वनसुधावर्षैः परानन्दकृत् ।
नीलं दूरितधार्तराष्ट्रकुतुकं भूषालसद्रत्नभा-
विद्युद्रञ्जितमभ्रमस्तु परमं सन्तापशान्त्यै मम ॥ २२॥
भूषामौक्तिकतारराशिरुचिरं गङ्गाप्रवाहास्पदं
गोपस्त्रीकुचकुम्भकुङ्कुमरजोरागाञ्चितं च क्वचित् ।
नेत्रीभूतसरोजबन्धुशशभृज्जुष्टं ततं सर्वतः
कृष्णाख्यं गगनं व्रजामि शरणं दुःखौघविच्छित्तये ॥ २३॥
आभीरप्रमदासुवर्णलतिकासंवीतमूर्तिर्निज-
च्छायासङ्गतखेदनोदनपटुः प्राज्ञद्विजैकाश्रयः ।
शृङ्गारप्रथमानमानसवधूकेलिप्रियाभावुकः
कृष्णाख्यः स तिरस्करोतु तिलकद्रुस्तापसूर्यं मम ॥ २४॥
शृङ्गारप्रथमावतारसरणिः करुणयाकेलीगृहं
शुभ्रान्यद्युतिसम्प्रदायगुरुराट् कारुण्यकादम्बिनी ।
कालुष्यौघतरङ्गिणी व्रजवधूप्रेमाश्रममञ्जूपिका
बालः कश्चन सञ्चकास्तु हृदि नो बालात्मजश्रेयसे ॥ २५॥
वेणुध्वानसुधारसैः स्मितमयज्योत्स्नाप्रवाहैः पयः-
पारावारतरङ्गबन्धुललितापाङ्गच्छटामेदुरैः ।
कायेनापि जगद्वशीकृतिमहासिद्धाञ्जनेनाञ्जसा
गोपस्त्रीर्भृशमोहिता विरचयञ्जाराग्रणीः पातु नः ॥ २६॥
कान्तारे कलभो यथा रविसुतातीरे तमालो यथा
गोपालप्रमदालतापरिसरे लोलम्बकूटो यथा ।
कस्तूरीतिलकाञ्चितः सुजनतानेत्रे प्रमोदावहो
गायन् मञ्जुलवेणुना च जगतीरक्षापरोऽव्याद्धरिः ॥ २७॥
वन्दारुत्रिदिवेशमूर्धमकुटीरत्नारुणप्रस्फुरद्
गोपस्त्रीकचभारलग्नसुमनोमालारजोवासितम् ।
मोक्षश्रीसदनं सनातनवचोमाध्वीरसास्कन्दितं
त्वत्पादाम्बुजमातनोतु भगवन् मन्मस्तकालङ्कृतिम् ॥ २८॥
कालिन्दीह्रदरूढकुण्डलिफणारङ्गस्थलीनर्तकी
निःशेषश्रुतिसागरोद्धृतमहागीतामृतस्राविणी ।
शृङ्गारं करुणां रसादभिनयन्त्याभीरयोषाजने
श्यामा मे सुखमातनोतु रुचिरा काचिद् वृषप्राचुरी ॥ २९॥
लोलत्कुण्डलशोभिगण्डयुगलं बिम्बाधरप्रोल्लसद्-
वेणुध्वानसुखार्धमीलितदृशं गोधूलिनद्धालकम् ।
गोपस्त्रीकुचकुम्भकुङ्कुमरजःपाटीरपङ्काङ्कितं
बालं गोरसनावलीढचरणं ध्यायामि चित्ते सदा ॥ ३०॥
मन्दस्मेरमुखाम्बुजं मधुरवागाबद्धगीतामृतं
कन्दर्पायुतसुन्दरं कमलभूमुख्यामरासेवितम् ।
कुन्दश्रेणिसदृग्रदं कुनृपतिप्रध्वंसवीक्षारतं
नन्दद्गोपकुलावृतं नवघनश्यामं शिशुं भावये ॥ ३१॥
प्रेम्णा भक्तिभरेण पञ्चधनुषा स्पृष्टान्तरङ्गा हृदि
ध्यायन्त्यो यदुनन्दनं प्रविगलद्बाष्पाम्बुपूर्णाननम् ।
त्यक्त्वा सर्वमवापुरेव शरणं धन्या हि गोपाङ्गना-
