श्रीकिङ्गृहेशस्तुतिः

श्रीकिङ्गृहेशस्तुतिः

अयत्नसङ्कल्पितसर्वलोक- सर्गापवर्गस्थितिसंविधानम् । अनादिमध्यान्तमशेषनाथं किङ्गेहनाथं शरणं भजामि ॥ १॥ अकृत्रिमानां वचसामभूमिं अगोचरं ब्रह्मशिवादिवाचाम् । अहं स्तुवे किङ्गृहनायक त्वां तथाप्यलज्जंस्तु मितं पचोक्तिः ॥ २॥ अकिञ्चनोऽनन्यगतिस्त्वदीय स्तुतिं करोमीति मतिं करोमि । कृपानिधे किङ्गृहनायकाद्य त्वमेव मे वाचमुदीरयेथाः ॥ ३॥ त्वयैव दत्तामुपलभ्य वाणीं अणीयसीमप्यतुलप्रभावम् । प्रसादये किङ्गृहनायक त्वां न चेत् कुतो मे सफलं वचस्स्यात् ॥ ४॥ अनेन जीवेन समस्तवस्तु प्रविश्य नामानि च रूपभेदैः । व्याकृत्य वीक्षावनमध्यभागे विभुं शयानं सततं भजामि ॥ ५॥ अशेषपुंसां हृदि सन्निविष्टं अनल्पशक्त्यादि गुणैर्विशिष्टम् । हृत्ताप हृत्पङ्कज भृङ्गजुष्टं देवं भजे किङ्गृहगं ममेष्टम् ॥ ६॥ श्रीशालिहोत्रार्पितशालिपिष्ट हृष्टो भवान् देवशयिष्णुरेनम् । किं गेहमत्रेति यदावदत् तत् किङ्गेहमासीत् तव सद्म नाम्ना ॥ ७॥ पद्मामहीलालितपादपद्मं पद्मासनाधिष्ठितनिम्ननाभिम् । शयानमाक्रम्य भुजङ्गतल्पं किङ्गेहसद्मानमहं नतोऽस्मि ॥ ८॥ विस्मेरमासीत् भुवनं त्वदीयं चरित्र मन्वीक्ष्य चिरप्रवृत्तम् । किङ्गेहनाथासुरकैटभादि निबर्हणार्थं किल सर्वशक्ते ॥ ९॥ गङ्गादितीर्थानि निषेव्यशंभुः सर्वाणि पुण्यायतनानि गत्वा । अमुक्तपूर्वोविधिहत्यया त्वां संसेव्य किङ्गेहपते विमुक्तः ॥ १०॥ (किं सेव्य किङ्गेहपदे) अजह्नुजानोद्य महापराधं द्विजं हि हृत्तापहरं सरस्ते । अतीतरत् कौशिकमद्भुतं त्वत् प्रभावतः किङ्गृहनाथ नैतत् ॥ ११॥ रघुप्रवीरस्य तवार्हमेतत् यथागतस्यैव सिपोर्जिघांसोः । विधूय रक्षस्त्वममुष्य दिव्यं अदाः पदं किङ्गृहनायक त्वम् ॥ १२॥ पिष्टप्रदीपान् परिकल्प्य ये त्वां हृष्टा भजन्तेऽहनिपुष्यदर्शे । इष्टप्रदायी वितनोषि तेषां कष्टोपभोग्यान्यपि काङ्क्षितानि ॥ १३॥ विकासयन् मानसपङ्कजानि विपश्चितां निश्चलभक्तिभाजाम् । प्रादुर्भवन्नासुरकैटभादि तमोरवेत्वं मयि सुप्रसीद ॥ १४॥ प्रद्युम्ननाम्ने तपसां हि धाम्ने कृपाप्रसन्ने त्वयि किङ्गृहेश । गङ्गाधिकत्वं न किमापतीर्थं हृत्तापहं वा तनयं न वन्ध्या ॥ १५॥ त्वं सर्ववित् त्वं कमलासहायः त्वमेव वेदान्त वचोऽवसेयः । भवन्तमेतं शरणं प्रपन्नाः वयं न यस्मात् परमस्ति दैवम् ॥ १६॥ पुराणपुंभावमहो विगुह्य (विगृह्य) युवत्वमेवाकलयन् सुरूपम् । उपायमस्त्वं किल धर्मसेन- सुतान्नताङ्गीमिह किङ्गृहेश ॥ १७॥ श्रीभूमिलालितपदं श्रितशेषतल्पं कल्पान्तयोग्यभुवनावनयोगनिद्रम् । श्रीशालिहोत्रशिरसाधृतहस्तपद्मं श्रीवीरराघवविभुं श्रयतां मनो मे ॥ १८॥ वेङ्कटेशकविना विनिर्मितां किङ्गृहाधिपति संस्तुतिं पठन् । दिव्यभोगमुपभुज्य मानवो भव्यरूपमवलोकयेत् प्रभोः ॥ १९॥ इति वेङ्कटेशकविना विरचिता श्रीकिङ्गृहेशस्तुतिः समाप्ता ।
% Text title            : kiNgRRiheshastutiH
% File name             : kiNgRRiheshastutiH.itx
% itxtitle              : kiNgRiheshastutiH (veNkaTeshakavinA virachitA)
% engtitle              : kiNgRRiheshastutiH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : veNkaTeshakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Thiruvallur Veeraraghava Swamy Veerarghavaswamy
% Indexextra            : (Audio 1, 2, Info 1)
% Latest update         : October 3, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org