श्रीकविराजस्तुतिः

श्रीकविराजस्तुतिः

विलोचनकदम्बकं यदुपलभ्य लुभ्य त्किमा- लिलेह न हि किं पपौ न हि ममज्ज किंवा न हि । परं तु किमिवाभवन्नवतमाललक्ष्मीतिर- रिक्रयानिगमसाम्प्रदायिकमुपास्महे तन्महः ॥ १॥ अबालकजवाधरः सलिलवाहवाहद्युतिः नवाब्जवनवादिदृग्बृहदवार्यबाहुद्वयः । स वाङ्मनसबाह्यद्दक्प्रमदवारवारां निधिः भवाल्लवणवारिधेः सविधवासवानुद्धरेत् ॥ २॥ यदीयसुषमावलोकनमुदः शरत्कौमुदी- कदम्बपरिशीलनप्रमदधाटिकाचेटिका । तदम्बुदकदम्बडम्बरविडम्बिकिञ्चिच्छर- त्सरोजदुरहङ्कृतेरनवकाशनेत्रं भजे ॥ ३॥ सिताभ्रचयपङ्किला विधुशिलाम्बुवापीविधु- प्रभामयसरोजिनी यदि सृजेत् प्रसूनं नवम् । तदीयमुपमा यदीयनयनस्य नः स्पर्धिनी- ममन्दमुदमम्बुधेस्तटकुटीचरं तक्रियात् ॥ ४॥ कुतूहलमयी हरिन्महमयं नभोमेदिनी प्रमोदलहरीमयी जगति यत्र कुत्र क्वचित् । मतिः परमरंस्त यद्वदनबिम्बसञ्चुम्बिनी तदस्तु वटभूरुहस्तटचरिष्णु धाम श्रियै ॥ ५॥ किमद्भुतततेः किमुल्लसनसम्पदः किं महो- त्सवस्य कुतुकस्य किं किमु जगत्त्रयीविस्मृतेः । बभूव हृदयं यदाननविहारि जाने न तत् पुनातु लवणाम्बुधे सविधचुम्बि किञ्चिन्महः ॥ ६॥ अधीनमिति यत्कृपानिमुखमित्यशेषोपमा ससङ्ग्रहमिति द्युतिः प्रणयपूर्णमित्युत्सवः । अजस्रमनुशीलयत्यधिकलुब्धमित्यक्षित- द्वटाव निरुहस्तटीघटितधाम धामाश्रये ॥ ७॥ यदीयरजसां गणः कबलितोडुवासां गणः पतत्यमिततारकप्रियकरच्छटाकारकः । सुधां किरति यत्कलाकरपुलाकराशिर्दृशो- स्तमम्बुधितटीचरं कमपि कान्तिसारं भजे ॥ ८॥ सुधांशुमयमाम्मुसुमांसलमृजं सुधारासुधा- विधौतमतिनिर्मलप्रबलकौमुदीप्रोत्थितम् । परस्परविघर्षणैर्दहितशार्मणस्रोतसं भुवि क्वचन पुञ्जितं मधुरिमाणमन्तर्भजे ॥ ९॥ प्रतिक्षणरतिक्षणप्रदमुरारिपादद्वयी- विहारसुखसञ्चितद्रढिमनीलशैलद्रवे । अपाकृतबलस्त्रपाभरजयाय मादृङ्मनो- द्रवं विरचयन्मदं मधुरिमा स कोऽपि क्रियात् ॥ १०॥ वदान्ययशसो जगद्विजयगर्वगम्भीरिमा तुलाकणकलङ्कितानवसरः क्षमासम्पदः । महोर्मिभरिताद्भुतस्तबकिता कृपाचातुरी तुरीयपुरुषार्थदं जयति मर्म शर्म श्रियाम् ॥ ११॥ दृशोरमृतवापिकामधुरिमैकधाराधरे घनप्रमदकन्दलो वपुषि पानबाहुद्वये । भवामयपयोनिधेस्तरणसेतुरव्याहतं पदं मनसि काचनाचरतु सा चितश्चातुरी ॥ १२॥ मदंहसि मदं हसत्पलमनूननानैनसां प्रचण्डिमपिचण्डिले मरुति हिण्डमाने मुहः । चलत्पतितपावनाधिपपतातिकास्तम्भकृ- त्किमाततभुजद्वयः स मयि निर्दयः किं भवेत् ॥ १३॥ परे तपति विक्रमाह्वयनिदाघचण्डातप- व्यथादलनकेलिकौतुककदस्ववानम्बुदः । क्रियाज्जलधिकूलभृन्मुदितभाव्यलक्ष्मीवधू- प्रसाधनविधौ हरिन्मणिजदर्पणस्तर्पणम् ॥ १४॥ सखे किमुपलभ्य कां ननु दशां भजे वेद्मि नो परस्परमिति ब्रुवद्वचनसत्यतासिद्धये । निमज्ज्य सुखनीरधौ न हि बहिर्ययौ दृङ्ममनो- द्वयं यदवलोकने तवलोकवाञ्छास्तु नः ॥ १५॥ दुरुद्धरमहाधमाधिपतिमादृशोद्धारणा- तिभारगिरिविघ्नवन्मधुरिमाब्धिजीचिप्लवः । जगन्नयनभाग्यवैभवमहौषधीवाधव- द्वयाद्रवमयोदयः स्फुरतु कोऽपि मन्मानसे ॥ १६॥ महोत्सवकरम्बितामितरगन्धशून्यापर- प्रमोदमयसृष्टिमुल्लसितलोभकोशं दृशोः । अकण्टकविलुण्ठनापणमनश्वरश्रेयसां मुहुर्मुहुरहं महोघनमहोज्ज्वलं कामये ॥ १७॥ कलङ्ककपटस्फुटोदररजच्छटापङ्किलं यन्दाननसुधाम्भसः कलुषहृत्पटीमण्डलम् । धिनोति वसुधां सुधामयमयूखमाली मुहुः मम प्रमददोहनः स भवताज्जगन्मोहनः ॥ १८॥ यदाननसुधाकरद्युतिसुधाधिपानेच्छयोः मुहुर्विवृतसर्वतोमुखमतित्वरं धावतोः । अनाविलमणीमयाभरणमन्तरायस्त्विषा भवन्नयनयोर्ममाभयनयोदयं सङ्क्रियात् ॥ १९॥ सपत्नविरहो महोल्लसितमाधुरीसम्पदां सहासननवोत्सवो निखिलमोहलक्ष्मीततेः । परप्रमदकन्दलीवलदमन्दलीलाभरः स रक्षतु पुरस्सरः सरसिजस्रजश्चक्षुषा ॥ २०॥ पराजितवराकरक्तकनवौष्ठलेखाकरः श्रिया विमलनाकरक्षणशिलाविलासाकरः । मुखेन हरिणा करम्बितसुधांशुनिन्दाकरः स मेऽस्त्वघनिराकरः खलु गृहीतपद्माकरः ॥ २१॥ कृपालुकुलमौलिना सपदि येन सम्पत्तथा वनीयकमनीयतापदतनूरुचिन्तापदम् । शितिक्षितिमहेन्द्र हे शरण शून्यताशालिनां गणे सुरतरूपमोचितमहे भवं ध्यायताम् ॥ २२॥ श्रियं च सुहृदे ददद्वितरसन्मतिं भूपजा- ङ्गणे सुरतरूपमोचितमहे भवं ध्यायताम् । जबाधरदरस्मितं मुखरुचा महेन्द्रप्रभा- करम्बिततमालसारसदृगन्तरं गाहताम् ॥ २३॥ दिशं विरचयन्महो विपुलबाहुपुष्पावली करम्बिततमालसारसदृगन्तरं गाहताम् । अरे हृदय यः सुधारसनिधानवेणुध्वनि वनेजनयनाशयातनुतनुतराधिकारङ्गदम् ॥ २४॥ तमीक्षणनटं सकृत्तटवतीशतीरस्थली वनेजनयनाशयातनुतराधिकारङ्गदम् । प्रपन्नपरिपालने पतितपावने पाटवी पवित्रपदपङ्करुटपतनपूतपाषाणकम् ॥ २५॥ पयरसुपरिपन्थिपीडितपदः स पाता प्रभुः प्रियं प्रतनपूरुषः परमपुण्यदः पूरयेत् । महेन्द्रमणिमञ्जुतां मलिनयन् महोमण्डलैः मनोहरमहामहामधुरमर्मणां मर्दनः । महीध्रमयमन्दिरो मनुजमत्ततामञ्जरी मधुर्मथनकृन्मथोर्मसृणयेन्मदीयां मतिम् ॥ २६॥ उदञ्चितसमुच्चकोरकरुचिप्रसूनस्मितं- स्फुरत्तरलतातिखेलदलकान्तभालास्यभृत् । स्वरूपमिह ते न कः प्रकटवासवेलावने जजल्प कुशलान्यनल्पय मुकुन्द कल्पद्रुम ॥ २७॥ सुधारसमयोदयं मुहुरुदञ्चयन् यः स्वरू- पलक्षणरुचिच्छटापटिमपूरिताशातटः । धनाञ्जनरुचिं दधाति बहुधा नवैराश्रितो महोभिरनिशं दिशेत् कुशलमम्बुजाक्षोऽम्बुदः ॥ २८॥ अरङ्कुधरधामवन्नरजनीमहोल्लासभृ- त्कलापचयपूर्णविग्रहमहः श्रिया भास्वरम् । नकैरवगतां मुदं दिशति यन्नदीनोदये पराङ्मुखमहं भजेऽद्भुतसुधानिधिं धाम तत् ॥ २९॥ अनुक्षणरसार्द्रतां सृजति यो यदीयं वल- द्विनोदकमलं वपुः कलयतोऽपि यस्योदयः । न चन्द्रकिरणोच्चतामपि च ताडितालोकस- न्तनिर्यमनुमोदिता स्मर तमद्भुताम्भोधरम् ॥ ३०॥ तुलानवसरोजबानवमरो जवामौष्ठदृ- ग्घनाञ्जनकलापगञ्जनकलापगर्हच्छविः । भुजायुगमहोकचायुगसहोरुचातुर्यभा- ग्भुजन्मदवलम्बतां मदबलं दृढार्तेर्हरेत् ॥ ३१॥ भविष्यदरुणानुजध्वजवियोगचिन्ताशुचो विभिन्नशितशैलभृद्गलितरक्तधारोपमम् । शिवं दिशतु नीलभूधरविलग्नसोपानभू- पतद्बहलतूलतुन्दिलविशालशोणांशुकम् ॥ ३२॥ हृदामितरवृत्तिभिः सह विधूतमूर्तिक्षणं समं कमलकोरकाकृतिकरैरुदस्तं ततः । स्खलत्तदनुपीठतः सह सहस्रनेत्रोदकैः क्रियात् किमपि मन्महः श्रियमनारतं तन्महः ॥ ३३॥ नदेशनिनदाधिपल्लवितलोककोलाहला स्फुटार्तिविनिवेदनाश्रवणसावधानः किमु । सलीलसवनस्थलीगमनकौतुकोपक्रमे तिरोवलितकन्धरो धरधुरन्धरोऽस्तु श्रियै ॥ ३४॥ जगद्विहरणोचितस्वतनुसङ्गहासाङ्गतो- तरङ्गरुचिरङ्गससङ्ग्रहविधित्सया किं धुतः । गमोत्सवसमुत्सुको द्यतुमहं ह सारंहसा बलान्यधवलावनीधरवनीवसन्तो विभुः ॥ ३५॥ प्रमोदजलधौ निमज्जति मनो जलार्द्रा दृशः कदम्बकुसुमश्रियं हरति वर्ष्म बद्धोऽञ्जलिः । प्रधावति जयध्वनिर्निपतितं शिरोभूषणे स कोऽपि समयः क्रियादिति चरित्रचित्रः श्रियम् ॥ ३६॥ पुरा परिचितेतरप्रणयचातुरीं कस्यचि- न्मतिं नवकुमुद्वतीमभिलषन्तमालिङ्गितुम् । वहन्तमवरोहणं किमु कलाकरं तं भजे शितिक्षितिधरः स्खलद्विपुलगण्डशैलोपमम् ॥ ३७॥ शनैरतुसरत्तरप्रमदवारिपूरेक्षण- प्रमुक्तजनतेक्षगप्रकरसानुरोधः किमु । स्वकीयचरणद्वयीविहरमाणभक्ताशय- व्यथालवविशङ्कितः किमु मृदु ब्रजन् पातु सः ॥ ३८॥ अनाथजनतार्पितं भरणभारमाविर्भव- त्कृपादरमुपादेत् किमु विलासयात्रालसम् । दरोदितशिरोनतिः क्वचन चारु गारुत्मत- प्रभालधिनकारु तद्भवतु दारु कारुण्यभाक् ॥ ३५॥ विपन्नजनतावनप्रचुरधावनत्रासतः सदारतिकरक्षणव्यतिकरस्पृहोल्लासतः । विलम्बमवलम्ब्य चुम्बति नितान्तधीरागति- र्यदीयपदसारसं समदसारसङ्गं हरेत् ॥ ४०॥ विधूतिमभितो दधद्बहुविधां मुहुर्मादृशा- मनुद्धरणदुर्दमाद्बहलदुर्यशःकर्दमात् । समुद्धृतिविधानकृन्मुरहरस्य लोकोत्तरो जयत्यतितरां हरेरपि हरेः प्रयाणोत्सवः ॥ ४१॥ मुहुः परिजनोत्करैर्धृतगुणैः कृताकर्षणो नरप्रकरवीक्षितः सकरतारकोलाहलः । गृहीततनुरुत्तरैरलसयानशीलोऽवतु ब्रजेशपुरनागरीवसनतस्करो दुष्कृतात् ॥ ४२॥ सुखाम्बुधिगभीरतावकलनादिवोर्ध्वस्फुर । द्भुजाधिविनिवेदनाप्रवणलोकसन्तानकम् । मृदङ्गरवरङ्गतुङ्गिमतरङ्गिघण्टारवं भजे पशुपदारदृक्पतनपात्रयात्रोत्सवम् ॥ ४३॥ महीतलमहो जगद्विजयवादिनिःसाणज- प्रणादभरनिर्भरभ्रमधुरीणसन्नाहिनम् । भजे चलपरेतराट्पतितराज्यधैर्याचल- स्खलत्पृथुशिलारवप्रतिममङ्घ्रिघोष हरेः ॥ ४४॥ स्वतः प्रसरणोत्सुकामरुणचेलभामेलना- दश‍ृङ्खलितखेलितां नवसुधांशुधारोन्मदाम् । विधूननपम्परोदयविधूतसाम्यासनां भजामि वदनद्युतिं मदनमोहनस्य प्रभोः ॥ ४५॥ करोद्धरणवाञ्छया करिवरस्य गाढत्वचा- वगाढसरसीमिलन्मलिनकण्टकैः पीडनम् । नतोन्नतनिजाङ्गजङ्गमतयेव संसूचय- न्युपाधिविगलत्कृपानदनृपालपादोऽवतात् ॥ ४६॥ कनत्किसलयावलीसुललितप्रभारामव- न्नवारुणरुचारुणेक्षणविपत्त्रियामान्तवत् । महेन्द्रमणिमानसम्पदणिमानमानर्तय- ज्जयत्यतिलसज्जवाविजयसन्जवासो महः ॥ ४७॥ वपुर्लवणिमोर्मिषु प्रतिफलन्निजास्यप्रभा- वलोकनबलोत्थिता मम विमोहिता नोहिता । भवेदिह महाधमोद्धरणपात्रयात्रोदये मुरारिरिति चिन्तयन् किमु समावृताङ्गोऽवतात् ॥ ४८॥ अये हरिपदद्वये हृदयखेलदेलातिगं तदीययुगपद्गतौ बत कुतो विमर्शस्तवः । यतस्तदपदोषमानसपदं वदन्ति त्वया विमृश्यमिदमेव यद्भवति विभ्रमश्रीर्गतिः ॥ ४९॥ मुकुन्दमुखवापिकाजगदपूर्वलक्ष्मीसमु- द्नमाग्रसरबुद्बुदप्रतिममिन्दुबिन्दुव्रजम् । प्रफुल्लतरमुल्लसद्भुवनमोहवल्लीनव- प्रसूनवलयभ्रमं प्रबलयन्तमन्तर्भजे ॥ ५०॥ दुरापरमणीयमारमणवक्त्रकान्तिच्छटा- वलोकनवलोभतः किमु शिरस्तटोर्ध्वं गता । मदीयनयनायनीभवतु कापि यात्रोत्सवो- त्सुकस्य परमेशितुश्चरमचुम्बिनी पट्टिका ॥ ५१॥ जनार्दनदृशोर्भृशोल्लसितपुण्डरीकोत्करा- धिराज्यगरिमोपरि स्फुरितचामरोड्डामराम् । भजे फणिफटाच्छटानटललाटसीम्नि भ्रुवोः स मां विलसितामनाविलसिताभ्ररेखाद्वयीम् ॥ ५२॥ हरेर्गमननिस्वनैः शमनयातनानिःसर- न्मुरारिपुरसम्मुखप्रबलपापिनां विघ्नदौ । विघातविनिवारणं निगदितुं किमु द्वाःस्थितौ विहायसि विहारदृक् क्वचन चक्रभृत् पातु नः ॥ ५३॥ नृलोकविषदोल्लसत्सुकृतजालबद्धं बहि- र्गतं श्रुतिशिरोऽम्बुधेः किमपि रत्नमभ्रप्रभम् । महीपटतटस्थलीललितलोचनालङ्क्रिया प्रियाणि च फलं क्रियाद्वसनदामनद्धो हरिः ॥ ५४॥ ललाटतटभूनदपटुकृरग्टकनकदल- न्नवीनशतपर्विकास्तबकमिन्दुबिन्दुत्विवाम् । तरङ्गनिकरं गतावधिमधिश्रयद्विस्मृतं प्रयातु वदनं न कम्पवदनन्तशोभाम्बुधः ॥ ५५॥ गमक्रमकुतूहली क्व च दधद्ममी विभ्रमी समुद्धटितभङ्गिमन्दिरकपाटवरपाटवम् । गुणालयमृणालिनीकुसुमकान्तिकीर्ति श्रिया- मनध्ययनलोचनः कलुषमोचनं नः क्रियात् ॥ ५६॥ नखद्युतिविलासवैभवलवार्थिकोटिक्षयां करप्रकरमाधुरीपदनिपातदैन्यग्रहात् । ध्रुवं म्रदिमशालिसुन्दरगतिर्गतिर्मादृशां दृशा विशदपुष्कर द्युतितिरस्क्रियादुष्करः ॥ ५७॥ अगाधनिजमाधुरीधृतनिमञ्जनायाः श्रुतेः विकर्षणवशादिवोत्तरलमौलिभिर्मानवैः । गृहीतमरिजैत्रयात्रिकमिवाखिलाशाचरं भजे मुरजयि क्षणे मुरजघण्टिकानिस्वनम् ॥ ५८॥ निमेषकणिकाविपद्युवतिदर्शनं दुष्क्रिया- द्विषन्विविधविभ्रमो नृपचमुर्जुगप्सास्पदम । यदन्यदखिलं तदप्यपथमेव यस्मिन् दृशो- र्मुकुन्दवदनस्पृशोः स समयोस्तु नः श्रेयसे ॥ ५९॥ विलोकितमितस्ततो विरचयग्निवान्वेषय- न्ननाकलितमादृशः किमु नताननो लज्जया । मदीयपतितावलीनृपतितासहस्रासहा सहस्रदलदा ? सर्षदविलोचनः सम्भवेत् ॥ ६०॥ मुहुर्मथितलोचनोच्चयविषादचक्रं चर- त्तमालतरुमस्तकोत्थितसिताब्जमत्यद्भुतम् । चलद्दलितकज्जलद्युतिमुरारिमौलौ मिल- त्त्विषा धवलदीधितेः प्रबलमातपत्रं भजे ॥ ६१॥ चलन्नृहरिभूतिवैभववनीसमुद्भेदव- न्महाद्भुतमहीरहबृहत्पलाशोपमम् । स्मरामि दियदुन्मुखं किमपि मण्डलाकारभृ- त्पटेन घटनाद्धनाघनघटानिभेनोद्भटम् ॥ ६२॥ परेतपृतनापतिः पतितमण्डले चण्डता- मखण्डबहुदण्डदां प्रकटरान यदाकर्णनम् । गतेषु पतितेषु पूजनजनम्रतासम्भ्रमं त्रपाबहलमावहत् स हृदि गाहतां काहलः ॥ ६३॥ धनांशुमघनाशिनाकृतिघनाघनाडम्बरं विलोक्य विहितप्रडीनगतयोऽगतीनां गतेः । दृगम्बुजविहारलोभत इवापतन्तः स्थित- च्छदाश्चलदुपर्यधो जयति चामराणां कुलम् ॥ ६४॥ प्रहारशकलीभवन्नमुचिवैरिकैरोटभू- जुटन्मणिगणोच्चलत्तरझणक्रियामांसलः । पलायनपरायणव्यसनवारहाहारवा- नवाप्य कलितोन्नतिर्जयति कोऽपि वेत्रध्वनिः ॥ ६५॥ जगत्त्रितयभानकृद्यदुकुलप्रदीपप्रभा- प्रभासनसमुद्भवस्मयरसादिवोद्ग्रीवताम् । गतैः किल शिखाशतैर्घनतमास्तमाघस्मराः स्मरामि धरणीपतेः सरणिदीपिका दीपिकाः ॥ ६६॥ रसास्थितिवशाकृपानिधिकृपाकटाक्षास्पदं ततो विधिबलावरजमौलिसीमां गतः । अनाप्तजलजाक्षवीक्षणलवस्तदाकाङ्क्षया विनम्रवदनोघटस्त्रुटितजीवनः पातु नः ॥ ६॥ शरद्विमलकौमुदीमयमहीमहाह्लादभू- धरोपरि परिस्फुटामृतझरीव लीलावहा । सुधाधरणिरोहणत्रिजगतीमनोमोहनो- त्तमाङ्गतलनिर्गलत्सलिलनिर्झरी पातु नः ॥ ६८॥ स्वजातकुसुमस्त्रजामसमभावलावण्यकृ- न्मुरारिमुखहक्पदाम्बुजसमुच्चलश्रीलवः । अवाप्तुमिव माधवाननविलोचनाङ्घ्रिद्वय- क्रमभ्रमणविभ्रमप्रियमदभ्रमम्भः क्रियात् ॥ ६९॥ मुखेन्दुमथ लोचनं स्वसुतवैरिभावान्निजा धिपाभरणलोहितोपलकुलश्रियो लुण्टनात् । स्वशैत्यविजयाद्रदच्छदहृदोश्च सीमेत्यज- द्भजद्भुवनपावनं चरणमम्बु विष्णोर्जयेत् ॥ ७०॥ वहन्तमलमम्बुदं स्ववहनाधिकस्निग्धतां पपौ दलितकालियो ललितकालिमाडन्बरैः । रुषेत्वपनयत्पयोजनयनस्य नैल्यं मुहुः पयो जनयतु प्रियाण्यनयतुष्टिभाजो मम ॥ ७१॥ निपीय वदनाम्बुजोदरमरन्दवृन्दं हरेः पदाब्जमधुलालसागतमिलिन्दमाला किमु । विधौतमुखवर्णकैः शितिपुषां पयोविनुषां ततः सपदि पातु काचन कृपालुतः पातुका ॥ ७२॥ जगत्त्रितयचित्तमोहनमनुपदेशाय किं कपोलतलचुम्बिनः कति च केचन श्रीपतेः । विलोचनपिधायकाः किमतिलुण्ठनाय श्रियां दिशन्तु मदनामयं वदनवारिपूरा हरेः ॥ ७३॥ कचिद्द्रुतगतिश्रियो हृदयचौर्यभीता इव क च स्थिरतरा जगन्नयनरुद्धमार्गा इव । दिशन्तु मम सन्ततं स्खलनशोभिताम्भोधिजा- धिवास्यशरदिन्दवः कुशलमम्भसां बिन्दवः ॥ ७४॥ लसद्वसनदामसन्नहनयन्त्रणानर्गल- स्खलत्कमललोचनाननसुधांशुपीयूषवत् । मिलन्मलयसम्भवद्रवकदम्बवल्गुच्छवि च्छिनत्तु दुरितामयं किमपि वारिधारामयम् ॥ ७५॥ विलोचनविलुण्ठितामृतमुखालयोद्घाटना- तटद्वयनटद्विशङ्कटकवाटयुग्मोपमम् । भजाम्यभिषवोत्सवोत्तरतरङ्गिकेलीकर- क्रियस्य कमलाकरग्रहकरस्य कर्णद्वयीम् ॥ ७६॥ धनः क्वगतमात्मनो मदमदभ्रमाहूतवान् परेतसदृशि द्युतौ प्रतिकरोति पाथोरहम् । रसातलगतं विधुर्मधुरिमाणमाकृष्टवान् यदङ्गनयनाननावरणतः स्वपन् पातु सः ॥ ७७॥ अखण्डसुखसम्पदानयनयोः शितिक्षमाधर- स्थलीसुषमया निशारतिगुरोर्विषादश्रिया । समं समदमुत्थितः प्रभुरभूतपूर्वं क्रियात् कृपाविपुलसम्पुटप्रतिमदृष्टिरिष्टं मम ॥ ७८॥ प्लवप्रवररामणीयक इवाभिलुब्धोत्थितं सुधामयमरीचिमण्डलपिचण्डमध्यात् किमु । घनप्रमदमर्मतः किमु समुद्धृतं शर्म तत् करोतु करुणानिधेरभिनवाक्षियुग्मं गम ॥ ७९॥ अनादृतजगस्थितेर्निजरथैकवासोद्वल- त्कलेश्च रुचिसन्ततेः स्वरथसन्निवेशावनीम् । विमृश्य विभजद्धृवं रथतटभ्रमीविभ्रमि क्रियान्मुहुरदभ्रमिष्टचयमभ्रमित्रं महः ॥ ८०॥ मनोवचनयोगिचिन्तनपरिच्युतश्रीधरा- धिरोहणमहोत्सवोन्नतनिमित्ततां दर्शयन् । तुलामुचि रुचिच्छटापटिमविक्रियात्पातक- व्यथाहररथाङ्गभृन्मम मनोरथानश्लथान् ॥ ८१॥ रथो मुरहरत्विषा विकसता विलासेन सा सलोचनचयेन सप्रमदसम्भवेनाम्भसा । तदप्यमितवीचिभिर्गहनतां जगाहे यतः स तर्पयतु दर्पहृत् कलिमलस्य कोऽपि क्षणः ॥ ८२॥ स्वकीयसुरनिम्नगाप्रभृतिलीर्थराजीनृपा- भिषेकमुकुटं शिरस्यसितशैलचूडामणिम् । अधोऽप्यमरधोरणीमुकुटधाटिकामावह- द्रथोपरि परिस्फुटं किमपि पीठमन्तर्दधे ॥ ८३॥ हरेर्यदभवत्त्विषां भुवि तदेव तादृक् पुन- र्वदेन्ननु वदेन्न तद्यदभवद्रथारोहणे । विलोचनचयोत्कथोपरि विभावयत्तच्च किं शुभानि यदिदंविधं तदनिशं विधत्तां महः ॥ ७४॥ किमद्रवमयी सुधा न धवलाकृतिश्चन्द्रिका न बिन्दुपतनान्विता प्रमदवृष्टिरत्युन्नता । शताङ्गमधिरोहतः स्फुरतु कापि केलीमन- स्तटे तटविटप्यधः स्फुटकृटी नटस्य प्रभोः ॥ ८५॥ विकीर्ण इव कुत्रचित् कचन दुर्मदोर्मिक्रमः क्व च स्तबकबन्धुरः क्वचन पूरधौरेयकः । क्व च प्रबलवृष्टिमान् मुहरुदेति यात्रोत्सवः स चक्रधरचक्रिचङ्क्रमणकेलिकालोऽवतात् ॥ ८६॥ स्थिरश्रवणदिग्गजव्रजकपोलदानापगा- वगाहगतसम्भ्रमभ्रमरवाञ्छितश्रेयसम् । भुजङ्गजगदम्बरावरणदुर्दमाडम्बरां भजामि हरिचक्रचङ्क्रमणघुङ्क्रियाघोषणाम् ॥ ८७॥ किमु स्वभयविद्द्रवद्दुरितवर्गमार्गं दद- द्वलेन दलयन् मलं नलिनजाण्डभाण्डोदरम् । समुद्धतघनाघनध्वनिनियुद्धबद्धादर- स्त्रिविक्रमरथारवः श्रवणसीम्नि विश्राम्यतु ॥ ८८॥ अदृद्यदुदधेस्तटीनिकटजन्मजन्मावली- शिरःसुजनजन्मना पदमदायि दृक्पाटवम् । पुनर्यदभवन तद्वचसि यत्समारम्भणे स चक्रिगमनक्रमः कमलचक्षुषो रक्षतात् ॥ ८९॥ जहाति जननोमनोनयनरङ्करत्नं शिशुं शिशुर्न जननीस्तनेऽर्पयति चित्तवृत्तिं मनाक् । प्रियस्वजतिवल्लभो missing in the manuscript प्रियां रथे चलति यत्र नः सृजतु रक्षणं स क्षणः ॥ १०॥ प्रमोदजलधौ निमज्जति मनोजलार्द्रा दशः कदम्बकुसुमश्रियं हरति वर्षबद्धोऽञ्जलिः । प्रधावति जयध्वनिर्निपतितं शिरो भूतले स कोऽपि समयः क्रियादतिचरित्रचित्रः श्रियम् ॥ ९१॥ विनिर्मितबहूत्सवैः परमसम्पदैः स्यूतव- द्विभूषितवदद्भुतैः समुपलिप्तवत् कौतुकैः । करिष्यति कदा दृशोरमृतसेचनं मेचका- चलाधरकलानिधेरथ विहारकालो मम ॥ ९२॥ अखण्डमहिमा भुवो भरतखण्डसीमास्मयः पयःपतितटीभुवः सुकृतिनः सपत्नोदयः । पुनर्जनजनुर्जुषां किमपि वैभवं चक्षुषां हरेः स्फुरतु मानसे मम स कोऽपि यात्रोत्सवः ॥ ९३॥ अहिस्थलतलाद्बिहिर्न हि महीजनैधिक्क्रिया जयध्वनिभरस्फुटद्गगनमेव यस्यायशः । मनः सदनमस्तु नो नदनरेन्द्रवेलावनी- वनीभवनवासिनः सरभसक्षणः सक्षणः ॥ ९४॥ कुलोद्भवकलावतीजनपरिभ्रमः सत्क्रिया- कथारथमहश्लथा यदि च सा पशुव्यापृतिः । चिरातुरजरावतामपि हि मन्दतादूषणं यतः स तनुतां शुभं वनजनेत्रयात्रोत्सवः ॥ ९५॥ विपन्मुखसमुद्रयद्ध्वजमपातयत् पातकं सवेगमुदसारयत् परिकरं गदानां गणः । रहस्युदधिवन्मुहुः कमपि मन्त्रमन्तर्व्यथा जनोऽयमनुयातुमिच्छति हरेः स पायान्महः ॥ ९६॥ समं निजगृहाङ्गणद्रुमफलेन निःश्रेयसं विरिञ्चिपदवीकटीकनकवद्बिडौजःपदम् । मुखोदरचरत्सुधाकबलवन्महापापिनां ययाजनि भयानि सा हरतु कापि यात्रा हरेः ॥ ९७॥ रथस्थितमुकुन्दसुन्दरमुखेन्दुसन्दर्शन- प्रवाहविरहादिव स्वरवकैरवार्तस्वना । लुठत्यपि च तिष्ठति क्व च शुचातिमोहेन या न यातु मम सा विलोचनपथाद्रथाङ्गावली ॥ ९८॥ नितान्तपतिता इति प्रथमतः प्रभूतप्रथा रथाङ्गिपदभावतः सुगतयो भवामो वयम् । इति प्रतिजनं घनस्तनितकैतवेन ब्रुव- द्भजे मधुमथो रथोच्चलितचक्रचक्रं हृदि ॥ ९९॥ मुकुन्दपदचुम्बनान्निगमशूलिमौलीन्दिरा- कुचार्कतनयातटीमुनिमनस्सहाध्यासिनि । अनेकसुकृतश्रिया नयनयोर्विहारक्रिया भविष्यति कदा रथे मम पृथाभुवः सारथे ॥ १००॥ सुखैर्ननु तनूततेर्मनुजनुस्समूहैर्दिशां मुरारिमुखमाधुरीझरभरैश्च यस्मिन् दृशाम् । भिदानकिमहो महोऽवतु विलासहासप्रभा प्रवालमणिदोलिकानिभरदच्छदस्य प्रभोः ॥ १०१॥ पतिः पतितसौहृदो मयि पितापि तादृक् सुतः सुतप्तहृदयोदयोद्गमहिमा हि माता न मे । मनः श्वशुरयोरयोमयतिले बलं मे बलं भवन्निति कदागदी तदितनातनः पातु नः ॥ १०२॥ चमूकरिणि मन्दता क्वचन रागभङ्गोद्गताः सुगीतिषु नभः पतत्कुसुमकेष्वनुत्कण्ठता । शताङ्गचरणेष्वधोगतिरियंविधा यत्र त- द्भिनत्तु भवपीडनं मधुमथो रथक्रीडनम् ॥ १०३॥ रथप्रवरमेदिनीधरतलावनीसम्भव- न्नवीनवनलेखिकावलिकलिप्रगल्भप्रभाः । जनास्तनुजिताञ्जनाः कलितरज्जवो यत्र तं शताङ्गसमतां गतेः स्मरतु चित्तमत्युत्सुकम् ॥ १०४॥ अनर्गलबलेन यन्मधुरिमा चतुर्दिक्तटीः प्रपूरयितुमुत्सुको झरचतुष्टयं पुष्टयन् । तटिद्द्युतिदिडम्बकृद्वसनपट्टिकाकैतवा- हृदातु मुदमिन्दिराहृदयनन्दनस्यन्दनः ॥ १०५॥ इदंविधविलासिनीत्यहृदयत्वमत्युन्नतं नितान्तमहतीति चेद्वहति रम्यतां ग्राम्यताम् । शिरःशिखरलङ्घिनीत्यनुभवानुलापः कथं रथं श्रितवतो गतिप्रमदसन्ततिर्वर्ण्यते ॥ १०६॥ मनांसि सुषमासमाधवरथोत्तमस्तामथो जनस्तमपि तं पुनः प्रमदसिन्धुवीचीरयः । चकर्ष नितरामतो जयति यत्प्रकर्षादयः स नः सृजतु गुत्सवत्कुशलमुत्सवः श्रीहरेः ॥ १०७॥ जगद्विजयिमञ्जिमोत्करवरोपलब्धिर्नव- प्रसूनशरचातुरीपरिणतिर्गुणानां जयः । स यत्र तरुणीगणः प्रणयपूर्णलीलापणः स मेऽस्तु कृतरक्षणः सरसिजेक्षणस्य क्षणः ॥ १०८॥ दयामधुरिमामृतप्रमदभुक्तिमुक्तिश्रियां परस्परगुरोर्विनिस्सरणसम्भ्रमाडम्बरः । मुहुर्जयति यत्र नो हृदि भवन्तु ताः सङ्कटाः फटाधरपतेः फटानटनकृत्कटाक्षच्छटाः ॥ १०९॥ अपाङ्गतटरिङ्गणस्मितवचांसि वामभ्रुवोऽ- नुगच्छति यथा यथा कुलभुवस्त्रपाचातुरी । कपालिकमलाश्रिता ननु तथा तथा लीलयाऽ- नुगच्छति यदीयदृग्द्यतु मदीयदुःखानि सः ॥ ११०॥ स्पृशन्नमरमण्डलं प्रमथनाथसङ्घट्टितो रमास्यपरिरम्भकृद्भजनभाजि मज्जन्मुहुः । अनाथजनसन्ततौ विहितसीवनः श्रीवन- प्रभूतनयनस्य पश्यतु समां दृगन्तः कदा ॥ १११॥ अखण्डमणिमण्डनत्विषि करावलम्बं द्विष- द्दिशो हसदनेहसोऽपि च सहायभावं मुहुः । किमीहविकसन्मनोनयनमुल्लसद्दुर्लभं रमारमणरामणीयकमहर्निशं भावयेत् ॥ ११२॥ मिलन्निखिलमङ्गलावलिनिवाससीमार्पणा- मधश्चरणयोर्दधत्प्रपदचर्वितोर्वीतलम् । यदीयनृकुलं क्वचिन्मुरहराननश्रीसुधा- नुधावि नयनं दयाजलधिमन्यानं भजे ॥ ११३॥ निराकृतिपुराकृतप्रचुरपातकान्तः पुनः- प्रवेशविनिवारकार्गलयुगाभबाहुद्वयः । कचावचितपुण्यपादपफलाभिरूवोल्लस- द्भुजा यदवलोकिनः क्वचन धाम तत्कामये ॥ ११४॥ कियद्गगनमुद्तानललता यदा सङ्कटा धरा यदि नरान्दिश क्वचन पुञ्जदीपत्विषः । ततादिविततारवं यदि जगत्कृशं किं सखे ब्रवीमि मुरजिद्दिनात्ययशताङ्गयात्राश्रियः ॥ ११५॥ अनादिमृदुमर्दलैरथ विहारितादृङ्महो मुदं हृदयमस्त्रवन्नयनयोर्युगं तादृशम् । अपायि पुरुषैर्दिशां कुलमधं च यस्मिंस्तथा स कोऽपि समयः समुत्सवमयः प्रियाणि क्रियात् ॥ ११६॥ पिचण्डपरिपूरकाधिकनिपातपीताम्बरा- ननद्युतिसुधाबहिर्गमभयेन बद्धानना । सरोरुहमयी स्वनर्तनमनोज्ञरूपालिका हरेरलकपालिका भवतु पालिका मादृशम् ॥ ११७॥ सारसामर्थ्यसंसारसाधो यशः सारसानल्पकासारसामन्त हे । सारसायब्जवासारसा त्वां कृपा सारसानन्ददा सारसान्द्रद्युते ॥ ११८॥ सुधामारामाराधननिरुपमारातिभयद स्वनामारामाराजिषु तरुणमारायित भवान् । अकौमारा मारालचयसुषमा राजतयशः श्रियामारामाराशयतु रमाराजधरणेः ॥ ११९॥ नवमालिकालिनवमार्थकीर्तिम- न्नवमानितेन्द्रनवमाष्टदिग्गजाम् । नवमारकान्त्यनवमातिदानव- न्नवमामिलाधनवमापि मत्कृपाम् ॥ १२०॥ धनव्ययोपमानवर्जितोर्जितार्जमानव- द्भटच्छटाक्षमानवद्यकीर्तिबंहिमानवः । महोऽप्यहो रमानवर्धतेनसत्तमानव- न्नवर्णहीनमानवप्रभोविभासमानवः ॥ १२१॥ पदांशुखेलनखरांशुसम्पदा पदाहपुष्पायुधकोटिकिम्पदा । पदाय मूर्तिर्भवतु व्रजापदा पदाप्तवृन्दावनचन्द्रिकापदा ॥ १२२॥ समारसम्पद्व्रजभूरमासमा समाजसौभाग्यकलानिवासमा । समापयन्तं शुभकर्मभिः समा समाकुलं कर्म सदद्य शंसमा ॥ १२३॥ इति श्रीकविराजकृत कृष्णस्तुतिः सम्पूर्णा । Proofread by Rajesh Thyagarajan
% Text title            : Shri Kaviraja Stuti 05 10
% File name             : kavirAjastutiH.itx
% itxtitle              : kavirAjastutiH
% engtitle              : kavirAjastutiH
% Category              : vishhnu, krishna, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-10
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org