श्रीलक्ष्मीहयाननसुप्रभातम्
कौसल्या सुप्रजाराम! पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ १॥
उत्तिष्ठोत्तिष्ठ वागीश! उत्तिष्ठ तुरगानन ।
उत्तिष्ठ रमया स्वामिन्! मद्बुद्धिं विशदां कुरु ॥ २॥
मातर्हयाननकृपापयसां प्रदात्रि!
सूरीन्द्रसंस्तुतपदे! करुणाम्बुराशे!।
वाचां विदूरमहिमास्पद चारुशीले!
वागीशभव्यदयिते! तव सुप्रभातम् ॥ ३॥
तव सुप्रभातमधुना दयानिधे!
वरकिङ्किणीध्वनित वेदसुस्वरे!।
अमराङ्गनामधुरगान बोधिते!
दरहासभासि! तुरगाननप्रिये!॥ ४॥
कप्यासशब्दविवृतिं यतिराड्विधाय
श्री भाष्यकारबिरुदं भवदीयमूर्तिम् ।
वाण्या अवाप्य भवदर्चनलालसोऽसौ
लक्ष्मी हयानन! विभो! तव सुप्रभातम् ॥ ५॥
वेदेषु राक्षसहृतेषु विमूढबुद्धिः
प्रत्यर्पितेषु दयया भवता हि धाता ।
प्राज्ञो निवेदयति देव! कृतज्ञतां स्वां
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ६॥
आराधिता सततमेव बुधैश्च वाणी
पाण्डित्य सत्कवनभाषणशक्तियुक्तीः ।
तेषां प्रकल्पयितुमाश्रयते भवन्तं
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ७॥
वास्तोष्पतिर्दितिसुतैरपहन्यमानां
त्रातुं धिया महितया सुरराज्यलक्ष्मीम् ।
त्वां सेवते समधिगन्तुमहीनबुद्धिं
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ८॥
इन्द्राग्निकालनिकषात्मज पाशिवायु-
यक्षाधिराजगिरिशास्तव दासभूताः ।
शक्त्या तवैव हि दिशः प्रभवन्ति पातुं
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ९॥
प्राचीं दिशं भजति भास्कर एष रक्तः
गाढं तमो विगतमाविकसन्ति सद्यः ।
पूजासुमानि मधुमन्ति तवार्चनाय
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १०॥
पद्मोदरे मृदुल शीतलडोलिकायां
निद्रासुखं समनुभूय नितान्ततृप्तम् ।
एतन्मराळमिथुनं विधुनोति पक्षौ
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ११॥
तेजो जहाति विधुरुत्पलतारकाभिः
सूर्योऽम्बरं समधिगच्छति बाल एषः ।
आवाति मन्दपवनः क्रमुकीवनान्तात्
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १२॥
आदाय दर्पणमिमं कपिलां च धेनुं
मत्तं गजं वृषभराजमपां च कुम्भम् ।
त्वां सेवितुं धृतधियः मुनयश्च देवाः
लक्ष्मीहयानन! विभो! तव सुप्रभातम्॥। १३॥
आपूरयन्ति मुरलीर्मृदुगोपबालाः
गायन्ति पुष्पमधुपानविमत्त भृङ्गाः ।
अर्घ्येण भास्करममी प्रणमन्ति विप्राः
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १४॥
वेदापहार्यसुरभञ्जक! मत्स्यरूप!
मन्थाद्रिभारवह! कूर्म! महा वराह!।
श्रीमन्नृसिंह! बलिभञ्जक! वामनाख्य!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १५॥
भूभारभूतकुनृपान्तक! भार्गवाख्य!
स्वामिन्! दशाननविलुण्ठन! सौम्यरूप!।
शेषांशभूत! बलराम! विनीलवासः!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १६॥
गीतोपदेशविमलीकृत पार्थचेतः!
धर्मापदेश मृदुताखिलधूर्तबुद्धे!।
कल्पक्षये खलविनाशक! कल्किरूप!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १७॥
वागीश! वाक्प्रद! तमोहर! जाड्यनाश!
सारस्वतप्रद! जपप्रिय! वेदवेद्य!।
अज्ञाननाशक! विधीन्द्रसमर्चिताङ्घ्रे!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १८॥
गोविन्द! केशव! निरीश! शरण्य! विष्णो!
लोकत्रयेश! पर! पारग! शान्त! दान्त!।
श्रेयःप्रदाच्युत! विधिस्तुत! नित्यतृप्त!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १९॥
पूर्णेन्दुसौम्य! शिव! शान्तिद! हंस! योगिन्!
वेदान्तपारग! पुराण! शरण्य! जीव!।
जाड्यापहारि! निरुपद्रव! सर्वसाक्षिन्!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २०॥
धर्मो यदा खलजनाल्लभते स्मनाशं
संवर्धतेऽधिकमधर्म अनाहतात्मा ।
सङ्कल्प्यमामिह सृजामि न संशयोऽस्ती
त्युक्तं त्वया खलु विभो! तव सुप्रभातम् ॥ २१॥
त्राणाय साधु विततेर्मम दर्शनेन
दुष्कर्मचारनिरतान् विनिहन्तु माशु ।
संस्थापनार्थमपि धर्मततेर्भवामी
त्युक्तं त्वया खलु विभो! तव सुप्रभातम् ॥ २२॥
संशुद्धधीर्घनविभापरिपूर्णदेह!
विज्ञानदानविधये दृढबद्धदीक्ष!।
कारुण्यपूर्ण! जय! देहभृतां शरण्य!
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २३॥
शीतास्त्वदीयकरुणाप्रभवाः कटाक्षाः
वाणीं दिशन्तु पुरुषश्रवणेन्द्रियाणाम् ।
आप्यायनीममृतकल्परुचिं सदा मे
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २४॥
वेदास्त्वदीयमहिमानमपौरुषेयाः
नाद्यापि नूनमधिगन्तु ममी समर्थाः ।
त्वामल्पया स्तुतिपरो न बिभेमि वाचा
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २५॥
लक्ष्म्या वसन् मम हृदन्तरपुण्डरीके
आभासनीतिबहुलै रविकम्पनीयम् ।
शङ्काकलङ्करहितं वद ते स्वरूपं
लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २६॥
एकेन शङ्खमपरेण करेण चक्रं
व्याख्यानचिह्नमितरेण परेण पुस्तम् ।
धृत्वा श्रिया सह वसन् सितपुण्डरीके
मां रक्ष ज्ञानद! विभो! तव सुप्रभातम् ॥ २७॥
इत्थं हयानन विभोरिह सुप्रभातं
लक्ष्म्यायुतस्य सितपद्मनिविष्टमूर्तेः ।
ये मानवाः पठितुमादरपूर्णचित्ताः
ते प्राप्नुवन्ति कवितां च वचोविलासम् ॥ २८॥
इति श्रीलक्ष्मीहयाननसुप्रभातं सम्पूर्णम् ।
श्रीलक्ष्मीहयवदनार्पणमस्तु ।
Proofread by Chandrasekhar Karumuri