कश्यपादितिकृतं विष्णुस्तोत्रम्

कश्यपादितिकृतं विष्णुस्तोत्रम्

कश्यपोऽपि सुतं त्विन्द्रं भ्रष्टराज्यं विलोक्य च । आदित्या सह सौराष्ट्रे तपस्तेपे पयोवृतम् ॥ ६४॥ अर्चयामास देवेशं पद्मनाभं जनार्दनम् । शरीरे तु तयोस्तत्र पिपीलिकाभिरावृते ॥ ६५॥ तेजो महत्तयोर्व्याप्तं सौराष्ट्रे परितस्तदा । लोकास्तु विस्मितास्तेन तौ स्तुवन्ति पुनः पुनः ॥ ६६॥ हरिर्वर्षसहस्रान्ते प्रसन्नस्तपसा तयोः । तत्रैवाविरभूत्तस्य देव्या सह सनातनः ॥ ६७॥ तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् । इन्दीवरदलश्यामं सर्वाभरणशोभितम् ॥ ६८॥ किरीटहारकेयूरकुण्डलश‍ृङ्खलान्वितम् । पीताम्बरं श्रीवत्साङ्ककौस्तुभहारवक्षसम् ॥ ६९॥ लक्ष्मीयुक्तं गरुडस्थं प्रसन्नं जगदीश्वरम् । हर्षनिर्भरहृदयस्तुष्टाव कश्यपो हरिम् ॥ ७०॥ नमो नमस्ते लक्ष्मीश सर्वेश भुवनेश्वर । स्वाश्रितानां सुखदात्रे भक्तकार्यकृते नमः ॥ ७१॥ आदिमध्यान्तरहितनित्यरूपाय ते नमः । नमः सर्वत्राणकृते वेदवेदाङ्गचक्षुषे ॥ ७२॥ सूक्ष्माय स्थूलरूपाय नारायणाय ते नमः । कल्याणगुणपूर्णाय परात्मने च ते नमः ॥ ७३॥ नमस्ते योगिगम्याय भक्तेच्छापूरकाय ते । नित्यमुक्तैकभोगाय परधामेश्वराय च ॥ ७४॥ चतुरात्मन्नमस्तुभ्यं व्यूहात्मने च ते नमः । पञ्चपञ्चस्वरूपाय पञ्चसंस्कारिणे नमः ॥ ७५॥ नारायणाय कृष्णाय वासुदेवाय ते नमः । शार्ङ्गिणे विश्वरूपाय धात्रे त्रात्रे च ते नमः ॥ ७६९॥ विष्णवे जिष्णवे तुभ्यं शुद्धसत्त्वाय ते नमः । बलेर्बलं महज्जातं तन्निषूदय माधव ॥ ७७॥ देवास्तदा सुखिनः स्युरिति चाभ्यर्थनाऽस्ति मे । यद्यपि बलिराजोऽसौ भक्तोऽस्ति सुरमेलनः ॥ ७८॥ किन्तु सुरातिक्रमणं मास्तु दैत्यस्य माधव । तस्मात्त्रिलोकगं राज्यं त्विन्द्रस्यैव सदाऽस्तु वै ॥ ७९॥ बलेस्त्वासुरराज्यं च पातालादौ यथास्तु च । तथाऽस्त्यभ्यर्थनीयं मे यथेच्छसि तथा कुरु ॥ ८०॥ उक्त्वा तु कश्यपस्तत्र विरराम हरेः पुरः । अदितिः प्राह देवेशं नत्वा स्तुत्वा जगत्प्रभुम् ॥ ८१॥ हे नाथ यदि देवानां शास्तृत्वं चासुरे भवेत् । तदाऽस्मत्पुत्रबाहुल्ये नास्ति किञ्चित्प्रयोजनम् ॥ ८२॥ यदि श‍ृगालाः काकाश्च स्युर्देवस्य विभूतयः । किं सिंहेन च हंसेन तदा वै महिमा तव ॥ ८३॥ यदि दैत्याः सार्वभौमा भ्रातरस्ते च किङ्कराः । अलं तर्हि जीवितेन त्वदित्या रमया श्रिया ॥ ८४॥ यदि भवान्महैश्वर्यो दैत्योऽपि तादृशो भवेत् । अलं भगवता तर्हि दैत्यो वै माधवो भवेत् ॥ ८५॥ तस्मात्पात्राधिकारेण देया स्मृद्धिर्हि नाऽन्यथा । यदि लौहं गले न्यस्तं शोभते रूपभासुरम् ॥ ८६॥ कृतं तर्हि सुवर्णेन व्यर्थसृष्टं हि हाटकम् । यदि दैत्यो भवेदिन्द्रो व्यर्था ह्यप्सरसस्तथा ॥ ८७॥ राजमातरो राक्षस्यश्चेदिन्द्राण्या ह्यलं तदा । किम्बहूक्तेन मे नाथ व्यवस्थां कुरु केशव ॥ ८८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १४४-अध्यायान्तर्गतं कश्यप-अदितिकृतं विष्णुस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १४४/६४-८८॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 144/64-88.. Proofread by PSA Easwaran
% Text title            : Kashyapaditikritam Vishnu Stotram
% File name             : kashyapAditikRRitaMviShNustotram.itx
% itxtitle              : viShNustotram (kashyapAditikRitaM lakShmInArAyaNIyasaMhitAntargatam kashyapo.api sutaM tvindraM)
% engtitle              : kashyapAditikRRitaM viShNustotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 144/64-88||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : December 25, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org