कुशापमार्जनस्तोत्रम्
मार्जनविधानं
अग्निरुवाच ।
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयाम् ।
यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः ॥ १॥
ॐ नमः परमार्थाय पुरुषाय महात्मने ।
अरूपबहुरूपाय व्यापिने परमात्मने ॥ २॥
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ३॥
वराहाय नृसिंहाय वामनाय महामुने ।
नमस्कृत्य प्रक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ४॥
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ५॥
वराह नरसिंहेश वामनेश त्रिविक्रम ।
हयग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥ ६॥
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।
अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव ॥ ७॥
हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।
मृत्युबन्धार्त्तिभयदं दुरितस्य च यत् फलम् ॥ ८॥
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकाम् ।
गरस्पर्शमहारोगप्रयोगं जरया जर ॥ ९॥
ॐ नमो वासुदेवाय नमः कृष्णाय खड्गिने ।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥ १०॥
नमः कमलकिञ्चल्कपीतनिर्म्मलवाससे ।
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥ ११॥
दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्त्तिमते नमः ।
महायज्ञवराहाय शेषभोगाङ्कशायिने ॥ १२॥
तप्तहाटककेशाग्र(न्त)ज्वलत्पावकलोचन ।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥ १३॥
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।
तुभ्यं वामनरूपायाऽक्रमते गां नमो नमः ॥ १४॥
वराहाशेषदुष्टानि सर्वपापफलानि वै ।
मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च यत्फलम् ॥ १५॥
नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल ।
भञ्ज भञ्च निनादेन दुष्टान्पश्यार्तिनाशन ॥ १६॥
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।
प्रशमं सर्वदुःखानि नयत्वस्य जनार्द्दनः ॥ १७॥
ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।
चातुर्थकं तथात्युग्रं तथैव सततज्वरम् ॥ १८॥
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।
शमं नयाशु गोविन्द छिन्धि छिन्ध्यस्य वेदनाम् ॥ १९॥
नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।
अन्तः श्वासमतिश्वासं परितापं सवेपथुम् ॥ २०॥
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम् ।
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥ २१॥
भगन्दरातिसारांश्च मुखरोगाँश्च वल्गुलीम् ।
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥ २२॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
कफोद्भवाश्च ये केचित् ये चान्ये सान्निपातिकाः ॥ २३॥
आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः ।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ॥ २४॥
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।
क्षयं गच्छन्तु चाशेषास्ते चात्राभिहता हरेः ॥ २५॥
अच्युतानन्तगोविन्दनामोच्चारणभेषिजात् ।
नश्यन्तु सकला रोगाः सत्यं स्त्यं वदाम्यहम् ॥ २६॥
स्थावरं जङ्गमं वापि कृत्रिमञ्चापि यद्विषम् ।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥ २७॥
लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदम् ।
शमं नयतु तत्सर्वं कीर्त्तितोऽस्य जनार्द्दनः ॥ २८॥
ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् ।
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् ॥ २९॥
शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् ।
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥ ३०॥
वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ।
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥ ३१॥
वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥ ३२॥
सदा करालवदनो नरसिंहो महाबलः ।
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥ ३३॥
नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥ ३४॥
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ ३५॥
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः ॥ ३६॥
किञ्चिद्रूपं समास्थाय वासुदेवास्य नाशय ।
क्षिप्त्वा सूदर्शनञ्चक्रं ज्वालामालातिभीषणम् ॥ ३७॥
सर्वदुष्टोपशमनं कुरु देववराच्युत ।
सुदर्शन महाज्वाल छिन्धि छिन्धि महारव ॥ ३८॥
सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण ।
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ॥ ३९॥
रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्ज्जितः ।
दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोऽग्रतः ॥ ४०॥
रक्षाङ्करोत् भगवान् बहुरूपी जनार्द्दनः ।
यथा विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषम् ॥ ४१॥
तेन सत्येन दुष्टानि सममस्य व्रजन्तु वै ।
यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ॥ ४२॥
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ।
यथा यज्ञेश्वरो विष्णुर्द्देवेष्वपि हि गीयते ॥ ४३॥
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ।
शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ॥ ४४॥
वासुदेवशरीरोत्थैः कुशैर्न्निर्म्मथितं मया ।
अपमार्जति गोविन्दो नरो नारायणस्तथा ॥ ४५॥
तथास्तु सर्वदुखानां प्रशमो वचनाद्धरेः ।
अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ॥ ४६॥
अहं हरिः कुशा विष्णुर्हता रोगा मया तव ॥ ४७॥
इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः ।
अग्निपुराण । अध्याय ३१/२-४६॥
agnipurANa . adhyAya 31/2-46..
Proofread by PSA Easwaran