स्तासां पादरजांसि मामकमलङ्कुर्युर्वराङ्गं कदा ॥ ३२॥
ध्वस्तानेकसुरारयः सुमुरलीनादप्रकृष्टव्रज-
स्त्रीवृन्दाः समुदक्तगोत्रविधुतस्वाराडहन्ताः क्षणात् ।
सम्यग्वर्धितकामशास्त्रविभवाः कारुण्यवारान्निधे-
र्लींला गोपकिशोरकस्य रुचिराः कुर्वन्तु भद्राणि नः ॥ ३३॥
उद्ग्रीवैः पशुभिः सुविस्मयभरस्तब्धैर्व्रजस्त्रीगणैः
सोत्कण्ठैः स्वरभक्तिसाधुगमकग्राहैकबद्धस्पृहैः ।
गन्धर्वैः कलुषापनोदनपरैर्ब्रह्मर्षिभिर्वेणवी
गीतिर्गोपसखस्य सानुरसिता निःश्रेयसायास्तु नः ॥ ३४॥
गोविन्द त्वदुदारनादमुरली गोपीजनस्याञ्जसा
मानं दूर उदस्य हन्त कुरुते तापं मनोभूद्भवम् ।
हेतुस्तत्र किलैतयोर्भगवतो बिम्बाधरपेक्षता-
नन्दाब्धौ ननु मज्जयत्यपि नरानेषा ह्यसारान्तरा ॥ ३५॥
सिद्धान्तः श्रुतिमस्तकस्य यतिनां भाग्यं व्रजौकस्ततेः
पुण्यौघस्य महत् फलं प्रविततं मोक्षस्य चैकाननम् ।
सौन्दर्यस्य परावधिः प्रणमतामानन्दभूमोदयो
बालो बद्ध उलूखले भवतु नो बन्धस्य विच्छित्तये ॥ ३६॥
कालिन्दीव तमालभूरुह इवाम्भोदावलीवालिनां
श्रेणीव द्विपराडिवाहिहमणीदामेव यो राजते ।
कान्तारेषु नदीतटेषु शिखरिशान्तेषु वल्लीगृहे-
प्वब्जोद्भासिसरःसु गोपरमणीवक्षःसु चित्तेऽस्तु नः ॥ ३७॥
कालिन्दीपुलिनस्थली भगवतः पादारविन्दोल्लसद्-
रेखामण्डलमण्डिता व्रजवधूखेलाच्युतैः कुङ्कुमैः ।
पुष्पौघैश्च विराजिता नतजनाहन्तापिशाचीसमु-
त्सारे यन्त्रमिवाच्युतेन लिखितं पुष्णातु भाग्यं मम ॥ ३८॥
मैरेयं पिबतो गुरोरपि सतीं शाठ्यात् समागच्छतो
भ्रूणान् संहरतः सुवर्णमधिकं लोभान्मुहुर्मुष्णतः ।
देहासङ्गवशात् पुनाति सहसा भागीरथी यद्भवा
तत् ते पादसरोरुहं कृतवतामन्तर्न मुक्तिः कथम् ॥ ३९॥
संसारोदधिनाविकेन कलुषव्राताटवीवह्निना
गाढाज्ञानतमिस्रचण्डमहसा श्रुत्यन्तसीमाजुषा ।
मोक्षश्रीप्रियनायकेन निभृतानन्दप्रदात्रा हरेः
पादाब्जेन हृदम्बुजे निवसता दूरीकृतो ह्यन्तकः ॥ ४०॥
मूढान् दुर्धनगर्वितान् प्रतिदिनं धिक्कुर्वतः सज्जनान्
स्तुत्वाभीक्ष्णमहो वृथैव रसने श्रान्तासि मर्त्याधमान् ।
लक्ष्मीनायकमब्जभूहरिमुखैः संसेविताङ्घ्रिद्वयं
कृष्णं संस्तुहि धन्यतां गमय मां किं वस्त्वसाध्यं तव ॥ ४१॥
इति श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (५३)
Proofread by Rajesh Thyagarajan