$1
श्रीकृष्णस्तुतिः सङ्कीर्णा
$1

श्रीकृष्णस्तुतिः सङ्कीर्णा

(सङ्कीर्णश्लोकाः) इन्दीवरदलश्याममिन्दरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ १॥ देवः पायादपायान्नः स्मरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ २॥ पान्तु वो जलदश्यामाः शार्ङ्गिज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ ३॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ४॥ हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ५॥ देहि मत्कन्दुकं राधे परिधाननिगूहितम् । इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ ६॥ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः ॥ ७॥ मीमांसार्णवसोमं लसदर्कं तर्कपद्मस्य । वेदान्तविपिनसिंहं वन्दे गोविन्दसाभिधं ब्रह्म ॥ ८॥ अवलोकितमनुमोदितमालिङ्गितमङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ ९॥ मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्यसनी । ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ १०॥ कठिनतरदामवेष्टनलेखासन्देहदायिनो यस्य । राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥ ११॥ खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्नविनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ १२॥ नीतं नवनवनीतं कियदिति पृष्टो यशोदया कृष्णः । इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु ॥ १३॥ राधामधुसूदनयोरनुदिनमुपचीयमानस्य । प्रणयतरोरिव कुसुमं मिथोऽवलोकस्मितं पायात् ॥ १४॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः । अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ १५॥ तप्तं कैर्न तपोभिः फलितं तद्गोपबालानाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ १६॥ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ १७॥ स्तनन्धयन्तं जननी मुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ १८॥ भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति ॥ १९॥ विहाय पीयूषरसं मुनीश्वरा ममाङ्घ्रिराजीवरसं पिबन्ति किम् । इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु वः ॥ २०॥ विलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् । लीलारविन्देन तया सरोषं पायाद्विटः कोऽप्यभिहन्यमानः ॥ २१॥ स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥ २२॥ कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रमः । मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ २३॥ अतसीकुसुमोपमेयकान्तर्यमुनातीरकदम्बमध्यवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलं वः ॥ २४॥ गायन्तीनां गोपसीमन्तिनीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाञ्चल्यामात्मवक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ २५॥ पुञ्जीभूतं प्रेम गोपाङ्गनानां मूर्तीभूतं भागधेयं यदूनाम् । एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥ २६॥ आनन्दमादधतमायतलोचनानां आनीलमावलितकन्धरमात्तवंशम् । आपादमामुकुटमाकलितामृतौघं आकारमाकलयताममुमान्तरं नः ॥ २७॥ त्वां पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोशबन्धः । राधाकपोलमकरीलिखनेषु योऽयं कर्णावतंसकमलं विपुलीचकार ॥ २८॥ उत्फुल्लमानसरसीरुहचारुमध्य- निर्यन्मधुव्रतभरद्युतिहारिणीभिः । राधाविलोचनकटाक्षपरम्पराभिः दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ २९॥ गोवर्धनोद्धरणहृष्टसमस्तगोप- नानास्तुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिन्दुकलाप्रकाश- दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः ॥ ३०॥ अभिनवनवनीतप्रीतमाताम्रवेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम् । हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कञ्चिदीडे ॥ ३१॥ अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः । दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छ- च्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ॥ ३२॥ कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासप्रियाहसितो हरिः ॥ ३३॥ ललितगमना नार्यो राजन्मनोजनितान्तभाः सुरतिसदृशस्ताः सन्मुख्यो भवानपि तद्ब्रुवे । वनभुवमितो गेहादेको न गच्छतु मां विने- त्यसकृदुदितः पुत्रः पित्रा जयत्यनघो हरिः ॥ ३४॥ देवः पायात्पयसि विमले यामुने मज्जतीनां याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरलसवलितैरुन्मिषत्पञ्चबाणैः गोपस्त्रीणां नयनकुसुमैरञ्चितः केशवो नः ॥ ३५॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि । आभीराणां मधुरमुरलीनादसम्मोहितानां मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ ३६॥ शिरश्छायां कृष्णः क्षणमकृत राधाचरणयोः भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयोरप्यनुनय- प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ ३७॥ अवेमव्यापाराकलनमतुरी स्पर्शमचिरा- ?? दनुन्मीलत्तन्तु प्रकरघटनायासमसकृत् । विषीदत्पाञ्चाली विपदपनयैकप्रणयिनः पटानां निर्माणं पतगघतिकेतोरवतु वः ॥ ३८॥ ?? कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः । अभूद्वक्त्रेन्दौ यन्निहितनयनः कम्पितभुजः तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति ॥ ३९॥ संसक्तानिव पातुमौपनिषदव्याहारमाध्वीरसा- नुन्मार्ष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव । उन्मीलन्मुरळीनिनादबहुलामोदोपसीदद्गवी जिह्वालीढमलीकवल्लवशिशोः पादाम्बुजं पातु वः ॥ ४०॥ कृष्णो गोरसचौर्यमम्ब कुरुते किं कृष्ण मातः सुरा- पानं न प्रकरोमि राम किमिदं नाहं परस्त्रीरतः । किं गोविन्द वदत्यसौ हलधरो मिथ्येति तां व्याहरन् गोपीगोपकदम्बकं विहसयन्मुग्धो मुकुन्दोऽवतु ॥ ४१॥ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोदाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः ॥ ४२॥ कासि त्वं वद चौर्यकारिणि कुतः कस्त्वं पुरो यामिकः किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस्य केन त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यतां इत्युक्ते धृतवल्लवीकुचयुगस्त्वां पातु पीताम्बरः ॥ ४३॥ कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ ४४॥ कृष्ण त्वं नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः । तद्याचेऽञ्जलिना भवन्तमधुना वृन्दावनं मद्विना मा यासीरिति नन्दगोपवचसा नम्रो हरिःपातु वः ॥ ४५॥ कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः । कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगतिं विवेक्तुमिति सञ्जल्पन्हरिः पातु वः ॥ ४६॥ स्वामी मुग्धतरो वनं घनमिदं बालाऽहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः । तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥ ४७॥ मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयः तन्नास्त्यद्य कदास्ति तन्निशि निशा का वान्धकारोदये । आमील्याक्षियुगं निशाप्युपगता देहीति मातुः पुनः वक्षोजाम्बरकर्षणोद्यतकरः कृष्णः स पुष्णातु नः ॥ ४८॥ अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यःप्रस्नुतदुग्धदिग्धमपरं हस्तेन सम्मार्जतः । मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥ ४९॥ गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथाप्रस्थानखेदालसां आश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं हरिः पातु वः ॥ ५०॥ रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितुः वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः । कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ ५१॥ कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रजलतां तामेव पुष्पान्वितां इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ ५२॥ पीठे पीठनिषण्णबालकगले तिष्ठन्सगोपालको यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ ५३॥ पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः ॥ ५४॥ दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिः गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥ ५५॥ केयं भाग्यवती तवोरसि मणी ब्रूषेऽग्रवर्णं विना कृत्वास्याः प्रथमं विना क्व सहजो वर्णो मणेस्तादृशः । स्त्रीरूपं कथमस्य लिङ्गनियमात्पृच्छामि वध्वाकृतिं मुग्धे त्वत्प्रतिबिम्बमित्यपलपन् राधां हरिः पातु वः ॥ ५६॥ यां दृष्ट्वा यमुनापिपासुरनिशं व्यूहो गवां गाहते विद्युत्त्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते । उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः कान्तं कालियशासनस्य वपुषः सा पावनी पातु वः ॥ ५७॥ श्रीमद्गोपवधूस्वयङ्ग्रहपरिष्वङ्गेषु तुङ्गस्तन- व्यामर्दाद्गलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम् । कश्चिज्जागरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनादरसिको जाराग्रणीः पातु वः ॥ ५८॥ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ ५९॥ कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात्स वः श्रीपतिः ॥ ६०॥ अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः । सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः ॥ ६१॥ कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेः अक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ ६२॥ कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते । भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ ६३॥ रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवां अभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति- र्व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥ ६४॥ साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित- भ्रूवल्लीकमलीकदर्शितभुजामूलार्धदृष्टस्तनम् । गोपीनां निभृतं निरीक्ष्य ललितं काञ्चिच्चिरं चिन्तयन् अन्तर्मुग्धमनोहरो हरतु वः क्लेशं नवः केशवः ॥ ६५॥ तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद्- गीतस्थानकृतावधानललनालक्षैर्न संलक्षिताः । सम्मुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु- स्पन्दं पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥ ६६॥ वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनं बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बतः । कन्दर्पेण तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ ६७॥ राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली- नेपथ्योचितनीलरत्नमवनीभारावतारक्षमः । स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ६८॥ किं विभ्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ६९॥ सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरात् आनम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम् । स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ७०॥ प्रातर्नीलनिचोलमच्युतमुरःसंवीतपीतांशुकं राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले । व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ७१॥ प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् । पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनाद्- व्यामोहेन जितं जितं जितमभूद्व्यालोलकोलाहलः ॥ ७२॥ त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोऽञ्चलं राधायाः स्तनकोरको परिलसन्नेत्रो हरिः पातु वः ॥ ७३॥ वामांसस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं वंशीगीतिभवस्त्रिभङ्गवपुषं भ्रूलास्यलीलापरम् । किञ्चित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम् ॥ ७४॥ अन्तर्मोहनमौलिघूर्णनवलन्मन्दारविस्रंसनः स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः कंसरिपोर्व्यपोहयतु वोऽश्रेयांसि वंशीरवः ॥ ७५॥ मौलौ केकिशिखण्डनी मधुरिमाधाराधरे वंशिनी पीनांसे वनमालिनी हृदि लसत्कारुण्यकल्लोलिनी । श्रोण्यां पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी लीला काचन मोहनी विजयते वृन्दावनावासिनी ॥ ७६॥ मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेयागुरुसक्तचित्रतिलकां शश्वन्मनोहारिणीम् । लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ ७७॥ अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूतलं किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥ ७५॥ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ७६॥ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा । इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ ७७॥ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् । सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मतं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ॥ ७८॥ राधामोहनमन्दिरं जिगमिषोश्चन्द्रावलीमन्दिरात् राधे क्षेममिति प्रियस्य वचनं श्रुत्वाऽऽह चन्द्रावली । क्षेमं कंस ततः प्रियः प्रमुदितः कंसः क्व दृष्टस्त्वया राधा क्वेति तयोः प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ ७९॥ दृष्टः क्वापि स केशवो व्रजवधूमादाय काञ्चिद्गतः सर्वा एव हि वञ्चिताः खलु वयं सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः ॥ ८०॥ किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव । इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ ८१॥ स्वप्नासादितदर्शनामनुनयन्प्राणेश्वरीमादरात् अंसेऽस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभिः । प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्ययः पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं शार्ङ्गिणः ॥ ८२॥ अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलसल्लीलया कैटभारिः व्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान् ॥ ८३॥ अङ्गुल्या कः कपाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपतिर्नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ८४॥ वृन्दारण्ये चरन्ती विभुरपि सततम्भूर्भुवःस्वः सृजन्ती नन्दोद्भूताऽप्यनादिः शिशुरपि निगमैर्लक्षिता वीक्षितापि । विद्युल्लेखावनद्धोन्नमदमलमहाम्भोदसच्छायकाया माया पायादपायादविदितमहिमा कापि पैताम्बरी वः ॥ ८५॥ नामोदस्ताखिलामोदमनियमयुजां यः प्रकामोदवाह श्यामो दर्पाढ्यधामोदयमिलितयशोधारया मोदते यः । वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो वः ॥ ८६॥ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोऽङ्गनाभिः गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ ८७॥ जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ८८॥ सुपर्णः स्वर्णाद्रौ रचितमणिश‍ृङ्गे जलधिजा- मुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । त्रिलोकीकस्तूरितिलककमनीयो व्रजवधू- विहारी श्रीकृष्णो दिशतु भवतां शर्म सततम् ॥ ८९॥ क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके । त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बलात् लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ ९०॥ मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैः नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ ९१॥ कौन्तेयस्य सहायतां करुणया गत्वा विनीतात्मनो येनोल्लङ्घितसत्पथः कुरुपतिश्चक्रे कृतान्तातिथिः । त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सम्पदे साधूनामसुराधिनाथमथनः स्ताद्देवकीनन्दनः ॥ ९२॥ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यसि स्वेदाम्भःकणदन्तुरं तव मुखं हेतस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयन् तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ ९३॥ इति श्रीकृष्णस्तुतिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : kRRiShNastutiH sankIrNa
% File name             : kRRiShNastutiHsankIrNa.itx
% itxtitle              : kRiShNastutiH (saNkIrNa)
% engtitle              : kRRiShNastutiH sankIrNa
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org